________________
एवंविधमर्थमवगम्य किमित्याह-कुर्वन्ति-विदधति, के ? इत्याह-'संसारभयभीता' भवत्रासत्रस्ता:, किं कुर्वन्तीत्याह-तस्य अर्थस्य परिमिति:-परिमाणं । नवपदवृत्तिः मू.देव.
तत्परिमाण-तदियत्तामतो नवधा परिग्रहपरिमाणमित्थं जायत इति सूचितमिति गाथाक्षरार्थ: ।। अत्र च संसारभयभीता: संतोषविवर्जितमर्थं कुगतिमूलमनर्थविषयं । कोच ज्ञात्वा तत्परिमाणं कुर्वन्तीत्युक्तम्, कथं चैषोऽनर्थविषय: कुगतिमूलं चेत्येतदृष्टान्तद्वारेणाभिधीयते॥१५९॥
इहैव जम्बूद्वीपे भारतवर्षमध्यमखण्डमध्ये कोशवर्द्धनं नाम नगरं, तत्र भीमो नाम ब्राह्यणः, तत्पुत्रौ देवदेवशर्मनामानौ बभूवतुः, तौ च 3 जन्मप्रभृत्येव महादारिद्रयपीडितौ कथंकथमपि पित्रा यौवनमनुप्रापितौ, तौ चान्यदा चिन्तितवन्तौ-यथाऽत्रावयोस्तावद्भोजनमात्रमपि न संपद्यते, तद्याम: K8 किमपि स्थानान्तरं यत्र किञ्चिनिर्वाहमात्रं संजायते, ततो गतौ तौ पितरमापृच्छ्य कौशाम्बी, तदा च तस्यां राजपुत्र्याः सौभाग्यसन्दीपनं नामोत्सवनं कृतं, | तदुद्यमनके च समवयोविद्यागुणाय समायाताभिर्नवातिथये ब्राह्मणद्वयाय प्रच्छन्नं मौक्तिकसुवर्णरत्नादि देयम्, उद्यमनकदिने च भवितव्यतायोगेन तस्या नियुक्तपुरुषैस्तदेव ब्राह्मणद्वयं समानवयोरूपादिगुणं विलोक्योद्धूलितजई राजकुले समानीय विहितोचितकृत्यविस्तरं दर्शितं राजपुत्र्याः, तया च सजतकच्चोलके मौक्तिकादिपदार्थान् गुप्तान् प्रक्षिप्योपरि करसूपादि परिवेश्य प्रत्येक ताभ्यां दत्ते, ताभ्यां तु ते आदाय गतं तडागपाल्यां, गृहीत्वा जलं कृत्वा चरणशौचं विधाय चात्मीयप्रक्रियामुपस्पर्शनादिकां भोक्तुमारब्धं यावत्तावद् दृष्टं मौक्तिकसुवर्णादि, ततोऽनादिभवाभ्यस्तलोभसञोद्भूतगाढतन्मूपिरिणामयोरुभ-12 योरपि प्रवर्द्धते मारणाभिलाषः, देवेन चिन्तितं-देवशर्माणं यदि व्यापादये तदेदं मम सर्व द्रव्यं संपद्यते, देवशर्मणाऽप्येवं, ततो देवेनाभ्यधायि-यथेदं । मौक्तिक-सुवर्णादि यद्यनावृत्तमेवात्मपार्श्वे धारयिष्यावस्तदा चौरादिः प्रतिग्रहीष्यति, तस्मादिदं निधानीकृत्य क्वचित्प्रदेशेऽन्यत्र तिष्ठाव:, ततः प्रतिपने देवशर्मणा तथैव तन्निधानीकृत्य यावच्चलितावन्योऽन्यवधविहिताभिप्रायावन्यप्रदेशाभिमुखौ तावत्तत्रान्तरे दृष्ट एको जीर्णकूपो देवेन, भणितश्च देवशर्मा-वत्से ! निरीक्ष्यतामेष कूप: कियदवोदकं ?, ततोऽसौ यावनिरीक्षितुमारेभे तावत्प्रणुन: कूपमध्ये, तेन च पतता गृहीत: सोऽपि शरीरदेशे, निरालम्बनतया पतितौ द्वावपि, |
मृत्वा जातौ सर्पत्वेन, क्रमेण च परिभ्रमन्तौ समागतौ निधानप्रदेशं, तत्प्रदेशोत्पन्नमूच्छौ चारब्धौ योद्धमुपारूढप्रबलकोपौ च परस्परं युध्यमानावेव प्राप्तौ । | निधनमुपपन्नौ मूषकत्वेन, तथैव तत्प्रदेशागमनोपारूढगाढमूर्छावन्योऽन्यभक्षितसमस्तशरीरदेशौ महावेदनाभिभूतौ मृत्वा समुत्पन्नौ कमलत्वेन, तथैव च कालान्तरेण तत्प्रदेशमागतौ यूथसहितौ परस्परमारब्धौ योद्धं, तीव्रकोपतया कथञ्चिन्नोपरमेते यावत्तावत्समायातस्तत्र धनुर्दण्डमारोप्याकर्णान्ताकृष्टशरो व्याधः, तं दृष्ट्वा ॥१५९। पलायितं दिशोदिशमशेषयूथं, तौ च तीव्रयुद्धाभिनिवेशविवशावलक्षिततदागमनौ हतावेकशरनिपातेन तेन, मरणसमयसमुपजातमनुष्यभवनिर्वर्तना-8
Jain Educatio
n
al
For Personal & Private Use Only
www.
lary.org