________________
उद्घाटय प्रतोली, साऽपि पञ्चनमस्कारोच्चारणपूर्व तिस्रो वारा आच्छोट्य चालन्युदकेन कपाटे चीत्काररवबधिरितदिगन्तरे झगित्येवोद्घाटितवती, नवपद
सीता वृत्तिमू देव.
कौतुकागतसिद्धगान्धर्वादिलोकनिवहेन मुमुचे तदुपरि पञ्चवर्णकुसुमवृष्टिः, उदघुष्टं च गगनाङ्गणवर्त्तिना देवनिवहेन-अहो ! महासत्या: शीलमाहात्म्यं, दृष्टान्तः वृ. यशो
जयतु च सर्वज्ञशासनं यत्र स्थितानामबलानामप्येवं विस्मापितसुरासुरनरसमूहं चरितम्, आनन्दितश्च सकलनगरीजनसमन्वितो राजा, चिन्तितवांश्च॥१४२॥
| धन्योऽहं सर्वथा यस्य पुर्यामेवंविधा महासत्यः, तुष्टेन च प्रदाय सर्वाङ्गीणाभरणवस्त्राणि नीता दक्षिणां प्रतोली, तामुद्घाट्य पुन: पश्चिमप्रतोली, Ka पश्चादुत्तरप्रतोली, तस्यां च याऽन्या महासती मया समा सा इमामुद्घाटयिष्यतीत्यभिधाय स्थिता, अद्यापि चोत्तरप्रतोली तथैव पिहिता वर्तते चम्पायामिति जनप्रवादः, ततोऽनुगम्यमाना नागरिकजनप्रवादसमन्वितेन राज्ञा वर्ण्यमाना स्वजनपरिजनाद्यैः पठ्यमाना भट्टादिभिर्गीयमाना नारीजनमङ्गलगीतैर्गता | जिनभवनं, कृतवती भावसारं तत्र जिनबिम्बपूजा, याता गुरुसमीपं, विहितवती विनयप्रतिपत्ति द्वादशावर्त्तवन्दनेन तेषां, तत्रैव चाभिवन्द्य समस्तसद्धं दीनादिभ्यः प्रयच्छन्ती महादानं जिनशासनमाहात्म्यमेतदिति ख्यापयन्ती पदे २ समाययौ स्वगृहं, प्रणम्य तच्चरणयुगलं गता: स्वस्थानानि नरपतिप्रभृतयो हष्टतुष्टाः, केवलं मषीकूर्चक एव दत्त: श्वश्रूननन्द्रादिमुखेषु, तद्भर्त्ताप्यागत्योक्तवान्-असहिष्णुजनवचोभि: परिभूता यन्महासति ! मया त्वम् । मनसाऽपि क्षमणीयं तत्सर्वं सुरनराराध्ये ! ।।१।। सम्यक्त्वगुणो यादृक् तवोज्ज्वलो विमलशीलसंपन्न: । तादृक्कुतोऽन्यनारीजनस्य ? सत्यं सुभद्राऽसि ।।२।। सुविशुद्धशीलशालिनि ! न केवलं शासनोन्नतिर्विहिता । एवं त्वया ममापि स्थिरत्वमापादितं धर्मे ।।३।। इत्यभिधाय स्थितवत्यस्मिन्नूचे
सुभद्रया-कान्त ! । मत्पित्रा यद्भणितं तत्स्मर मा तरलहृदयो भूः ।।४।। एवं तं स्थिरचित्तं विधाय लोकस्य सम्यगाराध्या । बुभुजे सह निजभ; धर्मपरा A सोत्तमान् भोगान् ।।५।। परलोके च स्वर्ग जगाम तस्मिंश्च दिव्यदेवर्द्धिम् । अनुभूय चिरं यास्यति, सिद्धिपुरी सा परम्परया ॥६।। इति समाप्तं सुभद्राऽऽख्यानकम् ।।
सम्पति सीताकथाया अवसरः, सा च विस्तरेण पद्मचरितादिभ्य एवावसेया, स्थानाशून्यार्थ प्रकृतोपयोगि किञ्चिलिख्यते
यदा किलाऽयोध्याराजधान्यां दशरथो राजा स्वयं व्रतजिघृक्षया प्राग्वितीर्णवरकेकयीवचनेन लघुपुत्रस्य भरतस्य राज्यं दातुकामो रामं समं लक्षणसीताभ्यां वनं विससर्ज तदा लक्ष्मणस्तत्र स्वेच्छया विचरन् अज्ञातचर्ययैव विंशत्युत्तरशतसङ्ख्यवंशजालीमध्यवर्तिनः सूर्यहासाभिधान-8॥१४२॥ खड्गविद्यासाधनप्रवृत्तस्य खरदूषणखचरराजतनयस्य शम्बूकस्य शिराश्चिच्छेद, तदीयजननी च चन्द्रनखा रावणभगिनी समतिक्रान्तानि मदीयपुत्रस्य 8
४४003088088899
Sain Educ
a
tional
For Personal & Private Use Only
Plbrary.org