________________
नवपद
वृत्ति: मू. देव. वृ. यशो
।। १२९ ॥
स्तेना:-चौरास्तैराहृतं-आनीतं कुङ्कमादि स्तेनाहूतं, 'वज्जेज्ज' तिगाथान्तस्य सर्वत्र सम्बन्धात् 'वर्जयेत्' त्यजेत् चकारः परस्परापेक्षया समुच्चये, तथा तस्करप्रयोगकूटतुलाकूटमान चेत्येकं पदमतिचारद्वयप्रतिपादकं, अस्य चार्थ:- तस्कराः मलिम्लुचास्तेषां प्रयोगो-हरणक्रियायां प्रेरणं 'हरत यूय- 'मित्यनुज्ञा तस्करप्रयोगः, कूटा-प्रसिद्धस्वभावापेक्षया न्यूनाऽधिका वा तुला कूटतुला, कूटं-न्यूनमधिकं वा मानं कुडवादि कूटमानं कूटतुला च कूटमानं च कूटतुलाकूटमानं तस्करप्रयोगश्च कूटतुलाकूटमानं चेति पुनर्द्वन्द्वः, तच्च वर्जयेत्, अथवा “नीयालोयमभूया य आणिया दीहबिंदुदुब्भावा ।" इति लक्षणेनानुस्वारलोपेन तस्करप्रयोगं वर्जयेदिति भिन्न एव सम्बन्ध:, कूटतुलेत्यादिस्तु भिन्न एवेति, तथा 'तत्प्रतिरूपं च ' तेन प्रस्तुतेन व्यवह्रियमाणेन घृतादिना वा व्रीह्यादिना वा प्रतिरूपं सदृशं वसादि पलञ्ज्यादि वा यत्र स तथा तं, व्यवहारमिति शेषः, अथवा तस्यव्यवह्रियमाणस्वर्णादेः प्रतिरूपं-सदृशं युक्तिस्वर्णादि तत्प्रतिरूपं तेन यो व्यवहारः स तदभेदोपचारात्प्रतिरूपस्तं च वर्जयेत् तथा विरुद्ध:- प्रतिपन्थी, स च प्रस्तावात्स्वराज्यापेक्षया द्रष्टव्यः, तस्य राज्यं कटकं देशो वा तत्र गमनं विरुद्धराज्यगमनं तच्च वर्जयेत्, अतिचाररूपता चैषामेवंकाणक्रयेण लोभदोषाच्चौराहृतं प्रच्छन्नमाददानश्चौरो भवति, यदुक्तम्- "चौरचौरापको मन्त्री, भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥" इत्यतश्चौर्यकरणाद् व्रतभङ्गो, वाणिज्यमेव मया क्रियते न चौर्यमिति बुद्ध्या च व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः स्तेनाहृतं । तस्करप्रयोगस्तु द्विविधत्रिविधेन गृहीतादत्तादानविरतेर्यद्यपि भङ्ग एव, तथाऽपि भवदानीतं मोषमहं निगमयिष्यामि भक्तकादि च भवतामहं दास्यामि किं भवन्तो निर्व्यापारास्तिष्ठन्तीत्युक्तिभिचौरान् प्रेरयतः चोरयत यूयमित्यहं न भणामीत्यभिसन्धिना तद्व्यापारणं परिहरतो व्रतापेक्षित्वादतिचारः । तथा कूटतुलादितत्प्रतिरूपयोः परवञ्चनारूपत्वात्ताभ्याम- दत्तादानविरतेर्भङ्ग एव केवलं क्षत्रखननाद्येव चौर्य, कूटतुलादि तत्प्रतिरूपकरणं तु वणिक्कलैवेति स्वकल्पनया व्रतरक्षणोद्यतस्यातिचारावेताविति । विरुद्धराज्यगमनं तु यद्यपि स्वस्वाम्यननुज्ञातपरकटकादिप्रवेशस्य “सामीजीवादत्त" मित्यादिलक्षणयोगेन तत्कारिणां चौर्यदण्डयोगेन चादत्तादानरूपत्वाद्भङ्ग एव, तथाऽपि विरुद्धराज्यगमनं कुर्वता मया वाणिज्यमेव क्रियते न चौर्यमित्यभिसन्धिना व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचार इति, अथवाऽनाभोगादिनाऽतिक्रमादिना वा पञ्चानामप्यतिचारत्वं चिन्त्यमिति गाथार्थः ॥४५॥ भङ्गद्वारमधुनाऽभिधत्ते
जो चिंतेइ अदिन्नं गेण्हामि पयंपए तहा गिण्हे । अइयारेसु य वट्टइ पुणो पुणो तस्स भंगोऽस्य ॥४६॥
For Personal & Private Use Only
Jain Education International
९॥ १२९ ॥
www.jainelibrary.org