SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ १६०॥ योग्यतथाविधाध्यवसायमाहात्म्येन चोत्पन्नौ तस्यामेव कौशाम्ब्यां माधवाभिधानब्राह्मणस्य वसन्तिनीभार्यायां यमलपुत्रौ कृतमुचितसमये तयोर्नामैकस्य रुद्रोऽपरस्य महेश्वरः, क्रमेण जातावष्टवार्षिकौ, अन्यदा च माधवेनैव सह तन्निधानासन्नप्रदेशवर्त्ति स्वक्षेत्रं व्रजन्तौ दृष्ट्वा तमेव भूभागं, जातमूर्च्छावुभावपि । प्रागभ्यासवशेनैव, काचपिच्यपुरस्सरम् ||१|| यावद् युद्धेन संलग्नौ तावत्पित्रा निवारितौ । नीतौ च स्वगृहं प्रीत्या, तिष्ठतः पूर्ववत्पुनः ॥ २॥ तं प्रदेशं समायातौ युद्ध्येते च तथैव तौ एवमुद्वेजितस्ताभ्यां पिता नित्यमिहान्तरे || ३|| तस्यामेव पुर्यां मनोरमाभिधानोद्याने समवसृतः समुत्पन्नातिशायिज्ञानो विमलयशोनाम सूरिः, तद्वन्दनाय गतो राजा सपौरपरिजनजानपदादिः, प्रस्तुता धर्मकथा भगवता, प्रस्तावे च पृष्टमशोकदत्तश्रेष्ठिना- भगवान् ! अस्ति ममाशोकश्रीनामिकैका पुत्रिका, सा च रमणीययौवनमनुप्राप्ताऽपि संजातरूपलावण्यकलाकौशलादिगुणसमुदायाऽपि विचित्राभरणनेपथ्यालङ्कारालङ्कृताऽपि प्राग्जन्मनोपार्जिताऽतिकटुकदौर्भाग्यकर्मोदयतो न कस्मैचिद्रोचते न कोऽपि तामालापयति, तत्किं तया पूर्वजन्मनि कृतं यन्माहात्म्येन सैवंविधा संपन्ना, ?, सूरिणोक्तं-भद्र ! शृणु-प्रतिष्ठाने नगरे बभूव विमलो नाम महाधनः श्रेष्ठिपुत्रः, तस्य धनश्रीनाम भार्या, सा च प्रकृत्यैव नयविनयविराजिता जितकषायोदया दयादानप्रवृत्तिशालिनी शालीनतादिविशिष्टगुणमन्दिरमत्यन्तभक्ता भर्तुः प्राणप्रिया च केवलं वन्ध्या, ततो भर्त्राऽन्यदा पर्यालोचिता सा-प्रिये ! तवोपरि नाहं परिणिनीषुस्तावत् केवलमिदमस्मद्रव्यं यदि मम कदाचित्किञ्चित्प्रतिकूलं भविष्यति तदा राजकुलं प्रवेक्ष्यति तदस्ति कश्चनोपायो द्रविणपरिरक्षणे, ? तयोक्तं प्रिय ! नापरोऽपरस्त्रीपरिणयनं परित्यज्य, तदिदानीमस्मदुपरोधेनाप्यङ्गीक्रियतामिदं, अहमेव त्वद्योग्यां काञ्चित्कन्यामवलोकयिष्ये, ततस्तदुपरोधेनाभ्युपगते तदीयवचने श्रीप्रभाभिधानां परिणायितोऽसावन्यतरश्रेष्ठिकन्यां, कालेन धनश्रिया मारणोपायांश्चिन्तयन्ती ददर्श सा स्वगृहमेव भिक्षानिमित्तमागतामेकां परिव्राजिकां, दानसन्मानगृहीतां च तामुवाच - 'भगवति ! मदीयभर्त्ता विद्वेषपरो धनश्रियं स्वगृहात् । निष्काशयति यथाऽयं तथाऽचिरात्त्वं विधत्स्वेति ॥ | १ || एवं करोमीति प्रतिपन्ने तयाऽन्यदा विमलस्य गच्छतः समासन्नीभूय यथैष शृणोति तथा पूर्वसङ्केतितनार्याः संमुखमवदत् - भद्रेऽहमुत्सुका यामि, तस्याः पार्श्वे धनश्रियाः । स युवा तत्र दुःखेन, तद्वियोगे च तिष्ठते ||१|| विमलोऽपि समाकर्ण्य तद्वचनं नूनं दुष्टशीला धनश्रीस्तत्किं तयेति वितर्क्य गृहं गतो बभाण तां भद्रे ! करोषि मद्वचनमेकम् !, तयोदितम् - आर्यपुत्र ! किमीदृक्षं, त्वयेदं मम कथ्यते ? | मज्जीवितं त्वदायत्तमुक्तमात्रे तु का कथा ? ॥१॥ तेनोक्तं गच्छ पैतृकगृहं ततोऽसौ मुद्गरेणैव तद्वचनेनेव ताडिता । पतित्वा पादयोस्तस्य, रुदन्ती समभाषत ॥ २॥ नाथ ! दुश्चरितं किञ्चित्त्वया संभावितं मम । अप्रस्तावेऽपि येनैवमादेशो दत्त ईदृशः || २ || विमलेनापि For Personal & Private Use Only Jain Educaternational प्रभा कथा ॥ १६०॥ elibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy