________________
सीता दृष्टान्तः
नवपदवृत्तिःमू.देव. व. यशो ॥१४६॥
विद्यते तेन चैवं भाणितमित्यादि यावदाचष्टे बिभीषणस्तावदागत्य मन्दोदर्या कथितो हनुमद्व्यतिकरः, ततो रुष्टेन रावणेन तद्वधार्थ प्रेषितं निजबलं, तदवलोक्य समागच्छद् उन्मूलयामास तद्धननाय हनूमानुद्यानतरून्, निराचकार च तत्प्रहारविधुरं राक्षससैन्यं, तदनु भञ्जन् प्रतोलीकपाटानि टालयन्स प्राकाराट्टालकान् वित्रासयन्ननेकप्रकारान् स्थाने २ राक्षसभटान् उपद्रवन् समस्तामेव नगरी समागत: पवननन्दनो दशवदनास्थानभूमि, दृष्ट्वा चैनं रावणो बभाण स्वभटान्-रे रे ! मारयतैनं वानराधर्म, तत इन्द्रजिन्मेघवाहनाभ्यां तत्पुत्राभ्यां प्रहर्तुमारेभेऽसौ, हस्तलाघवेन छलित्वा बद्धश्च कथञ्चित् नागपाशै: समर्पितश्चानीय स्वपितुः, तेनादिष्ट-सर्वस्यां नगर्यामित्थं बद एव गृहाद्गृहं भ्रमयित्वा स्मशानभूमौ विनाश्यतामेष:, हनुमतोक्तं-किमहं त्वत्पुत्राभ्यां बद्धो येनैवमादिश्यते त्वया ?, त्वत्पित्राऽपि न वद्धुं शक्योऽहं यतः किं पुन: पुत्राभ्यां ? केवलं त्वत्परीक्षार्थमेव मयाऽऽत्मा बन्धितः, स च त्वं परीक्षितो रूक्षभणनैः, इदानीं पश्य मामाकाशमार्गेण व्रजन्तमित्यभिदधदेव बोटयित्वा बृहत्तटत्कारेण नागपाशमुत्पतितस्तमालदलश्यामलं नभस्तलं, भग्नं गाढतरचरणप्रहारेण स्तम्भसहस्रसंकुलं विचित्रमणिभूमिकारमणीयं रावणभवनं, प्रकम्प्य पातिता समस्तनगरी पश्यत एव राक्षससमूहस्य, क्षणान्तरेणादृश्यीभूत: संप्राप्तः सपरिवारो हनुमान् किंकिन्धिपुरं, तत्र सुग्रीवेण सादरमुत्थायालिङ्गितः, आत्मना सह नीतो रामसमीपं, विहितप्रणामो रामदर्शितासने निविश्य समर्प्य चूडारनं निवेदयामास समस्तमेव सीतोदन्तं रावणादिविलसितं च, रामस्तु सलक्ष्मणस्तच्छ्रुत्वा सुग्रीवादिसंमतेनाकालविलम्बं चचाल लङ्कापुरी प्रति हनूमनलादिवानरसैन्यसमन्वितः, प्राप्तः क्षणान्तरेण वेलन्धरगिरिशिखरवर्तिवेलन्धरनगरं, तत्र जित्वा समुद्रराजं विधाय तमेवाग्रे गतो लङ्कासन्नत्रिकूटाचलशिखरवर्तिहंसद्वीपं, तब हंसरथराजं समरे निराकृत्य स्थित: सबलवाहनस्त्वयं, तत्स्थानवर्त्तिनं च विज्ञाय रावण: समं राक्षससैन्येन सङ्ग्रामनिमित्तं प्रस्थितो लङ्कापुरीतः, अत्रान्तरे पादयोर्निपत्य नीतिपक्षपातिना भणितं बिभीषणेन-त्यजस्व कोपं कुलकीर्तिनाशनं, भजस्व धर्म कुलकीर्तिवर्द्धनम् । प्रसीद जीवेम सबान्धवा वयं, प्रदीयतां दाशरथाय मैथिली ॥१।। तत इन्द्रजितोक्तं-बिभीषण ! त्वं वैरिपक्षं समर्थयसे, बिभीषणेनोक्तं-मैवं वोचो, नीतिरेव पुरस्करणीया महापुरुषैः, ततस्तच्छ्रुत्वा समाकृष्य चन्द्रहासखड्गं दशवदनो हन्तुमारब्धो बिभीषणं, सोऽप्यसहनतया समुत्पाट्य स्तम्भमेकं तं प्रति हन्तुं प्रवृत्तः, तत इन्द्रजित्कुम्भकर्णादिभि: कथञ्चित् धृतौ प्रेषितौ स्वं स्वं स्थानं, तदनु बिभीषणोऽभिमानेन निर्गत्य लङ्कापुर्या गतो रामान्तिकं, सन्मानपूर्व संवर्गितो रामेण, पश्चादष्ट दिवसान् यावद्विधाय तत्र द्वीपे भामण्डलादिसकलसैन्यमीलकं रामदेवः समं लक्ष्मणकुमारेण विजययात्राप्रशस्तमुहूर्तेषु सुग्रीवभामण्डलहनूमदादिसैन्यपरिवारितश्चचाल लङ्काभिमुखं, राक्षसनाथोऽपि विज्ञाय तमागच्छन्तं रणरभसजनितगमनोत्साहो निर्जगाम स्वबलकलितो
॥१४६।।
Jain Educat enational
For Personal & Private Use Only
wapalbrary.org