________________
नवपदवृत्ति: मू. देव. वृ. यशो
।। १५२ ।।
सर्वबलसमन्वितौ रामलक्ष्मणयोरुपरि, समारब्धो महासङ्ग्रामः, क्षणेन च निरस्त्रीकृतौ रामलक्ष्मणौ, ततो हलमुशलप्रहरणव्यग्रहस्तो रामो ऽनङ्गलवणस्योपरि लक्ष्मणोऽपि चक्रपाणिर्मदनाङ्कुशस्य धावितः तानि चामोघान्यपि प्रहरणानि स्वगोत्रे न प्रभवन्तीति ताभ्यां क्षिप्तान्यपि तयोर्नापकारं मनागपि कृतवन्ति, केवलं कुमरप्रदक्षिणाकरणपूर्व रामलक्ष्मणकरगोचराण्ये -(ग्रं. ४५००) चाभूवन्, ततो विलक्षवदनौ तौ चिन्तितवन्तौ-किं न भवाव आवां बलदेववासुदेवौ ?, अत्रान्तरे कुतोऽप्यवगततदीयसङ्गरव्यतिकरः सह नारदेन समागतस्तयोरेव कुमारयोरध्यापक: सिद्धार्थनामा चेल्लकः, ततः कथितमेताभ्यां रामदेवस्य त्वत्पुत्रावेवैतौ तावनङ्गलवणमदनाङ्कशनामानौ ययोर्गर्भगतयोर्भवता वैदेही महारण्ये त्याजिता, यानि चैतान्यमोघप्रहरणानि भवदीयान्येतयोर्नापकारं कृतवन्ति तत्र 'स्वगोत्रे न प्रभवन्त्येतानी' ति न्याय इति मोन्मनीभूः, केवलं लक्ष्मणमप्यमुमर्थं बोधयित्वा परित्यक्तसङ्ग्रामः संभाषस्व कुमारौ, तथा सीताऽपि नारदादवगतवृत्तान्तेन प्रथममेव कुमारयोः समरसंरम्भमवलोक्य भामण्डलेन पुण्डरीकपुरादत्रानीता कुमारशिबिरवर्तिनी तिष्ठति, तस्मात्सर्वमिदं शीघ्रमात्मीक्रियतामिति, ततो रामदेव एवमुक्तो भूत्वा लक्ष्मणस्य निकटवर्त्ती निवेद्य च तस्य तं वृत्तान्तं समं तेनैव समकालं स्वीकृत आनन्दखेदाभ्यां बाष्पजलक्षालितकपोतलः सुतसमीपमागन्तुं प्रवृत्तः, तौ त्वागच्छन्तौ पितृपितृव्यावालोक्य परित्यक्तरथौ स्नेहनिर्भरं झगित्यागत्य पतितौ तत्पादयोः, रामदेवस्तु गाढमाश्लिष्य तनुजौ रुदित्वा क्षणं विलपितुमारेभे हा पुत्र अकार्यमाचरितं मया यद्गर्भगताभ्यां युवाभ्यां सह त्यक्ता त्वन्माता, हा प्रिये ! कथं जीविताऽसि तदा क्षुद्रसत्त्वसङ्कुले मुक्ताऽरण्ये, ? ततो लक्ष्मण उवाच भ्रातः ! किमेवं शोच्यते ?, न श्रुतं किं त्वया ?रणे वने शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥१॥ तन्मुक्त्वा शोकं समागम्यतामितः प्रविश्यतां सम कुमारलोकेन निजनगर्यां एतच्चावगम्य सीता प्रवरविमानारूढा गता पुण्डरीकपुरं रामस्तु लक्ष्मणवचनमुपश्रुत्य वज्रजङ्घ करे गृहीत्वा त्वमेव मे परमबान्धवो यद्गृहे वैदेही स्थिता वृद्धि गतौ चैतौ मत्पुत्रावित्यभिदधत् कुमारौ च वामदक्षिणपार्श्वयोरात्मनः कृत्वा समं लक्ष्मणप्रमुखसमस्तराजलोकेन महाविभूत्या पुष्पकविमानारूढः प्रविवेश नगरीम् । अत्रान्तरे विज्ञप्तं बिभीषणादिभिः स्वामिन्! आनाय्यतां जनकपुत्री, दुःखमास्ते खलु सा विदेशवर्त्तिनी, ततो रामदेवो मन्युभरनिरुद्धगलसरणिरवदत्-को नेच्छति वैदेह्या आगमनं ?, केवलं विषमस्वभावो लोकः, तं यदि सा कथञ्चित्प्रत्याययितुं शक्नोति तदा तया सह ममैकत्रावस्थानं नान्यथेति, तत एवमस्त्विति प्रतिपन्ने बिभीषणादिभिर्मीलितः सकलो लोको नगरीबहिः प्रदेशे, प्रेषितः सीतानयनाय पुष्पकविमानेन पुण्डरीकपुरं सुग्रीवो, गतः क्षणमात्रेण आनीता तेन स्थिता साकेतपुरबहिर्वर्त्तिनि
For Personal & Private Use Only
Jain Educatenational
सीता वृत्तम:
९॥१५२॥
www.brary.org