________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥१४७॥
लङ्कापुर्याः, अर्द्धपथे द्वयोरपि सैन्ययोरापतितं युद्ध तावद्यावन्महता समरसङ्कट्टेन भामण्डलो मेघवाहनेन सुग्रीव इन्द्रजिता हनूमान् कुम्भकर्णेन पन्नगविद्यया श्री नागपाशैर्बद्धः, तद्न्मोचनार्थं च रामेण भणितो लक्ष्मणः-स्मर्यतां सुलोचनो देवः, ततो लक्ष्मणेन स्मृतमात्रोऽसौ समागत्य सिंहनादविद्यां गारुडविद्यां विद्युद्वदनाभिधानं ॐ गजं च लक्ष्मीधरस्य ददौ, रामदेवस्य त्वमोघे दिव्यहलमुशलप्रहरणे, तद्व्योश्च दिव्यशस्त्रपरिपूर्णौ द्वौ रथौ, पावनवारुणाग्नेयशस्त्राणि च युद्धजयहेतूनि ? समर्पयामास, स्वयं च तद्नुमत्या गतः सुर: स्वस्थानं, रामलक्ष्मणौ तु तावेव रथावारुह्याजग्मतुः सङ्ग्रामभूमि, दृष्ट्वा च गारुडविद्यापरिकरितं गारुडरथं 2 लक्ष्मणस्य नष्टेन्द्रजिदादिनियुक्ता पन्नगविद्या सुग्रीवादीनां, मुत्कलोभूता: समागता रामशिबिरं, पुनश्च तै: प्रारब्धेऽनेकप्रकारं दारुणे महासमरे निराक्रियमाणेषु मार्यमाणेषु च मेघवाहनादिषु राक्षसभटेषु बिभीषणेन सह संलग्ने महारणे रावणस्य तद्वधाय मुक्तायां रावणेन शक्तौ अन्तरा निपत्याङ्गीकृतायां लक्ष्मणेनामोघप्रहरणतया प्रविष्टायां तस्यां तद्वक्षःस्थलं तत्प्रहारगाढवेदनाविधुरशरीरे पतिते लक्ष्मणे स्वभ्रातृताडनावलोकनोपजातकोपेन रामदेवेन निरन्तरशरनिकरवृष्ट्या निरस्त्ररथे नाशयित्वा प्रवेशिते लङ्कापुरीं रावणे पुनर्निश्चेष्टानुजावलोकनसंजातशोकाच्च क्षणं मूर्छति क्षणं प्रलपति क्षणं वैकल्यमनुभवति रामदेवे तस्यामेव रात्रावेकविद्याधरेणागत्य रामदेवस्य कथितं-यदि लक्ष्मणस्य जीवितेन प्रयोजनं तदा शीघ्रं साकेतपुरं कमपि गमयित्वा भरतमातुलस्य द्रोणमेघराजस्य पुत्र्या | विशल्यायाः स्नानोदकमानाय्याभिषिच्यतामेष येन झगित्येव प्रगुणो जायते ततस्तक्ताल एव हनूमान् भामण्डलादिसहाय: प्रेषितस्तत्र, तेन गत्वा भरतनरपते: संक्षेपेण कथयित्वा तं व्यतिकरं समं तेनैव गत्वा द्रोणमेघगृहं विमोच्य पितुः सकाशाद्विशल्यां कन्यासहस्रपरिवारितां निवेश्य भामण्डलविमाने | समानीता शीघ्रं, तत्करस्पर्श विशल्यीभूतस्तक्षणाल्लक्ष्मणः, ततो गोशीर्षचन्दनविलिप्ताङ्गो विशल्यया स्वहस्तेन तत्कालमेव रूढवण: सुप्तविबुद्ध । इवोत्थितो लक्ष्मणकुमार: समालिङ्गित: सतोषेण रामदेवेन, परिणायितश्च तत्रैव महाविभूत्या विशल्यां, रावणस्तु चरपुरुषम्यो विज्ञाय प्रत्युज्जीवितं लक्ष्मणं - क्षुभितचित्तोऽनेकधा भण्यमानोऽपि सीतार्पणकार्ये मन्त्रिजनेन प्रसाध्य बहुरूपिणी विद्यां निवार्यमाणोऽपि मन्दोदर्या समं त्रिजटया निषिध्यमानोऽपि शकुनैः ।। पुन: संग्रामाय समाजगाम रामसैन्यं, रामोऽपि समं सौमित्रिणा सुग्रीवभामण्डलादिसैन्यसंयुतेन सम्मुखो बभूव, पुनरापतितं द्वयोरपि बलयोर्महायुद्धं, ततो लक्ष्मणेन निरन्तरबाणवृष्ट्या सर्वतो हतप्रसरो विहितो रावणः, तेन च बहुरूपिणी विद्यां संस्मृत्य कर्तुमारब्धान्यनेकरूपाणि, तेषु च खण्ड्यमानेषु । अत्यन्तपीडितेन लक्ष्मणवधाय मुक्तं चक्ररत्नं, तच्च देवतापरिगृहीतं त्रि: प्रदक्षिणीकृत्य लक्ष्मणस्य दक्षिणकरे समारूढं, लक्ष्मणेन चोपारूढकोपेन क्षिप्त्वा ॥१४७॥ तत्समुखं तदेव चक्रं छिन्नं रावणस्य शिरः, अत्रान्तरे निशाचरानीकं कान्दिशीकं पलायमानमालोक्य सुग्रीवबिभीषणौ संस्थापयामासतुर्नारायणपद्मशरणसमाश्रयणेन,k
Jain Educ
a
tional
For Personal & Private Use Only
www.janilibrary.org