________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥१५७॥
'भङ्गविकल्पैः' अतिक्रमादिभङ्गनानात्वैः, प्राग्व्याख्यातानेकविधव्याख्याभङ्गैर्वाऽतिचारा: अतिक्रमा इति गाथार्थः ।।५४।। उक्तमतिचारद्वारमधुना भङ्गद्वारमष्टममस्याभिधीयते
इत्थी पुरिसेण समं, विसयपसंगं करेइ दप्पेण । तइया भंगो जायइ अइयारो अन्नहा होइ॥५५॥
'स्त्री' ललना 'पुरुषेण' नरेण 'सम' सार्द्ध 'विषयप्रसङ्ग' मैथुनासेवनं 'करोति' विदधाति 'दर्पण' मदेन व्रतातिचाराभीतत्वेन यदेति यत्तदोर्नित्याभिसम्बन्धाल्लभ्यते ‘तदा' तस्मिन् काले ‘भङ्गः' विनाश: चतुर्थव्रतस्येति शेष: 'जायते' उत्पद्यते, 'अतीचार:' उक्तस्वरूप: ‘अन्यथा' अनाभोगादिना सशूकस्य ‘भवति' संपद्यत इति गाथार्थः ॥५५।। गतं भङ्गद्वारमधुना भावनोच्यते
- अठ्ठारसहा बंभं जे समणा धारयति गुत्तिजुयं । बहुसावज्जं नाउं तेसि पणमामिऽहं निच्चं ॥५६॥ | अष्टादशभिः प्रकारैः पूर्वोक्तैरेवाष्टादशधा 'ब्रह्म' ब्रह्मचर्यं ये 'श्रमणा:' साधवो ‘धारयंति' बिभ्रति गुप्तिभि:-उक्तस्वरूपनवब्रह्मगुप्तिभिर्युतंसहितं गुप्तियुतं 'बहुसावा' बहु-प्रभूतं यथा भवत्येवं सावधं-सपापं विषयप्रसङ्गमिति सामर्थ्याद्गम्यते 'ज्ञात्वा' अवबुध्य, तथा चोक्तं हरिभद्रसूरिणा| "प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥१॥" आगमेऽप्युक्तम्-“मूलमेयमहम्मस्स,
महादोससमुस्सयं । तम्हा मेहुणसंसग्गि, निग्गंथा वज्जयंति णं ॥२॥" ति 'तेसिं' ति, तेभ्यः 'प्रणमामि' प्रणिपताम्यहं 'नित्यं' सदेति गाथार्थ: | ॥५६।। उक्तं भावनाद्वारं, तद्भणनाच्च नवभिरपि द्वारैः समर्थितं चतुर्थाणुव्रतं, अधुना पञ्चमस्यावसरः, तदपि यादृशादिभिर्नवभिद्वारैर्व्याख्येयमतो X 'यथोद्देशं निर्देश' इतिन्यायात्प्रथमं यादृशद्वारेणाह
मुच्छा परिग्गहो इह अइरित्त असुद्ध तह ममत्तेणं । एयस्सउ जाविरई सरूवमेयं तु नायव्वं ॥५७।।
मूर्छा-गाय परिग्रहणं परिग्रहः-स्वीकार उक्त इति शेष:, क्व?-इह' जिनप्रवचने, तथा चोक्तम्- "जंपि वत्थं व पायं वा, कम्बलं पायपुंछणं । तंपि संजमलज्जट्ठा, धारिती परिहरंति य ॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा ॥२॥' स च परिग्रहोऽतिरिक्ते-प्रमाणाधिके वस्तुनि, अयमर्थः- प्रभूतवित्तोपार्जनायामप्यसन्तुष्टतायां, 'असुद्ध' त्ति प्राकृतसूत्रशैल्या 'अशुद्धेन' आधाकर्मादिना परिग्रहः, इदमुक्तं भवति-उपेत्य करणकारणादिनाऽशुद्धोपायेन गृहाद्युत्पादयत: परिग्रहः, 'तथे' ति समुच्चये ममत्वेन
१५७॥
Jain Educa
t
ional
For Personal & Private Use Only
www.jainelibrary.org