SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिःमू.देव. व. यशो ॥१३३॥ दुविहं तिविहेण विउब्वियं तु एगविहतिविह तिरियंमि । मणुयं चरिमे भंगे पच्चक्खाणं चउत्थवए ॥५०॥ अत्र प्रत्याख्यानं 'चतुर्थव्रते' इति तुर्यपादेन सर्वत्र सम्बन्धः, ततश्च द्विविधंत्रिविधेन-न करोमि न कारयामि मनोवाक्कायैरेवंविधभङ्गकलक्षणेन वैक्रियमैथुनविषयं प्रत्याख्यानं जायते इति शेष: चतुर्थाणुव्रते, भावार्थश्चायम्-श्रावकस्यानुमते: सर्वत्राप्रतिषेधात् सामान्येन वैक्रियदेव्यादिसत्कं द्विविधविविधभङ्गकेन मैथुनविरमणं भवति, तिर्यङ्मनुष्यमैथुनविरति: केन २ भङ्गेनेति चेदुच्यते-'एगविहतिविह तिरियमि मणुयं चरिमभंगे' त्ति, अत्र सूत्रत्त्वात्तृतीयाविभक्तिलोपेन KU एकविधत्रिविधेन न करोमि मनोवाक्कायैरेवंविधभङ्गकेन तिरश्चि-तिर्यग्विषयं प्रत्याख्यानं, मनुजं च-मनुष्यविषयं पुनर्विषयविषयिणोरभेदोपचारात् 'चरिमे भंगे' त्ति चरमेण भड्रेन-एकविधैकविधलक्षणेन, न करोमि कायेनेत्येवंरूपेणेत्यर्थः, सप्तम्यास्तृतीयार्थत्वात्, तात्पर्यार्थश्चायं-गवादीनां वृषभादिसंयोजनप्रकारेण तिर्यविषयमैथुनकारणानुमत्योः प्रायश: श्रावकेण निषेद्धुमशक्यत्वात् तैरश्चमैथुनप्रत्याख्याने एकविधत्रिविधलक्षणो भङ्ग उक्त:, मानुषे स्वस्वापत्यविवाहादौ । कारणानुमतिभावाबलवव्यापारतया मनोवचननिरोधस्य च दु:शक्यत्वादेकविधैकविधेनेत्युक्तं, मनोवशत्वादिस्वयोग्यतापरस्य तु परेणापि प्रकारेण प्रत्याख्यानग्रहणसम्भवात् शेषा अप्यष्टौ भङ्गाः पदवयेऽप्यनिषिद्धा एष्टव्या इति गाथार्थः ।।५।। उक्तं यथा जायत इति द्वारम्, अस्य सम्प्रति दोषद्वारावसरः, दोषाश्चैहिका: पारत्रिकाश्च, तौहिका मातृभगिनीगमनादय:, पारत्रिका नपुंसकत्वादयः, तान् द्वेधाऽप्येकगाथया प्राह _ गिरिनयरे तिन्नि वयंसियाउ वादो जमलगा वणिसुया य । परलोए नपुंसत्तं दोहग्गं चेव दोसा य ॥५१॥ 'गिरिनगरे' गिरिनगराभिधानपत्तने 'तिस्रो वयस्याः' विसंख्या मित्रभावमापन्नाः स्त्रियो द्वौ 'यमलजौ' युग्मभ्रातरौ 'वणिक्सुता च' वाणिजकपुत्री, मैथुनानिवृत्तेरैहिकदोषभाजनं संवृत्ता इति गम्यते, परभवे 'नपुंसकत्वं' षण्ढत्वं 'दौर्भाग्यं' दुर्भगत्वं च 'दोषा:' दूषणानि, चकारादन्येऽपि, तदुक्तं- “मेहुणवयभंगंमी आसे पोसे तहेव करकम्मे । विहवा वंझा तिंदू जोणीसूलं रुहिरवाहो ॥१॥" त्ति, इत्यादयोऽपि दृश्याः , इति गाथाऽक्षरार्थः ।।५।। भावार्थ: कथानकेभ्योऽवसेयः, तेषु च प्रथमं तावदिदम्- इहैव जम्बूद्वीपे भारतवर्षमध्यखण्डालङ्कारभूतसौराष्ट्रविषये गिरिनगरं नाम पत्तनं, तत्र तिस्र इभ्यदुहितर: परस्परप्रीतिभावापन्ना उदग्रयौवनवर्त्तिन्यो जिनमतिप्रियङ्करीधनश्रीनामधेयाः, जिनदत्तप्रियमित्रधनदत्ताभिधैर्महाश्रेष्ठिपुत्रैः परिणीताः, तासु च जिनमतेर्भत जिनदत्तो गृहीताणुव्रतः श्रावकः, Jain Educa M emaboral For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy