SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। १५८।। धनधान्यादेः परिग्रहः, अयमभिप्राय:- निजसत्तया धृतस्य धनधान्यादेरुपरि यन्मम भावो ममत्वं ममेदमिति परिणतिस्तेनापि परिग्रहः, एतस्य परिग्रहस्य 'तु:' विशेषणे प्रोक्तरूपस्येति विशेषयति, या 'विरतिः' निवृत्ति: 'स्वरूप' स्वभावः, एतत्तु एतदेव 'ज्ञातव्यं' बोध्यमिति गाथार्थः ॥ ५७॥ उक्तं प्रथमद्वारेणेदम्, अधुना भेदद्वारेण वाच्यं तच्च यद्यपि निर्भेदं तथाऽपि विषयद्वारेण भेदवद्, अतस्तन्मुखेनैवास्य भेदानभिधातुमाह खेतं वत्थु हिरण्णं सुवण्णधणधन्नकुवियपरिमाणं । दुपयं चउप्पयंपिय नवहा तु इमं वयं भणियं ॥ ५८॥ नवभिः प्रकारैः नवधा ‘तुः’ एवार्थे नवधैवेदं परिग्रहपरिमाणलक्षणं पञ्चमं व्रतं 'भणितं' प्रतिपादितं, तीर्थकरादिभिरिति शेषः, इयं गाथाचतुर्थपादव्याख्या, कथं पुनर्नवधेति चेदत्राह- क्षेत्रं' सेतुकेतुसेतुकेतुरूपं, तत्र यन्त्रद्यादिजलेन पादावर्त्तारघट्टादिभिः सिच्यते तत्सेतु, यत्तु वर्षाकालजलेनैव तत्केतु, यत्तूभयसेकं तत्सेतुकेतु, तद्विषयं परिमाणमपि क्षेत्रमित्येको भेदः, तथा वास्तु खातमुच्छ्रितं खातोच्छ्रितं च तत्र खातं भूमिगृहं उच्छ्रितं धवलगृहं खातोच्छ्रितंभूमिगृहोपेतमेव धवलगहं तद्विषयं परिमाणमपि वास्तु द्वितीयो भेदः, हिरण्यं-घटितकनकं तद्विषयं व्रतमपि हिरण्यं तृतीयो भेदः तथा सुवर्णं च धनं च धान्यं | च कुप्यं चेति द्वन्द्वस्तेषां परिमाणं परिमितिः, परिमाणशब्दस्य प्रत्येकसम्बन्धात् सुवर्णपरिमाणं धनपरिमाणमित्यादि द्रष्टव्यम्, एते चत्वारो भेदा: पूर्वैस्त्रिभिः सह सप्त, यथा क्षेत्रं हिरण्यमिति अनुस्वारोऽलाक्षणिक एव, ततश्च क्षेत्रं च वास्तु चेत्यादिद्वन्द्वे एतेषां परिमाणमिति षष्ठीतत्पुरुषे च परिमाणशब्दस्य प्रत्येकं सम्बन्धात्क्षेत्रपरिमाणमित्यादयः सप्त भेदाः, 'द्विपदं चतुष्पदमपि चे' ति भेदद्वयसहिता नव, एवं नवधैवेदं भणितं, भावना तु सर्वत्र पूर्ववद् दृश्या, सुवर्ण च घटितसुवर्णं, धनं च गणिमधरिममेयपारिच्छेद्यभेदाच्चतुर्विधं तत्र गणिमं पूगनालिकेरादि गण्यत इतिकृत्वा, धरिमं खण्डगुडादि, तुलाया धियत इतिकृत्वा, मेयं घृतादि मीयते कर्षादिभिरितिकृत्वा, पारीक्ष्यं द्रम्मादि 'परीक्ष्य' परिच्छिद्य गृह्यत इति वा, धान्यं च गोधूमशाल्यादि, कुप्यं सुवर्णराजताभ्यामन्यत्ताम्रपात्रादिगृहोपस्करः, द्विपदं दासदास्यादि, चतुष्पदं गवाश्वादीति, 'अपि:' समुच्चये, चः स्वगतानेकभेदसूचकोऽवगन्तव्य इति गाथार्थः ॥ ५८ ॥ उक्तं भेदद्वारमस्याधुना यथा जायत इदं तथोच्यते अत्थं अणत्थविसयं संतोसविवज्जियं कुगइमूलं । नाउं तप्परिमाणं कुणंति संसारभयभीया ।। ५९ ।। अर्थं’ वित्तं ‘ज्ञात्वा' विदित्वेति सम्बन्ध:, कीदृशम् ? 'अनर्थविषयं' व्यसनगोचरं, किंविशिष्टं पुनः ? इत्याह-सन्तोषः - उत्तरोत्तराभिलाषनिवृत्तिः सन्तुष्टतेतियावत् तेन विशेषेण वर्जितं -रहितं सन्तोषविवर्जितं, भूयः कथम्भूतं ? - कुत्सिता गतयः कुगतयो - नारकतिर्यगाद्यास्तासां मूलं कारणं कुगतिमूलं, Jain Educaernational For Personal & Private Use Only उत्पत्तिद्वारे दवदेव शर्म कथा ॥ १५८॥ brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy