________________
सीता चरित्रं
नवपदवृत्ति:मू.देव. वृ. यशो ॥१५०॥
शीलकलङ्कामिह प्रातः !
लक्ष्माधएतस्तं गृहीत्वा करे न्यवीविशदासमाभासमत्थितः सौमित्रिः, ततो ।
एतदिह विज्ञ: ? ।।१।। श्रुत्वा चैतत् य एवमाचष्टे-तस्य जिह्वां स्वहस्तंन लुनामीति प्रतिपादयन्नाकृष्य क्षुरिकामतिकुपित: समुत्थितः सौमित्रिः, ततो रामदेवो मा गमस्त्वं कोपमित्थम्, एवं निर्विचारा न शोभते सतां प्रवृत्तिरित्यभिधाय पुनस्तं गृहीत्वा करे न्यवीविशदासने, भणितवांश्च-प्राणप्रियामपीमा: वैदेही नात्र धर्तुमिच्छामि । इत्थं जनसंभावितशीलकलङ्कामिह भ्रात: ! |शा लक्ष्मीधर उवाच-लोक: कुटिलप्रकृतिः, पिशुनो गुणमत्सरी भषणशीलः । KA एतदपवादमात्रामा मुञ्च महासती सीताम् ।।२।। रामो बभाण सत्यं यत्त्वं ब्रूषे परं महानेष: । अयश:कलङ्कपङ्कः सोढुमशक्यो जनविरुद्ध: ।।३।। ततो निवार्यमाणोऽपि लक्ष्मणादिभि: समाहूय कृतान्तवदनाभिधसेनाधिपतिमादिदेश रामो-गर्भद्वितीयां सीतां नीत्वा परित्यजारण्ये, अत्रान्तरे लक्ष्मीधरो रामदेवस्योपरि रोषमाधाय समुत्थितस्तत: स्थानात् गतो निजमावासं, कृतान्तवदनस्तु यथाऽऽदिशति स्वामी तथा करोमीति प्रतिपाद्य प्रणामपूर्व रामस्योत्थाय तत्स्थानाद् यानाशालायां रथं प्रगुणीकृत्य पुन: समाजगाम रामसमीपं, रामेणोक्तं-व्रज शीघ्रं, सर्वचैत्यवन्दनाविषयदोहदपूरणव्याजेन नीत्वा सीतामरण्ये मुञ्च, तदादेशानन्तरं कृतप्रणामो गतो जानकीसकाशं, भणितवांश्च देवि ! समारुह्यतां वेगेनायं रथो येन वन्दयामि त्वां रामादेशेन समग्रचैत्यानि, ततोऽसौ तस्य कुटिलस्वभावमजानती परं प्रमोदमुद्वहमाना समारूढा रथं, नेतुमारब्धा निवार्यमाणाऽपि दुर्निमित्तशतैस्तावद्यावद्गङ्गासागरं समुत्तार्य प्रापिता महाटवीं, धृतस्तेन तत्र रथः समुत्तार्य मुक्त्वा भूमौ सीतापादयोर्निपत्य शोकभरनिरुद्धगलसरणिविनिर्यद्गदाक्षरेण कथितो यथाऽवस्थितो रामवृत्तान्त:, तमाकर्ण्य सावष्टम्भमानसया निवेदितं सीतया-भोः कृतान्तवदन ! मद्वचनात् वाच्यो मत्प्राणनाथो यथा-एकपद एव यद्यपि मुत्कोस्नेहो ममोपरि त्वमभूः । तदपि परीक्षा स्वामिन् !, शुद्धिकृते किं न मे विहिता ? |१|| भणित्वैवं विसर्जित: सरथो, गतोऽसौ निजनगराभिमुखं, सा त्वेकाकिनी महारण्ये तस्मिन्नालापमात्रसहायमप्यपरमपश्यन्ती पपात क्षणं मूर्छया धरणीतले, शीतलवनवातलब्धचेतना च-हा नाथ ! हा वल्लभ ! हा गुणाढ्य !, हा राम ! निर्व्याजदयानिधान ! स्वामिन् ! प्रयच्छाशु कृपां विधाय, स्वदर्शनं मे भयपीडिताया: ।।१।। इत्यादि प्रलपन्ती दृष्टा पुण्डरीकपुराद्गजबन्धनगतेन राज्ञा वज्रजजेन, सुबहुप्रकारं कोमलवचनैराश्वास्य पृष्टा कथितनिजवृत्तान्ता साधर्मिकत्वेन भगिनीति प्रतिपद्य नीता स्वपुरीम् । इतश्च कृतान्तवदनो महाकष्टेन प्राप्त: साकेतपुरं, कथयामास नारायणादिसमेतस्य रामस्य सीताव्यतिकरं, स तु तमाकर्ण्य महता शोकवेगेन स्वीकृतो मुमूर्च्छ क्षणं, लब्धचेतनश्च-हा निघृणेन कथमिह, मया प्रिया पिशुनलोकवचनेन । निष्काश्य निरपराधाऽपि वनचराणां कृता भक्ष्यम् ? ॥१॥ इत्यादि प्रलपन् भणितो नारायणेनकिमेतेन बालजनोचितेन भ्रात: ! शोकेन ?, यद्यस्ति जीवन्ती वैदेही तत्राद्यापि तदा गत्वा समानीयतामत्र, पश्चाद् यत्तुभ्यं रोचते तक्तुर्याः, ततो गतास्तमेव
Jain Eda ke
mational
For Persona
Private Use Only
A
brary.org