________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥१६॥
रहस्यभेदो मा भूदिति चिन्तयता समुत्थाप्य भणिता-धीरा भव, अयमपि ममादेश: कृतो भविष्यति तद्वज तावत्, ततो धनश्रिया न युक्तमिदं कर्तुं तथाऽप्यलध्यवचनो भर्त्ता मया च प्रतिपन्नपूर्वमिदमतो यद्भवति तद्भवत्विति चिन्तयन्त्या प्रतिपन्नं तद्वचः, ततो यदाऽहमानयामि तदाऽवगन्तव्यमित्यभिधाय विसर्जिता तेन सा, दत्ता आप्तस्वपुरुषास्तत्सहायाश्च, भणिताश्च स्वपुरुषा:-यथा धनश्रियं पैत्रिकस्थाने विमुच्य शीघ्रमधौतपादैरेव ततो निवर्तितव्यं, ततस्ते प्रतिपन्नतद्वचना धनश्रियं गृहीत्वा गतास्तत्पितृगृहं, मुक्ताऽसौ तत्र, निवृत्तास्तथैव ते, पृष्टा च धनश्रीपितृभ्यां-वत्से ! किमेवं ?, साऽवोचत्-न जानामि, निरपराधैव निष्काशिता भर्ता, पितृभ्यामुक्तं-नेदमुचित्तं, परं यावत्सम्यग्वार्तामुपलभावहे तावत्तिष्ठ त्वं, ततोऽसौ तेन वचनेन मुद्गरेणेव ताडिता रोदितुं प्रवृत्ता, चिन्तितवती च-अपरीक्ष्यैव यदहं, प्रियेणाप्रियकारिणा । त्यक्ता सीतेव रामेण, हा किं तस्योचितं तु तत् ? ।।१।। तदेवं-किं करोमि क्व वा यामि, कस्याग्रे कथयामि वा ? । वल्लभादुदिते दु:खे, जातं शरणतो भयम् ।।२।। अङ्गिनां धर्महीनानां, यद्वा सुप्रापमीदृशम् । संसारेऽनिष्ठसंयोगाभीष्टहानिसमाकुले | ।।३।। स्वकर्मपरिपाकोऽयं, मया सर्वोऽनुभूयते । तदस्योन्मूलनाहेतोर्धर्म एव ममोचितः ।।४।। इति संचिन्त्य सा नित्यं, धर्मानुष्ठानसङ्गता । आसाञ्चक्रे क्रमायातसुखदुःखसमास्थिति: ।।५।। अन्यदा च समायातस्तत्र सिद्धादेशनामा नैमित्तिकः, पृष्टस्तत्पित्रा-किमियं धनश्रीर्दुष्टशीला पीला वा ?, शीलवत्यपि श्वशुरकुलं यास्यति न वा ?, तेनोक्तं-शीलवती श्वशुरकुलं च यास्यति, अत्रार्थ चायं प्रत्यय:-कतिपयदिनोपरि भर्त्ता चास्या आनयनायाऽऽयास्यति, ततस्तुष्टेन तत्पित्रा दत्तं पारितोषिकं सिद्धादेशाय, विसृष्टश्चासौ, भणिता च धनश्री:-पुत्रि ! तिष्ठ सुखेन धर्मपरा, मा चोन्मनीभूः आयास्यति तवानयनाय स्वभ", ततस्तेनाश्वासिता यथाऽऽदिशति तातस्तथा करोमीत्यभिधाय विशेषधर्मपरा कानिचिहिनानि तौवातष्ठत् । इतश्च-धनश्रीनिर्गता गेहाद्विमलस्य यदैव हि । अत्युग्रव्याधिना ग्रस्ता, तदैव श्रीप्रभा ततः ॥१।। विचित्रैमन्त्रिभिर्मन्वैवैद्यैर्नानावधीपधैः । प्रयत्नवन्दिप्यस्या, व्याधेर्नोपशम: कृतः ।। २।। तत्र प्रकर्षमायातेऽनुतापगतया तया । धनश्रीविषय: सर्वो, वृत्तान्तः स्वो निवेदितः ।।३।। समित्रबन्धुवर्गाय, विमलाय सविस्तरः । पश्चात्तापपरीतात्मा, तत: सोऽपि व्यचिन्तयत् ।।४।। असमीक्षितकारित्वं, ममाहो? असमञ्जसम् । येनाविचार्य संत्यक्ता, निर्दोषाऽपि प्रिया मया ।।५।। हा प्रिये ! विप्रियं दृष्ट्वा, ममैवमतिदारुणम् । कथमाहूयमानाऽपि, त्वमेष्यसि मदन्तिकम् ? ॥६।। भुजङ्गीनामिव स्त्रीणामहो कौटिल्यवर्त्तिता । अहो ! रोषप्रकृष्टत्वमहो ! ईर्ष्याऽतिदारुणा ।।७।। अथवा भद्रिकैवषा, या मृत्युसमयेऽपि मे । स्वकर्म कथयामासानुतापगतमानसा ।।८।। अत्रान्तरे समायात:, सिद्धादेशो निमित्तवित् । तेन नीरोगताऽमुष्या, आदिष्टा स्वल्पकालिकी ।।९।। एतच्च नैमित्तिकवचनमाकर्ण्य तत्पार्श्ववर्ती
तोषिक सिद्धादेशाय, विसधा करोमीत्यभिधाय विशेष मानावयापधैः । प्रयत्नवहिण्यालाय
॥१६१॥ ।
Jain Education emanal
For Personal & Private Use Only
www.jainelibrary.org