________________
तन्मध्यप्रविष्टौ चोत्क्षिप्तावामिषबुद्धिना । भारुण्डद्वितयेनावां, याव: स्वर्णभुवं सुखम् ।।८८।। चारुदत्तोऽभ्यघादेवं, हा न युक्तमिदं यत: । नवपदवृत्ति:मू.देव.
आभ्यामुत्तारितावावां, दुर्गकान्तारतोऽमुत: ॥८९।। तदेतन्निघृणं कर्म, कृतज्ञत्वं विहाय कः । कुर्यात् ? किंचेह हिंसातो, योऽर्थो मा भूत्स न: कुले वृ. यशो
॥९०॥ विहस्योवाच रुद्रस्तु, न त्वदीयावजाविमौ । यन्मह्यं रोचते किंचित्तत्स्वयोः करवाण्यहम् ।।९१।। इत्युदित्वा झगित्येव, जघान निजवाहनम् । ॥१६७॥
। द्वितीयश्चारुदत्तस्य, चकितो मुखमैक्षत ।।९२॥ ततोऽसौ तमुवाचैवमहो बस्त ! त्वया पुरा । हिंसा प्रवर्त्तिता क्वापि, त्वं तेन प्राप्स्यसे वधम् . ॥९३।। मनोवाक्काययोगैर्यो, जीव: कर्माकरोत्पुरा । शुभाशुभं भवेत्तेन, तद्भोग्यं नात्र संशय ।।९४।। तदेवं न समर्थोऽस्मि, त्रातुं त्वां किन्तु मद्वचः । शृणु भावेन यद् दुःखी, पुनस्त्वं न भवे भवेः ॥९५।। मृत्युदुःखार्तजन्तूनां, मनोवाक्कायचेष्टितैः । पीडा मया न कार्येति, गृहाण प्रथमं व्रतम् ॥९६।। उत्पद्यते वधो यस्माज्जीवानां जीवितैषिणम् । पीडा वा तन्न वक्तव्यं, ममेत्यस्त्वपरं व्रतम् ।।९७।। न हर्त्तव्यं परं द्रव्यं, सचित्ताचित्तमिश्रभित् & । मयेति प्रतिपद्यस्व, त्वं तृतीयमपि व्रतम् ॥९८|| नरतिर्यक्सुरस्त्रीणां मनोवाक्काययन्त्रितः । मैथुनाद्विरतोऽस्मीति, चतुर्थव्रतमाचर ॥९९।। अभ्यन्तरस्तथा बाह्यो, न कर्त्तव्यः परिग्रहः । त्रिविधेम मयेत्येवं, पञ्चमं स्वीकुरु व्रतम् ।।१००।। इत्थं व्रतानि पञ्चापि, त्वं चेत्सम्यक् करिष्यसि । जिनोदितानि दिव्यर्झर्लप्स्यसेऽन्यभवे तदा ॥१०१।। नच मां रुद्रदत्तोऽयं, हन्तीतिमनसा कुरु । स्वकृतान्येव कर्माणि, निघ्नन्तीति विचिन्तय ।।१०२।। अन्यच्छरीरमन्योऽहं, भोक्ता स्वकृतकर्मणः । नित्योऽहमिदमध्रौव्यं, प्रतिपद्यस्व भावतः ॥१०३।। कौधादिभावचौराणां, भक्त्वा | प्रसरमादरात् । ज्ञानादिरत्नसङ्घातं, परिपालय सन्ततम् ।।१०४।। अर्हदादिनमस्कार, परावर्त्तय चेतसि । इत्युक्त: प्रणतो भूत्वा, सर्वभङ्गीचकार सः | ।।१०५।। अत्रान्तरे समागत्य, रुद्रदत्तो जघान तम् । सकृपं चारुदत्तेन, वार्यमाणोऽपि सत्त्वरम् ।।१०६॥ तत्कृत्ती भस्त्रिके कृत्वा: चारुदत्तं | सशस्त्रिकम्। एकस्यां संप्रवेश्याशु, परस्यां प्राविशत् स्वयम् ।।७।। ततो भारण्डपक्षिभ्यां, कुतोऽप्यामिषवाञ्छया। विनिपत्य समुत्क्षिप्तौ, तत्क्षणात् । व्योममण्डले ।।८।। चारुदत्तो धृतो येन, समं तस्यान्यपक्षिणा । आकाशे युध्यमानस्यापतद्भस्त्री सरोजले ।।९।। शस्त्र्या विपाट्य तां सोऽपि, गर्भादिव । विनिर्गतः । उत्तीर्ण: सरसोऽपश्यद्वीपं रत्नादिविराजितम् ॥१०॥ तत्राविशङ्कितो भ्राम्यन्मन्दमारुतकम्पितम् । ददर्श गिरिकूटाग्रे, वीरं चन्द्रकरोज्वलम् । ॥१।। चारणश्रमणस्येदमिति संभाव्य वन्दितुम् । तं साधुमगमत्तूर्णमारुरोह च तं गिरिम् ।।१२।। आतापयन्तमद्राक्षीदूर्ध्वबाहु महौजसम् । चारणश्रमणं ॥१६५
तत्र, ज्वलन्तमिव पावकम् ॥१३॥ विनयेन तमभ्येत्य, मुनीन्द्रं परया मुद्रा । ववन्दे पारितोत्सर्गा, धर्मलाभं मुनिर्ददौ ।।१४।। बभाषे च कुतस्तवं. Jain Educatimasonal
www. rary.org
For Personal & Private Use Only