________________
नवपद
सीतामेकाकिनी मुक्त्वा किंनिमित्तं समागत: ?, स आह-सिंहनादं ते श्रुत्वा साहाय्यहेतवे, लक्ष्मणेनोक्तं-हा भ्रात: ! छलितस्त्वं केनापि, नूनमपहता सीताहवृत्तिम देव. वैदेही, तद्गच्छ तूर्णम्, इत्यभिहितो यावद्व्यावृत्य गतस्तं प्रदेशं तावत्तं सीताशून्यमालोक्य कतिचित्पदान्यग्रतो गत्वा कण्ठगतप्राणं जटायुं दृष्ट्वा | ष्टान्तः वृ. यशो नूनमस्मद्वैरेण केनचिदमु हत्वा नीता सीतेति विचिन्त्य तस्य नमस्कारप्रत्याख्यानप्रदानपुरस्सरं निर्यामणां कृत्वा सीतामन्वेष्टुं प्रवृत्तः, जटायुश्च तद्दत्तनमस्काराद्यनुभावेन ॥१४४॥ माहेन्द्रकल्पे प्रधानदेवो जातो, रामदेवश्च प्रयत्नविहिततदन्वेषणोऽपि न यावत्तामीक्षांचक्रे तावत्क्षणं मुमूर्च्छ क्षणं विललाप क्षणं विचचार क्षणं वनदेवता
KI उपालेभे, अत्रान्तरे समागतो विनाश्य खरदूषणं लक्ष्मणो विराधिताभिधानखचरद्वितीयस्तं प्रदेशं, ददर्शोन्मत्तमिवेतस्ततो विचरन्तं रामं, बभाण च-प्रात: ?
किमेवमितरलोकेनेव चेष्टितुमारब्धं भवता ?, योषिज्जनोचितमपहाय शोकं कार्यसारैर्भूयतां, ततस्तद्वचनाश्वासितो मनाग विगतशोको विराधितमुखं निरीक्ष्य कोऽयमित्यपृच्छत्-लक्ष्मणेनोक्तं-तात ! चन्द्रोदरखचरसुतो विराधिताख्य: समागतोऽयं मे । साहाय्यार्थ खरदूषणेन सह समरसंरम्भे ।।१।। खरदूषणे च निहते हतविप्रहतीकृते च तत्सैन्ये । त्वदर्शनार्थमागमदयं मया सार्द्धमतिभक्त: ।।२।। ततो रामेण सीतापहारे जटायुमरणे च निवेदिते लक्ष्मणस्य विराधितेनोक्तं-ममैव दीयतामादेशो येनाहमेव करोमि सीतावार्तोपलम्भं, केवलमिदानी खरदूषणे विनाशिते यदि तदीयराजधानी पाताललङ्कापुरी समधिष्ठीयते तत: सुन्दरं भवति, तद्गम्यतां तावत्तत्र, तदनन्तरं गता: सर्वे नभसा तत्र, गृहीता सा नगरी, त्रासितस्तदधिपति: खरदूषणपुत्र: सुन्दनामा गतो रावणसमीपम्, इतश्च किंकिन्ध्यभिधानपुरे साहसगतिनामक: खचर एक: सुग्रीवरूपधारी कामयते तत्प्रियां तारां, सा च न जानाति तयोर्विशेषमिति मन्त्रिमण्डलस्याग्रे कथयति, तेन द्वावपि किंकिन्धिपुराद्वहिः क्षिप्तौ, सत्यसुग्रीवश्च युद्धेन न तं जेतुं शक्नोति, तत: कदाचित्कुतोऽप्यवगम्य खरदूषणादिमरणवार्ता समं निजमन्त्रिणा जम्बवन्तेन समाजगाम रामसमीपं, तत्र कृता प्रतिज्ञा-यदि मद्भार्यां तारामलीकसुग्रीवान्मोचयसि तदाऽहं त्वत्प्रियाया: सीतायाः सप्ताहाभ्यन्तरे वार्तामानयामि, यदि चैतन्न करोमि तदा ज्वालाकलापदुरालोके ज्वलने प्रविशामि, तच्चाकर्ण्य रामदेव एवमस्त्विति प्रतिपाद्य समं लक्ष्मणेन किंकिन्धिपुरे गत्वा बो(यो)धयामास सह साहसगतिना सुग्रीवं न चालक्षितयोयुध्यमानयो रामदेवेन कश्चित्साहसगतिः कश्चित्सुग्रीवः, ततस्तस्य पश्यत एव विच्छायित: सुग्रीवोऽनेन कथं कथमपि, ततश्च्युतः समागतो रामान्टिकं, रामेणापि द्वितीयवारं योधयित्वा त्रासिता तस्यालीकसुग्रीवस्य तन्निबन्धनभूता वैतालिनी विद्या, तदपगमे च स्वाभाविकरूपोऽसौ विद्धो बाणेन प्रापितो निधनं, आदेशिनः स्थाने आदेश इव निवेशितस्तत्पदे सुग्रीवः, K॥१४४॥ तदनु रामदेवो गत: स्वस्थानं, सुग्रीव: स्वार्थसिद्धावन्तःपुरप्रविष्टो विस्मृत्य रामोपकारं भोगसुखासक्तचितो न चकार सीतावातॊपलम्भाय यत्नम्,
Jain Educa&
ematonal
For Personal & Private Use Only
wwNwHibrary.org |