________________
नवपदवृत्ति: मू.देव. वृ. यशो ॥१६५॥
मित्रवती तस्याः, पितृभ्यां ग्राहित: करम् ।।३०।। कलास्वासक्तचित्तोऽभून्न भोगसुखसंमुख: । प्रवेशितस्ततो गोष्ठी, गुरुभ्यां ललितामसौ ।।३१।। यथेष्टं विचरन्नेष, तया सममुदारधीः । सुतां कलिङ्गसेनाया, रूपयौवनशालिनीम् ॥३२॥ वेश्यां वसन्तसेनाख्या, प्रत्यक्षां कमलामिव । दृष्ट्वा कामवशं यातो, वर्षीदशभिस्तत: ।।३३।। तया समं विशालाख्या, कोटी स्वर्णस्य षोडश । अज्ञाता एव कालेन, कामासक्तेन नाशिताः ॥३४॥ यावत्तेन ततोऽन्येधुर्मदिरापानघूर्णितः । कलिङ्गसेनयोत्सृष्टो, विनष्टगृहविस्तरः ।।३५।। कथञ्चित्स्वगृहं प्राप्तोऽभ्युस्थितो निजभार्यया । पितुर्मृत्युं शुचं मातुरवबुद्व्यातिदुःखित: ॥३६।। गृहीत्वा पत्न्यलङ्कार, गतो वाणिज्यतृष्णया । उसीरावर्त्तनगरं, साकं मातुलकेन सः ॥३७।। तत्र प्रभूतकर्पासं, जग्राह विहिताग्रहः । धनार्जने पुनस्तामालिप्तिमागच्छत: पथि ।।३८।। दग्धो दवानलेनाशु, कर्पासस्तस्य पश्यतः । ततोऽश्वेन गत: प्राची, दिशमुत्सृज्य मातुलम् ।।३९।। विनष्टं तमपि त्यक्त्वा, पद्भ्यामेत प्रयातवान् । पिपासापीडितोऽन्येधुरुदिते रविमण्डले ॥४०॥ प्रियङ्गुपत्तनं प्राप्त:, पोतवाणिजिकाकुलम् । दृष्ट: सुरेन्द्रदत्तेन, तस्मिन् पिनयनेन सः ।।४।। पुत्रवत्प्रतिपन्नश्च, भोजनाच्छादनैस्तदा । वार्यमाणोऽन्यदाऽम्भोधिमवतीर्णो धनाशया ।।४२।। संप्राप्तो यवनद्वीपं, भ्राम्यंस्तन्नगरेषु च । अष्टौ कोटीधनस्याशु, समुपार्जितवानसौ ॥४३।। स्वपुराभिमुखो भूयश्चचालावान्तरेऽस्य च । स्फुटितं यानपात्रेण, दूरोभूतं धनेन च ॥४४॥ जीवितव्यावशेषेण, फलकं प्राप्य कथं च तत् (प्राप्तवांस्तत:)। सप्तरात्रेण तीर्णोऽब्धिः, प्राप्तं राजपुरस्य च ॥४५।। बहिस्तादाश्रमस्थानं तत्र दृष्टश्च मस्करी । कुशलो रसविद्यासु, नाम्नादिनकरप्रभः ।।४६।। लग्नस्तत्पृष्ठ एवासौ, स्वीकृतस्तेन पुत्रवत् । कदाचिद्रसलोभेन, नीत: कमपि पर्वतम् ।।४७।। तन्नितम्बैकदेशे च, कूटयन्त्रार्गलावृतम् । कृतान्तवदनाकारं, मन्त्रयोगप्रकाशितम् ।।४८।। प्रदर्श्य विवरं घोरं, सहात्मना प्रवेश्य च । दर्शयामास तन्मध्ये, कूपं स नरकाकृतिम् ॥४९।। पूतिगन्धिं चतुर्हस्तं, घनान्धतमसाऽन्वितम् । समं दैर्घ्यपृथुत्वाभ्यां, त्रिदण्डी तमुवाच च ।।५०।। पुत्रकावतरामुत्र, येनैकं ते ददाम्यहम् । तुम्बकं रससम्पूर्णं, सोऽपि तृष्णान्धमानसः ।।५१।। कृत्वाऽलाबु करे रज्ज्वा, चतुर्नरमितां भुवम् । गतो यावदधोलग्नो, रसादित्साप्रणुन्नधीः ।।५२।। आधस्त्यमेखला तावत्तमोदुर्लक्ष्यमूर्त्तिना । मानुष्यभाषयाऽधस्तान्मा विक्ष इति वारितः ।।५३।। केनचिच्चारुदत्तोऽपि, को वारयति मामिह । परिव्राजो गिरायातमित्युवाच भयोज्झितः ।।५४।। तेनोचे वणिगरम्यब्धौ, भिन्नपोतस्त्रिदण्डिना । धनेच्छानुगत: क्षिप्त: स्वार्थीनष्ठेन पापिना ।।५५।। कृत्वा पशूपहारं मां, रसाय स गतः स्वयम् । अधोभागो मम प्रायो, रसेन प्रापित: क्षयम् ॥५६॥ तदेवमुदधि तीर्चा, यथाऽहमिह दुःस्थितः । चारुदत्त ! गतो नाशं, तथा त्वमपि मा गम: ॥५७।। समर्पय ममालाबु, येन ते रसपूरितम् । प्रत्यर्पयामि रसेन त्वं विनश्यसि ।।५८।। ततस्तदर्पितालाबु, कारुण्यात् प्रतिपूर्य स: ।
॥१६५।।
Jain Educatiemational
For Personal & Private Use Only
wwwhdbrary.org