SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ दोषे चारूदत्त गा.६० 88888888RRARY श:, सौभाग्यादिगुणात। कर्कोटको गिरिश्चात्र, साधी, चारुदत्तो नवपद k भो !, चारुदत्त ! समागत: ? । चम्पायां यस्त्वया बद्धो, मोचित: खचरोऽस्मि सः ।।१५।। तत्काल एव संप्राप्तस्वकान्तोऽष्टापदं प्रति । प्रणष्टे प्रतिशत्रौ वृत्ति:मू.देव. मे, गतोऽहं स्वं पुरं ततः ॥१६॥ कियताऽप्यत्र कालेन, व्रतादानाभिलाषिणा । स्वराज्ये स्थापित: पित्रा, स्वयं च जगृहे व्रतम् ॥१७॥ वृ. यशो हिरण्यस्वर्णकुम्भाख्यचारणश्रमणान्तिके। अभ्युद्यतविहारी चोपात्तशिक्षो बभूव स: ।।१८।। राज्यं पालयत: स्थित्या, सर्वान्त:पुरशोभने । जाते भार्ये च मे ॥१६८॥ वर्ये, जयसेनामनोरमे ।।१९।। मनोरमायामुत्पन्नं, तदा पुत्रद्वयं मम । एक: सिंहयशोनामा, वराहग्रीवकोऽपरः ।।२०।। पुत्री गन्धर्वसेना च, गान्धर्वेऽतिविचक्षणा । जज्ञे विजयसेनायाः, सौभाग्यादिगुणोत्तरा ॥२१॥ अन्यदा सह विद्याभिर्दत्त्वा राज्यं स्वपुत्रयोः । चारणव्रतिनोरन्तेऽहं तयोराददे व्रतम् ।।२२।। द्वीपोऽयं कुम्भकण्ठाख्यो, लवणाम्भोधिमध्यगः । कर्कोटको गिरिश्चात्र, यस्मिन्नातापयाम्यहम् ।।२३।। देवविद्याधरान् मुक्त्वा, चारणश्रमणांस्तथा । नान्योऽत्र शक्त आगन्तुं, कथं त्वं तु समागत: ? ।।२४।। इत्युक्त्वा विरते साधौ, चारुदत्तोऽपि मूलतः । स्वां कथां कथयामास, तत्रागमननिष्ठिताम् ।।२५।। अत्रान्तरे समायातौ, विद्याधरनरोत्तमौं । रूपेण सदृशं साधोोतयन्तौ नभोऽङ्गणम् ।।२६।। चारुदत्तेन तौ दृष्ट्वा, वन्दमानौ मुनीश्वरम् । अस्यामितगतेः पुत्राविति चेतसि चिन्तितम् ।।२७।। कुलप्रसूतिसंसिद्धं विनयेन तमप्यमू । वन्दित्वोचितभूभागे, उपविष्टौ मुनिर्जगौ ।।२८।। भो ! भो ! स चारुदत्तोऽयमित्युक्तावादरेण | तौ । ऊचतुः स्वागतं तेन, पितुर्जीवितदायिन: ।।२९। इतश्च नभसाऽऽयान्तं, विमानं मुनिसंनिधौ । दद्दशुः सर्व एवामी, दिव्यसीतनिस्वनम् ।।३०॥ ततोऽवतीर्य दिव्यात्मा, व्यालोलमणिकुण्डल: । सुपर्वा चारुदत्तस्य, ववन्दे चरणद्वयम् ।।३१।। साधुं तदनु वन्दित्वा, चारुदत्तस्य सम्मुखः । उपविष्ट उपालब्धः, खचराभ्यामेवमञ्जसा ॥३२॥ देवेभ्यो विधय: सर्वे, प्रवर्त्तन्तेऽत्र निश्चितम् । तत्किं साधुं व्यतिक्रम्य, वन्दितः श्रावकस्त्वया ? ॥३३॥ सोऽभ्यधादयमस्माकं, धर्माचार्यो यतोऽभूत: । धर्म धर्मफलं देवं, गुरुं च ज्ञातवानहम् ।।३८।। कथमेवमिति प्रोक्ते, खचराभ्यां सुरोऽवदत् । वाराणस्यां । पुराऽभूतां, सुभद्रासुलसाभिधे ।।३५।। द्वे परिव्राजके वेदवेदाङ्गादिविशारदे । अन्यदा याज्ञवल्क्येन, विवादे सुलसा जिता ।।३६।। तत्प्रभृत्येव सा तस्य, शुश्रूषानिरताऽभवत् । अत्यन्तसंस्तवाच्चैषा (ग्रन्थानम्-५०००) नैकान्तेऽपि निवार्यते ।।३७।। कालो गच्छति चान्योऽन्यं, तयोः कामातुरत्वतः । संजातमैथुनासक्तिस्तारुण्यमदमत्तयोः ।।३८।। नगरादतिदूरे च, क्रीडतोराश्रमास्पदे । जात: पुत्रोऽन्यदा तं च, छायायां पिप्पलस्य तौ ।।३९।। परित्यज्य ततो नष्टौ, स च पिप्पलपिप्पकम् । कथञ्चित्पतितं वक्त्रे, भक्षयन्नवलोकितः ।।४०।। भद्रया सुलसास्वस्रा, ज्ञातवृत्तान्तया तया। चित्तखेदं विधायोच्चैर्नीतो बाल: स्वमन्दिरम् ।।४१।। नामप्रदानकाले च, कालाद्यौचित्यविज्ञया । यथार्थं नाम चक्रेऽस्य, पिप्पलाद इति स्फुटम् ।।४२।। तस्याः प्रतिश्रये तेन, पेठे ६८॥ Jain Educa t ional For Personal & Private Use Only _ww. Kabrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy