SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥१५३॥ महेन्द्रोद्याने, अत्रान्तरे समागत्य नारायणेन स्वयं विहितप्रणामेनार्घोत्क्षेपपूर्वमाभाषिता सीता-देवि ! विधाय प्रसादमभ्युपगम्यतां नगरीप्रवेशः, तयोदितंयावल्लक्ष्मण ! मया नात्मा शोधितस्तावनेच्छामि पुरीं प्रवेष्टुं, ततस्तनिर्बन्धमवबुध्य कथितं रामस्य, समागत: स्वयं तत्र, भणिता च विरचितप्रणति: सुखासनोपविष्टा प्रियाऽनेन-दयिते ! शक्नोषि कथञ्चित् स्वकलङ्कमपनेतुं ?, साऽब्रवीत्-पञ्च दिव्यानि लोके-तुलारोहणं ? ज्वलनप्रवेशो २ विषकवलनं ३ फालग्रहणं ४ शस्त्रधारास्वापश्च ५, तदेतेषु कतमेनात्मानं शोधयामि ?, राम उवाच-ज्वलनेन, तत: प्रतिपन्ने तया खानिता हस्तत्रिशतप्रमाणा समचतुरस्त्रा महावापी राघवेण, पूरिता खदिरकाष्ठानां, ज्वलितो ज्वालाकलापदुरालोको ज्वलन:, आहूता सीता, भणिता च-खललोकसंभावितकलङ्कपङ्ककलुषं सुवर्णमिव शोधयात्मानमस्मिन् ज्वलितहुतभुजि, साऽपि यथाऽऽदिशति स्वामी तथा करोमीत्यभिधाय चलिता विकसितकमलवदना ज्वलनाभिमुखं तुष्टमानसा, तत: समस्तोऽपि लोको हाहारनुपुरस्सरं भणितुं प्रवृत्त:- भो भो ! न सुन्दरमिदं रामदेवेन कर्तुमारब्धम्, अतिनिघृणं कर्म समादिष्टं सीतायाः, न खल्वस्या मनागपि शीलखण्डनां संभावयामो, मुखराग एव प्रकटयति प्राणिनां मलिनशीलतां, न चास्याः किमपि कुशीलतालक्षणमालोक्यते, अत्रान्तरे भणितं सिद्धार्थेन-रामदेव !-2 यदि मेरु: पातालं प्रविशति शुष्यति च लवणजलराशि: । तदपि न शीलभंश: संभाव्यो जनकतनयाया: ॥१॥ किंवा प्रविष्टयैव हुताशने शोधित एवात्माऽनया, प्राप्तो यतो लोकमध्ये साधुवादः, निवार्यतामिदानी, रामेणोक्तं-सिद्धार्थ ! दुर्जनप्रकृतिरेष लोकः, क्षणेन विसंवदति क्षणेन संवदति, तद्यावन्न हुतभुजि निर्वटितोऽस्या: शीलकनकगुणस्तावन निवर्तयामि, सीताऽपि गत्वा ज्वलनान्तिकं बभाणार्हत्सिद्धादिनमस्कारपूर्व-भो भो लोकपाला: !-रामं मुक्त्वाऽन्यनरो मनसाऽपि हि यदि मया समभिलषित: । तद्दहताद्दहनो मां हिमकणशीतोऽन्यथा भवतु ।।१।। इत्यभिधाय यावत्तत्र दत्तवती झम्पां तावदवान्तरे जगद्भूषणमुने: केवलोत्पत्तौ महिमां कर्तुमागतेन शक्रेणादिष्टो हरिणकवेष:-कुरु महासत्या: सीताया: सान्निध्यं, ततोऽसौ विमलजलापूर्ण कमलकुमुदकुवलयकह्लारशतपत्रसहस्रपत्रोपशोभितां वापी विधायैकस्मिन् सहस्रपत्रपद्ये समुपावेशयत् सीतां, मुमुचुः सुरसिद्धगान्धर्वादयो गगनगतास्तदुपरि कुसुमवृष्टिं, जुधुषुश्च-अहो ! महासत्या: शीलमाहात्म्यं, प्रहताश्चानेकश: प्रतिशब्दापूरितभुवनविवरा देवैर्दुन्दुभयः, किंबहुना ?, परितुष्टः सकलो लोकः, पतितावागत्य सीतायाः पादयोलवणाङ्कशौ, अत्रान्तरे । प्रलयकालक्षुभिताम्भोराशिगुरुलहरीसमूहमिव निखिललोकप्लावनसमर्थं वापीसमुच्छलज्जलपूरमवलोक्य हा देवि ! महासति ! जनकतनये ! रक्ष रक्षानेनोन्मार्गे प्रवृत्तेन वापीपानीयेन ह्रियमाणममुमशेषलोकमिति जनस्य करुणप्रलापमाकर्ण्य समुपजातदयापरिणति: सीता देवी शीघ्रमुत्तीर्य द्वाम्यामपि कराभ्यां पश्चान्मुखं । प्रेरयित्वा सलिलं वापीप्रमाणमेव चकार, स्वयं च पुनस्तस्मिन्नेव पद्मासने समुपाविशत्, तत: स्वस्थीभूतो लोक: सीताऽग्रत एव विमलशीलप्रशंसां कुर्वाणो 880030030866608608603800608860 २४४४ 600000०४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy