________________
नवपद
वृत्तिःमू.देव. वृ. यशो ॥१३६॥
तस्मादस्तु इत्थमेवायं गर्भो, यद्भवति तद्भवतु, ततश्च कालक्रमेण प्रसूता दारकदारिके, जनन्योक्तं-परित्यजैते, कुबेरदसेनाऽब्रवीद-अम्ब ! वयस्यात्रिदशरात्रमनुपाल्य त्यक्ष्यामि, एवमस्त्विति प्रतिपन्ने कुबेरदत्तकुबेरदत्तानामाड़े मुद्रिके घटयित्वा तयोरेव कण्ठे बद्ध्वा दिव्यमञ्जूषां च सुयन्त्रिताकदृष्टान्तः कारयित्वा तन्मध्ये ते गर्भरूपे प्रक्षिप्य दशमदिवसे यमुनायां प्रवाहिते, प्रभातसमये च सौर्यपुरवास्तव्यकाभ्यां महेश्वरदत्तयक्षदत्तनामकाभ्यां श्रेष्ठिकाभ्यां शरीरचिन्तां विधाय यमुनातट एव शौचमाचरट्यां ददृशे सा लोलकल्लोलमालयोह्यमानाऽऽगच्छन्ती मञ्जूषा तटनिकटम्, आगता च गृहीत्वोद्घाटिता यावत्तावदवलोकितं मध्येमञ्जूषं बालकयुग्ममेकं, तयोरनुपमरूपधारको दारकोऽपरा च दारिकेति, ततो महेश्वरदत्तेनाभाणि-भो यक्षदत्त ! सुरूपमेतद्युग्मकं कस्यचित्, केवलमित्थमेवमुक्तं व्यसनपरम्परां मरणं वा प्राप्स्यति अत: संगोप्यतामेतत्, ततो यक्षदत्तेनोक्तं-यद्येवं पुत्रो ममार्ग्यतां पुत्रिका स्वयमेवोररीक्रियतां, महेश्वरदत्तेन त्वेवमस्त्वित्यभिधाय कुबेरदत्तां स्वयं गृहीत्वा कुबेरदत्तं च तस्यार्पयित्वा स्वगृहमाययौ, कालेन च ते तद्गृहयोः सुखंसुखेन वृद्धिमुपगते, यथौचित्यमेकोपाध्यायसमीपे एव कलाग्रहणं कारिते, जातश्च तयोः परस्परं स्नेहः, क्रमेण चोपारूढौ यौवनं, उचितसमये च श्रेष्ठिभ्यां को ह्यनयोरतिस्नेहवतोर्वियोगं करिष्यतीति पर्यालोच्य कारितं परस्परमेव पाणिग्रहणम्, अन्यदा च द्यूतविनोदेन तिष्ठतोस्तयोः संचारिता ग्रहणके स्वनामाङ्कमुद्रा कुबेरदत्तया, कुबेरदत्तोऽपि तामालोक्य स्वमुद्रया सहैकघटनामचिन्तयत्कथमेतन्मुद्राद्वयमेकघटनं समाननामन्यासं चिरन्तनमावयोः ?, एकोदरोद्भूतापत्यतयैवावां क्वापि नाभूव, न च ममास्या उपरि कदाचिद्भार्याबुद्धि-(ग्रन्थानम् ४०००)-स्तद्गत्वा पितरावापृच्छामि, देवगुरुशपथदानपूर्वं च पृष्टौ तौ यथावत्कथितवन्तौ मञ्जूषालाभवृत्तान्तं, हा ! न सुन्दरमाचरितमित्यभिधाय कुबेरदत्तायास्तं वृत्तान्तं प्रकथ्य पितृगृहं च तां प्रस्थाप्य स्वयं मथुरायां व्यवहारबुद्ध्या गतः, तत्र च भवितव्यतावशेन तस्या एव निजमातुः कुबेरसेनायाः कथञ्चिद्गृहं गतः, दृष्टा सा, जातानुरागो भाटीप्रदानपूर्वं तयैव सह विषयसुखमनुभूतवान्, क्रमेण च सैव स्वपरिगृहे धृता, पुत्रश्च छ जातः । इतश्च कुबेरदत्ता तदैव वैराग्यमूरीकृत्य, सुव्रतागणिनीसमीपे सविस्तरा धर्मदेशनामाकर्ण्य संजातचरणपरिणामा पप्रच्छ-भगवति ! यन्मया निजभ्रातरि भर्तुबुद्ध्या चेष्टमानया पातकमुपार्जितं तच्छोधनोपायो भवदीयप्रव्रज्या भवति न वा?, गणिन्योक्तं-भद्रे ! भवति, यत उक्तमस्मदागमे"सव्वावि य पव्वज्जा, पायच्छित्तं भवंतरकडाणं । पावाणं कम्माणं तो एत्थं नस्थि दोसोत्ति ॥१॥' तत इदमाकर्ण्य प्रवर्द्धमानशुभा- ॥१३६॥ ध्यवसायया तयोक्तं-यद्येवमविलम्बितं प्रयच्छ मे भगवति ! स्वकीयदीक्षां, तयाऽपि तद्योग्यतामवगम्य दीक्षिता सा, गृहीतद्विविधशिक्षा कालेन
Jain EducK
e rnational
For Personal & Private Use Only
w
ibrary.org