________________
नष्टचित्ततया आलजालभाषणं ८ तद्भावः-स्तम्भादीनामपि तद्बुद्ध्याऽऽलिङ्गनादिचेष्टा ९ मरणं च-शोकाद्यतिरेकेण प्राणत्याग: १० इत्थमसंप्राप्तकामो यावद्देववृत्तिम.देव. दशविध: । दश चतुर्दश च मीलिताश्चतुर्विंशतिस्तया रहितं-त्यक्तम् । अन्यथा वा ब्रह्मचर्यस्वरूपमभिधीयते-दशधा वाऽष्टधा वा, अपिवाशब्दावथवार्थो, द्वारं वृ. यशो KA
ततोऽथवा दशधा ब्रह्माथवाऽष्टधेति, तत्र दशधा गन्धहस्त्युक्त दशविधमैथुनादिरूपकामप्रत्येकवर्जनया, तथा च तदुक्तम्-“मैथुना १ नुस्मृति २॥१३२।।
संस्कार ३ स्पृहे ४ न्द्रियालोक ५ वृष्यरस ६ विषया ७ विकथा ८ सत्कृति ९ संसक्तसेवा १० भेदाद्दशविधादब्रह्मणो निवृत्तिरिति । Kगा. ४८ अष्टधा त्वेवम्-"स्मरणं १ कीर्तनं २ केलि: ३, प्रेक्षणं ४ गुह्मभाषणम् ५ । सङ्कल्पो ६ ऽध्यवसायश्च ७, क्रियानिवृत्तिरेव ८ च ॥१॥ एतन्मैथुनमष्टाङ्गं, प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥२॥" इति अपिशब्दस्त्वेतदाह-एवमाद्यनेकप्रकारं ब्रह्मव्रतस्वरूपं विज्ञाय विवेकिना यथौचित्यं व्रतग्रहणं विधेयमिति गाथार्थः ।।४८।। व्याख्यातं यादृशद्वारेण चतुर्थाणुव्रतम्, अधुना यावद्भेदद्वारस्यावसरः, ततो यावन्तो भेदा अस्य संभवन्ति तदुपदर्शनायाह
ओरालियं च दिव्वं तिरियं माणुस्सयं पुणो दुविहं । माणुस्स सदाराईकाए सयकारणाईहिं ॥४९॥
अत्र च विषयविषयिणोरभेदोपचाराद् यावभेदं मैथुनं, ताव दैव तद्विरतिरित्यभिसन्धिना 'ओरालियं चे-' त्यादि गाथासूत्रमुक्तम्, अस्य चैवं व्याख्या-द्विविधं मैथुनं, तदाह-औदारिकं च दिव्य' मिति उदारैरुरालैर्वा वैक्रियाद्यपेक्षया स्फारैरघनैश्च पुद्गलैर्निर्वृत्तमौदारिकं औरालिकं वा शरीरं तद्विषयं तत्सम्बन्धि वा मैथुनमप्यभेदोपचारादौदारिकं, तिर्यङ्मनुष्यसम्बन्धीतियावत् अत एवाह सूत्रकृत्.. तिरियं माणुस्सयं पुणो दुविहं' ति पुन:शब्दस्य विशेषणार्थत्वादौदारिकमिति विशिनष्टि तत्किमित्याह-"द्विविधं द्विभेदं, कथम् ?, उच्यते-तिरश्चामिदं तैरश्चं, मनुष्याणामिदं मानुष्यक, तिर्यक्सम्बन्धि नरसम्बन्धि चेत्यर्थः, चकार: समुच्चये, स च भिन्नक्रमस्तेन दिव्यं चेति योज्यते, दिवि भवं दिव्यं-देवलोकसम्बन्धि, वैक्रियमितियावत्, इदं च यद्यपि करणादिभेदेन सर्वमप्यनेकविधं तथाऽपि रूपलक्षणभेदत्वात्तद्वारेणैव शेषावगतेश्च मानुष्यमेवानेकविधमुपदिदर्शयिषुरुत्तराद्धमाह-'माणुस्स' त्यादि, प्राकृतशैल्याऽत्रानुस्वारलोपात् मानुष्यं मैथुनं 'स्वदारादिकाये' स्वकलत्रपरकलत्रवेश्यादिशरीरविषये 'स्वककारणादिभिः' स्वकेन-स्वकरणेन कारणानुमतिभ्यां च विचिन्त्यमानमनेकविधं, भवतीति गम्यत इति गाथार्थः ।।४९।।
॥१३॥ उक्तं यावद्भेदद्वारम्, अधुना यथा जायत इत्युच्यते, तत्र मैथुनव्रतं येन प्रकारेण जायते तदाह
Jain EducIKlternabonal
For Personal & Private Use Only
welebrary.org