SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अतिचार द्वार. नवपद पञ्चातिचारा इति चरमपादान्तात् संबध्यते भवन्ति' जायन्ते, 'त्रयः' विसङ्ख्या एव तोरेवार्थत्वात् 'स्वदारसन्तुष्टे' निजकलत्रसन्तोषिणि, कथमिति वत्तिम.देव ब्रू मः परदारवर्जी स एव भण्यते य: परदारा मया न भोक्तव्या इति नियमयति, तस्य चेत्वरकालपरपरिगृहीतवेश्यायां गमनमाचरत: कथञ्चित्तस्या: _वृ. यशो परदारत्वात्स्वबुद्ध्या च तेन वेश्येयमिति पर्यालोचनाद् भङ्गाभङ्गरूपत्वेनेत्वरं-स्तोककालं परिगृहीता-स्वीकृता भाटीप्रदानेन नियतकालं सा तथा, ॥१५६॥ वेश्येत्यर्थः, तस्यां गमनमतिचारः १ तथा अपरिगृहीता-अनाथकुलाङ्गना तस्यां गमनं यत्तदपि तस्या लोके परदारत्वेन रूढत्वात्कामुकाभिप्रायेण च भर्ताद्यभावेनापरदारत्वाद्भङ्गा-भङ्गरूपतया तस्यातिचारः २ । स्वदारसन्तुष्टस्य तु स्वकलत्रं मुक्त्वाऽन्यस्य वर्जितत्वादेतस्मिन् द्वयेऽपि भङ्ग एवेति भाव्यम्, अग्रेतनास्तु वयो द्वयोरपि तुल्या एव, तथाहि-अनङ्गक्रीडा तावन्निष्पन्नप्रयोजनस्याहार्येश्चर्मादिघटितप्रजननैोषितामवाच्यदेशासेवनं कुचकक्षोरुवदनादिषु रमणं वाऽभिधीयते, सा च यद्यपि स्वदारसन्तुष्टेन स्वकलत्रे परदारवर्जिना तु वेश्यास्वकलत्रयोः परकलत्र इव न प्रतिषिद्धा तथाऽपि ताभ्यामत्यन्तपापभीरुतया ब्रह्मचर्यमादातुकामाभ्यामपि वेदोदयासहिष्णुतया यापनामात्रार्थं स्वदारसन्तोषपरदारवजने प्रतिपन्ने, तन्मैथुनमात्रेणैव च यापनाया: संभवादर्थतोऽनंगक्रीडाऽपि परिहतैव ३, एवं परेषां-स्वापत्यव्यतिरिक्तजनानां स्नेहसम्बन्धादिना परिणयनविधानं परविवाहकरणम् ४ तथा काम्येते-अभिलष्येते यौ तौ कामौशब्दरूपलक्षणौ भुज्यन्त इति भोगा: गन्धरसस्पर्शास्तेषु तीव्राभिलाष:-अत्यन्ततदध्यवसायित्वं वाजीकरणादिनाऽनवरतसुरतसुखार्थ मदनोद्दीपनमितियावत्, एतावपि परमार्थतः प्रत्याख्यातौ एव, अत: कथञ्चित्प्रत्याख्यानप्रवृत्तेर्भङ्गाभङ्गरूपत्वेनातिचारत्वमेषां त्रयाणामपि सिद्धम् । अन्ये त्वनङ्गक्रीडामेवं भावयन्तितौ हि स्वदारसन्तोषिपरदारवर्जको निधुवनमेवव्रतविषय इति स्वकीयकल्पनया तत्परिहरन्तौ यदा वेश्यादौ परदारेषु च यथाक्रममालिङ्गनादिरूपामनङ्गक्रीडां कुरुतस्तदा व्रतसापेक्षत्वात्तयोरतिचारोऽनङ्गक्रीडा, तथा स्वदारसन्तोषिणा स्वकलवादितरेण च स्वकलववेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणस्तत्कारणमर्थतोऽनुष्ठित भवति, तद्वती च मन्यते विवाह एवायं मया विधीयते, न | मैथुनमिति, ततो व्रतसापेक्षत्वादतिचार इति शेषः, प्रश्नोत्तरविचार: प्रथमपञ्चाशकवृत्तितोऽवसेय:, 'इत्थीए तिन्नि पंच वे' ति स्त्रियास्त्रय: पञ्च वा अतिचारा इत्यत्रापि सम्बन्धः, तत्र त्रयस्तावदेवं-स्वपुरुषसन्तोषपरपुरुषवर्जनयोः स्त्रिया विशेषाभावात् स्वपुरुषव्यतिरेकेणान्येषां सर्वेषामपि KB परपुरुषत्वेनेष्टत्वादनङ्गक्रीडादय: स्वदारसन्तोषिण इव स्वभार्यायां स्वपुरुषविषयास्त्रय एवातिचाराः, आद्यस्तु यदा स्वकीयपति: स्वपत्न्या 2 वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिभुञ्जानायां अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयो Jain Educ a tional & For Personal & Private Use Only ibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy