SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ रयम् नवपदवत्तिम.देव व. यशो ॥१४०॥ वदनैषीत् तावात श्वेतभिक्षुानचितः, त्वमापा ज्वलति शीलं न भवायदगृहममा जिनपतिप्रतिपादितो महाधर्म इत्येवमनुशिष्यैनं स्वपुत्रीं चाहूय-पुत्रि ! गन्तव्यमिदानीं भवत्याः श्वशुरकुले, तत्र च मिथ्यात्वबहल: खलु त्वदीय: सुभद्रोदाह श्वशुरकुललोकः, ततश्च तथा २ चेष्टितव्यं यथा नायाति प्रवचनमालिन्यं नोपहास्यतामुपैति जिनधर्मो नाङ्गीकरोति मिथ्यात्वमेष ते भर्तेत्यादि | शिक्षयित्वा द्वयमप्युचितप्रतिपत्तिकरणपूर्वं व्यसर्जयत्, गतेन च स्वस्थानं बुद्धदासेन पृथगावासेन स्थापिता सुभद्रा, सा चानुदिवसं जिनभवनगमनपूजाचैत्यवन्दनयत्युपासनप्रतिलाभनास्वाध्यायकरणधर्मध्यानासेवनादिसद्धर्मव्यापारपरायणा ‘भर्तृदेवता: कुलस्त्रिय' इति नीतिवाक्यमनुस्मरन्ती च परमान्त:प्रीत्या सर्वस्थानेषु तच्चित्तमनुवर्तमाना यावत् दिनानि कानिचिदनैषीत् तावत्तदीयश्वश्रूभ्रातृजायादिवर्गो वैधर्म्यमत्सरेण तद्भर्तुः पुरतो भणितुं प्रवृत्तो-यथेयं न सुशीला त्वन्महिला, यतो देववन्दनव्याजेन जिनालयेषु गत्वा तिष्ठति श्वेतभिक्षुभि: सहालापादिपरा चिरं कालं, तेऽपि चागच्छन्त्यनवरतमस्या वेश्मनि भिक्षादिव्याजेन तिष्ठन्ति महती वेलां, न चायमतिसंघर्षों विमलशीलशालिनामुचितः, त्वमपि मूढो यो निजकुलक्रमसमागतं बुद्धधर्ममुत्सृज्य KA भार्याऽनुवृत्त्या श्वेताम्बरधर्ममाश्रितः, तत: स तद्वचनमलीकं मन्यमानोऽभ्यधात्, “अपि चलति मेरुचूला ज्वलति ज्वलनो जलेऽप्यविश्रान्तम् । न त्वस्या: संभाव्यः, शीलभंशो महासत्याः ।।१।। येऽपि च महाव्रतं धारयन्ति सितवाससोऽतिभवभीताः । तेषामपि यदि शीलं न भवेत् कस्यापरस्य स्यात् ? ॥२॥ देवगृहे यच्च चिरं तिष्ठत्येषा न सोऽप्युपालम्भ: । यतयस्तत्र व्याख्यां कुर्वन्ति शृणोति सा च यतः ।।३।। आयान्ति यद्गृहममी भिक्षादिनिमित्तमस्तपापचयाः । स्वानुग्रहेच्छया तन्मयैव ते नित्यमाहूताः ।।४।। जिनधर्ममपि न भार्यानुवृत्त्याऽहं स्वीकृतवान्, किन्तु तापच्छेदकषशुद्धतामस्यावलोक्येत्यादिवचनैर्निर्लोठितो विलक्षीभूय स्थितः, केवलं तच्छिद्रान्वेषणपरो बभूव, अन्यदा च मासक्षमणपारणके समायात एकस्तपस्वी तद्गृहं, तदक्षिण च पवनप्रेरितः प्रविष्टस्तृणावयवो, न चाप्रतिकर्मशरीरतया तमसावपनीतवान्, सुभद्रा च महाभक्त्या तद्भिक्षादानायोत्थिताऽवलोक्य । जलप्लवप्लावितमेकं तदक्षि सूक्ष्मेक्षिकया पश्यन्त्यद्राक्षीन्नयनैकप्रदेशावलग्नं तत्तृणं, मा भूनिष्पतिकर्मतनोर्मुनेरेतदक्षिविघातायेति चिन्तयन्त्येव जिह्वाग्रेण । यावदपनीतवती तत्तावत्तदीयललाटतिलक: संक्रान्त: साधुभालतले, अनाभोगयोगतश्च न लक्षितस्तया निर्गतश्च साधुः दृष्टस्तदीयस्वस्रा ननन्द्रा चल तिलकभूषितललाटपट्टः, तत आहूय बुद्धदासं संदर्य च तं मुनि भणितवत्यौ-किमिदानीमुत्तरं करोषि ?, ततोऽसावचिन्तयत्-किमेतदसंभाव्यमालोक्यते?, अथवा तत् नास्ति संविधानं यत्संसारे न संभवति, अत एव च नीतावुक्तम्-"मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥१॥ तस्मात्किमसंभाव्यमिति प्रतनुरागस्तदुपरि जातो विपरिणतश्च मनाग् धर्मात्, ज्ञातश्चायमर्थः a tional कान्तः साधुमाल दशावलग्नं तत्तृणं, मा भावान, सुभद्रा च महाभव Jain Educ For Personal Private Use Only ww & brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy