________________
पातज्वरोऽयं, तया च तवर
नवपद
K वृत्तिम.देव. वृ. यशो ॥१६२||
न पञ्चाशद्योजनगामिनी पापचारैः स्वल्पदिनैरेव
वैद्यस्तदीयमातरमादिष्टवान् यथा बलात्तैलमादायाभ्यज्यतां जबैकदेशोऽस्याः, आमवातज्वरोऽयं, तया च तथैव विहिते वैद्यवचसि सद्य एव संपन्नो मनाक्य तत्र स्थाने गुणः, ततोऽवबुद्धतद्रोगेण वैद्येनोपचर्य विविधोपचारैः स्वल्पदिनैरेव नीरोगीकृतायां श्रीप्रभायामुचितपूजया विधिवत्सन्मान्य नैमित्तिकवैद्यौ विमलो राजकुलादभियाच्य दिनद्वयेन पञ्चाशद्योजनगामिनी चरिकामारुह्य स्वयं गतः श्वशुरगृहं, दृष्टा च तत्र विचित्रतपश्चरणशोषितशरीरा धनश्री, लज्जाभरमन्थर: स्ववदनं दर्शयितुमशक्नुवन्नभिवाद्य श्वशुरं भणितवांश्च क्षमणीयो ममैकोऽयमपराधः, पुनर्न करिष्याम्यहमेवं, मुच्यतां चेयं धनश्रीर्येन गृहीत्वैनां व्रजामि स्वभवनं, किञ्चिदुपालम्भसारमाभाषित एष तेन-भो भो जामातृक ! न युक्तमेवमपर्यालोचितकारित्वं भवतो, यत:-“मा होइ सुयग्गाही, मा पत्तिय जं न दिद्रुपच्चक्खं। पच्चक्खेऽविहु दिढे जुत्ताजुत्तं वियारेह ॥१॥" किञ्च सुशीलतादिगुणकलापमालोक्यास्या लोकोऽप्येवमुदाहरति-कुष्टं कुपरिज्ञातं, कुश्रुतं कुपरीक्षितम् । पुरुषेण न कर्त्तव्यं विमलेन यथा कृतम् ॥१॥” इति तन्न प्रेषणयोग्येयं, किन्तु भर्तृदेवता नार्योऽतस्त्वयि स्वयमेतद्ग्रहणायायाते न शक्नुमो वयं निराकर्तुमिति प्रतिपाद्य उचितप्रतिपत्तिपूर्वं दिनपञ्चकं धृत्वा विसृष्टोऽसौ धनश्रिया सह समाजगाम स्वनगरं, राजकुल एव समर्पिता चरिका, कारितो धनश्रीसमानयनतुष्टचित्तेन महानुत्सवः, स्वगृहानिष्काशितुमारब्धा च श्रीप्रभा, निवारितो धनश्रिया, मम स्वसेयं नास्या अपराधगन्धोऽस्ति, ममैव पूर्वकृतकमविलसितमेतत्, यदूक्तम्- “सर्वः पूर्वकृतानां, प्राप्नोति हि कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥१॥" इति, मोचितश्चात्मा प्रव्रज्यार्थं, न मुक्ता भा, भणिता च-तिष्ठ वर्षसप्तकं, भुड्क्ष्व मयाऽनुरक्तेन सह तावदुदारभोगान्, पश्चात्त्वं चाहं च ग्रहीष्यावश्चरमवयसि प्रव्रज्या, ततोऽसौ भर्तुरनुरोधेन स्थिता गृहवास एव, गतेषु केषुचिद्दिवसेषु भणित्वा भर्तारं प्रचुरद्रव्यव्ययेन कारयामास महदेकं जिनायतनं, तत्रानवरतं महाप्रबन्धेन पूजास्नात्रयात्रादिकरणकारणपरायणाया व्यतिक्रान्तानि सप्त वर्षाणि, भूयोऽपि विज्ञप्तो भर्ता प्रवज्यार्थ, ततोऽसौ जिनभवनाष्टाह्निकामहोत्सवकारणपूर्वकं प्रतिमायोग्याभरणसमकलादिषु प्रभूतद्रविणजातं वितीर्य समं धनश्रिया श्रीप्रभया च जीवानन्दाचार्यसमीपे सर्वविरतिदीक्षां समुपात्तवान्, कालान्तरे च क्षपितप्रभूतक्लिष्टकर्माऽन्त्यसमयसमाराधित-पञ्चनमस्कारस्मरणादिविधिर्मरणे विमलो धनश्रीश्च पञ्चमदेवलोकं ब्रह्मलोकनामकमगमत्, | श्रीप्रभा तु सौधर्मदेवलोके ललिताङ्गविमान एवोत्पेदे, सावशेषतत्कर्मणा च ततच्युता भो अशोकदत्तश्रेष्ठिन् ! भवत एवाशोकधीनामिका पुत्रिका जाता, सेयं तत्कर्मविपाकेन दौर्भाग्यमनुभवति, एतच्च श्रुत्वा सा जातिस्मरणोपलब्धपूर्वभवस्ववृत्तान्ता अश्रुपातं कुर्वन्ती विमलयश:सूरेः पादयोर्निपत्य-भगवन् ! स्वदीक्षादानेन ममानुग्रहः क्रियतामिति वदन्ती आचार्येण बभाषे-भद्रे ! तव नाद्यापि व्रतयोग्यताऽस्ति, यतो वर्षपञ्चकादूर्ध्वमपयास्यति तवेदं दौर्भाग्यनिबन्धनं
w
यसि प्रवज्या प्रवज्यार्थ, न मुक्तकृताना, प्राप्नोति माह च श्रीप्रभा, निवा
॥१६२॥
Jain Educ
a
tional
For Personal Private Use Only
ybrary.org