________________
नवपद
वृत्ति: मू. देव. वृ. यशो
।। १४१ ॥
कथञ्चित्सुभद्रया, चिन्तितं च-न सुन्दरमापतितमेतद् यन्मन्निमित्तेन भगवच्छासनस्य मालिन्यमजनि, तत्कथमपनेतव्यमिदं ?, न चानपनीतेऽस्मिन्नाजन्म | मम धृतिर्भविष्यति, तत्करोमि साकारानशनेन शासनदेवताप्रसादनाय कायोत्सर्गमितिविचिन्त्य विधायोपवासं सन्ध्यासमये रचितविशिष्टजिनप्रतिमापूजा स्थिता शासनदेवताऽऽराधनाय कायोत्सर्गेण, गृहीतवती च चेतस्यभिग्रहं यदि ममायमभिलषितार्थो न सेत्स्यति तदा न पारणीयः कायोत्सर्गः, अङ्गीकृतोऽयमेव च मया चरमोऽनशनविधिः, एवं च कृतनिश्चया यावत्कियतीमपि रात्रिं निर्गमितवती तावत्तदीयढसत्त्वताऽऽकम्पिता स्वशरीरप्रभाजालेन दशापि दिशः समुद्योतयन्ती समायाता शासनादेवता -श्राविके । किं ते प्रियं करोमीति वदन्ती, ततोऽसावपि समुत्सारितकायोत्सर्गा व्यजिज्ञपत्जिनशासनापवादो यथाऽयमपयात्यकारणायातः । कुरु मे तथा प्रसादं सत्यं यदि जिनमते भक्ता ॥ १ ॥ देवता बभाषे -श्राविके ! अत्रार्थे चित्तखेदं मा कार्षीः, तथा करोमि यथा प्रातरेव शासनोन्नतिर्भवति, अद्य रजन्यवसाने चम्पापुर्याश्चतस्रोऽपि प्रतोत्यस्तावन्नोद्धरिष्यन्ति यावत्त्वया चालनीव्यव - स्थापितोदकच्छटाभिर्नाच्छोटिताः, न च त्वया यावदन्याः स्त्रियो न गतास्तावत्तत्र गन्तव्यमित्युक्त्वा तिरोदधे देवता, सुभद्राऽपि स्वाध्यायविनोदेन यावद्रात्रिशेषमतिवाहयन्त्यास्ते स्म तावदुचितसमये समुत्थाय प्रतोलीद्वारपालैरुद्घाटयितुमारब्धाः प्रतोल्यो, नोद्घटिताः, मिलितः प्रचुरो लोकः, परम्परया व्यज्ञायि जितशत्रुनरपतिना, समागतः स्वयं, तेनापि न कथञ्चित्पारिता उद्घाटयितुं, ततो धूपकडुच्छुकहस्तः सर्वतः सुगन्धिपुष्पफलविलेपनादिमिश्रं बलि प्रक्षेप्य समं सकललोकेनोद्घोषणां चक्रे योऽत्र कश्चिद्देवो दानवो वा स सकललोकस्यैवमाद्यतप्रणामपरस्य भूत्वा प्रसादपरस्तथा करोतु यथोद्घटन्ते प्रतोल्यो, विचरति स्वेच्छया द्विपदचतुष्पदादिवर्ग:, ततो गगनमण्डलमध्यवर्त्तिनी शासनदेवता नगर्या उपरि व्यवस्थिताऽब्रवीद् यथा यदि महासती काचिच्चालनीव्यवस्थापितोदकेन वारत्रयमाच्छोटयिष्यति तदोद्घटिष्यन्ते प्रतोल्यः, ततः सर्वोऽपि लोक: स्वस्वमहेला व्यापारितवान्, न कस्याश्चिच्चालिन्यामुदकमतिष्ठत्, ततश्च बह्वीषु तत्र हलबोले विगुप्तासु स्त्रीषु सुभद्रा श्वशुरादिलोकमवदत्, यथा-यदि युष्मदनुमतिर्भवति तदाऽहमप्यात्मानं परीक्षयामि ततः श्वश्रूननन्द्रादिभिरभिहितं तूष्णीं तिष्ठ, दृष्टं महासतीत्वं त्वदीयं, बुद्धदासेनोक्तम्- को दोषा ?, यद्यपि नोद्घाटयिष्यति तथाऽप्यन्याभिः समा भविष्यति, ततो भर्तुरनुमत्या तिस्रो वाराः कृतार्हन्नमस्कारपाठा करे धृत्वा चालनीमुदकं प्रक्षेपितवती, स्थितं च तत्तस्यां ततः पुरतो वाद्यमानघनातोद्यविस्तरा सकलनगरीलोकेन परिवारिता परमानन्दनिर्भरेण समेता निजकभर्त्रा गता पूर्वप्रतोलीम्, अत्रान्तरे विलोक्यासंभाव्यजलपरिपूर्णचालनीहस्तां महासती राजा स्वयमभ्युत्थितः सम्मुखीभूय विरचिताञ्जलिपुटोऽवदत्एह्येहि महासति ! विधेहि लोकस्यास्य बन्धमोक्षम्,
| ॥ १४१ ॥
For Personal & Private Use Only
Jain Education international
brary.org