SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१७॥ हेतो: ? इत्याशङ्कायां विशेषणद्वारेण हेतुमाह-'धीराः' सात्त्विका यत इति शेषः, ते किमित्याह-जिनदास इव 'सदा सर्वदा ‘भवन्ति' जायन्ते । 'सुखभागिनः' शर्मभाज: 'लोके' जगति, न चेदं स्वमनीषिकयोच्यते, यत उक्तमन्यैरपि-"सर्वाः संपत्तयस्तस्य, सन्तुष्टं यस्य मानसम् । गा. ६१ उपानद्गूढपादस्य, ननु चर्मावृतैव भूः ॥१॥ जह २ अप्यो लोभो जह २ अप्पो परिग्गहारंभो। तह तह सुहं पवढइ धम्मस्स य होइ जिनदास संसिद्धी ॥२॥" इति गाथाऽक्षरार्थः ।। भावार्थ: कथानकेनोच्यते पाटलिपुत्रे नगरे जिनदास: श्रावकोऽभवत् ख्यात: । सम्यग्द्यष्ट: पञ्चाणुव्रतधारी गुणसमृद्धः ॥१।। तस्यान्यदा च हट्टे तडागखनने नृपेण विनियुक्तैः । कर्मकरैरानीता: स्वर्णमया लोहसशकुशा: ।।२।। परिमाणस्यातिक्रमभयेन जगृहे न तेन विदुषा । उपनीतास्तदनु च तैर्विपणौ खलु लोभनन्दस्य ।।३।। तेनापि लोहमूल्येन गृहीताः स्वर्णलोभतो भूयः । भणिता अन्येऽप्येवंप्राया अत्रैव विक्रेया: ।।४।। अज्ञानदोषतस्ते हेममयानपि च लोहमूल्येन । विक्रीणान्ति प्रतिदिनमितरो लोभेन गृह्णाति ।।५।। अन्येास्तत्सुहृदः प्रकरणमभवद्गृहे किमपि तेन । आकार्य बलानीतोऽनिच्छन्नपि भोजनार्थमसौ ।।६।। भणित: पुत्रो व्रजता स्वीकर्तव्या अनेन मूल्येन । यद्यायान्ति कुशास्ते न च मर्म प्रकटितं तस्य ॥७॥ लोहमया इति बुद्ध्या न च तन्मूल्येन तेन त उपात्ता: । मुग्धतया कर्मकरैनीता अन्येषु हट्टेषु ।।८।। भवितव्यतावशेन च तेष्वेको निपतित: कथञ्चिदपि । पाषाणोपरि दृष्टो व्यपगतकिट्टः सुवर्णमयः ।।९।। तन्निकटवर्तिभिर्दण्डपाशकैस्ते नरास्ततो भणिताः । क्वैते लब्धाः क्व धृताः कस्य वितीर्णाः कियन्तो वा? ॥१०॥ एवं पृष्टाः कथयामासुस्ते सरसि खन्यमानेऽमी । लब्धा मृदा विलिप्ता लोहधिया रहसि विधृताश्च ।।११।। जिनदासस्य च हट्टेऽवतारिता: स्वीकृता न तेनैते । क्रीताश्च लोहमूल्येन लोभनन्देन ते केऽपि ।।१२।। सविशेषमूल्यतोषितहृदया अनुदिवसमेव तद्विपणौ । विक्रीणीम: शेषा अद्यापि च केऽपि तिष्ठन्ति ॥१३।। श्रुत्वैवं तै: कथितं नृपतेराह्वायितश्च तेनासौ । जिनदास एव पूर्वं पृष्टः किं स्वीकृता नैते ? ॥१४॥ तेनोदितं परिग्रहपरिमाणं मम समस्ति तद्भङ्गः । मा भूदिति न गृहीता: कनकमया इति विदित्वाऽपि ।।१५।। तुष्टेन ततो राज्ञा संपूज्य प्रेषित: स्वभवनं स: । पश्चाच्च लोभनन्दानयनाय प्रेषिता: पुरुषा: ।।१६।। इतश्च-कृत्वा भोजनमेषोऽप्यायातो यावदुत्सुकः स्वगृहम् । व्यज्ञासीदगृहीतास्तास्ततश्चिन्तयामास ।।१७।। अभविष्यतां ममांही यदि नैतौ वैरिणौ तदायास्यम् । मित्रगृहं कथमेतद्विचिन्त्य पादौ निजौ तेन ।।१८।। आहत्य कुठारेण छिन्नावत्रान्तरे नृपतिपुरुषा: आगत्य ग्रीवायां प्रगृह्य निन्युनपतिपार्श्वम् ॥१७०।। | ॥१९॥ राज्ञाऽप्यपहत्य धनं नि:शेषं चौरनिग्रहेणैषः । निग्रहितस्तदेवं ज्ञात्वा लोभं समुत्सृजत ।।२०।। त्यक्तलोभस्तु जिनदासवत्पूज्यो भवतीति गुणं Jain Educa mabonal For Personal & Private Use Only ww & brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy