SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥१३५॥ Jain Educat प्रसूतवत्यः, ततश्चैौरैरिहानीय वेश्याहस्ते विक्रीताः, तेनोक्तं वयं ते त्रयोऽपि युष्मत्पुत्राः, अहं तावज्जिनदत्तपुत्रो जिनवल्लभः, इतरौ तु प्रियमित्रधनदत्तपुत्रौ प्रियावहधनावहनामकाविति, अन्ये त्वाहुः, यथा कुलदेवतया जिनवल्लभस्यार्द्धपथे सवत्सगोरूपमुपदर्शितं, गोसमीपोपविष्टवत्सपृष्ठे च तेन भवितव्यतावशादमेध्यखरण्टितांहे: प्रोञ्छनं कृतं, ततो वत्सेन स्वमातुः कथितं तया च मानुषभाषयोदितं वत्स ! कियदेतदस्य दुश्चेष्टितं ?, अयं हि पापकर्मा निजमात्रा सममद्य भोगान् भोक्तुमुद्यतो विद्यते, ततस्तद्वचनश्रवणोपजातशङ्को जिनमतिगृहं प्रविष्टः स एव सर्वोदन्तं पृष्टवान्, ततस्तया कथिते स्ववृत्तान्ते मम माता सा त्वमितरे तु मम मित्रयोर्मातरावित्यवोचत्, ततः सा साध्वसेनोत्थाय तस्य ग्रीवायां विलग्य रोदितुं प्रवृत्ता, सोऽपि तथैव, तत: परस्परं सुखदुःखप्रच्छनेन क्षणमात्रं स्थित्वा जिनवल्लभेनोक्तम्- अम्ब! मया तावन्मनागकार्यं नाचरितं ताभ्यां तु मम सुहद्भयां स्वस्वजननीपार्श्वगताभ्यां किमपि कृतं भविष्यतीति न वेद्मि तद् यामि तज्ज्ञापनायेत्यभिधाय यावद्गतस्तावदुपभुक्ते ते ताभ्यां तत आहूय द्वावप्येकत्रं भणितमनेन यथैतास्ता अस्मन्मातरस्तिस्रो याचौरैस्तदाऽपहृताः, ततोऽतिदूरं विषादमुपगतावेतौ, संबोधितौ जिनवल्लभेन यथा भवत्येवंविधमनिवृत्तविषयाभिलाषाणां प्राणिनां तत्मात्कार्यनिष्ठा भवामः, किं विषादेन ?, ततो मोचिताः सर्वैरेव प्रभूतवित्तवितरणेन स्वमातरः, आगन्तुं प्रवृत्ताः स्वदेशाभिमुखम्, अन्तरा च पर्यालोचितं स्वजननीभ्यां सह प्रियमित्रधनदत्तपुत्राभ्यां स्वनगरमनुप्राप्तौ स्वजनवर्गस्य किमुत्तरं दास्याव: ?, तन्न युक्तं स्वदेशगमनमावयोः, ततोऽन्यतोमुखमाहितं प्रवहणं, तन्मातृभ्यां च परमविषादमागताभ्यामतिवाहित आत्मा समुद्रमध्ये, मुक्ते च कलङ्कभीतेनेव जीवितेन, जिनवल्लभस्तु स्वमातरं गृहीत्वा समायातः स्वनगरं तन्मुखादेव ज्ञातवृत्तान्तैर्बहुभिर्लोकैर्गृहीतान्यणुव्रतानि, सोऽपि तथाविधस्थविरान्तिके मात्रा सह प्रवज्यामादाय विधिना परिपाल्य गतः सुरलोकम्, अन्ये तु वदन्ति - सर्व एव सजननीकाः प्राप्ताः स्वनगरं विशिष्टसंवेगागतमानसा बभूवुः पञ्चाणुव्रतधारिणः परमश्रावका एवं विज्ञायान्येनापि न कार्योऽतिप्रसङ्गो मैथुने, किन्तु विरतिः कार्येति । द्वितीयकथानकम् सूरसेनाविषये मथुरा नगरी, तस्यामसाधारणरूपलावण्यादिगुणगणालङ्कारधारिणी समस्तकलाकलापकुशला कुबेरसेना नाम गणिका, तस्याश्चान्यदा कथञ्चिद्गर्भसम्भवे महती शरीरबाधोदपादि कथितं वैद्यस्याग्रे तेन चादिष्टं यथा युग्मगर्भदोषोऽयं, न तु रोगदोषः, ततस्तदम्बयोदितं- २४ ॥१३५॥ हे वत्से ! प्रसवसमये महती ते बाधा भविष्यत्यत औषधादिना गालय गर्भमेनं, तयोक्तं को हि नाम जानान एवंविधमतिदारुणं पातकमङ्गीकरोति ?, ernational For Personal & Private Use Only Ibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy