________________
नवपद
दत्वाऽवस्वापिनी ततः ।।८।। प्रतोलीद्वारपालानां, द्वारमुद्घाट्य वेगत: । भूमिगृहमनुप्राप्त:, पुरदूरव्यवस्थितम् ।।८२।। तत्र प्रवेशित: पूर्व, मूलदेवस्ततः वृत्ति:मू.देव.
स्वयम् । प्रविश्याहितसङ्केतां, भगिनीमादिदेश स: ।।८३।। भद्रे ! प्राघूर्णकस्यास्य, महादरपुरःसरम् । पादधावनमाधेहि, देहि भद्रासनं परम् ।।८४।। ततः व. यशो
सा तूर्णमुत्थाय, समागच्छोपविश्यताम् । अत्रेति स्थानमेतस्य, ससंभ्रममदर्शयत् ।।८५।। अन्धकूपान्तकत्वेन, प्रत्यासन्नीकृतान्तके । मूलदेवोऽप्यजानानो, ॥११७॥ निविष्टस्तत्र विष्टरे ।।८६।। साऽपि पानीयमादाय, पादं प्रक्षालनच्छलात् । यावदुत्पाटयत्यस्य, कूपप्रक्षेपणोद्यता ।।८७।। सौकुमार्यगुणाधिक्यनवनीतजयावहम् ।
तावत्तदंहिसंस्पर्शमनुभूय व्यचिन्तयत् ।।८८।। यथा पादतलेऽमुष्य, मृदुत्वमनुभूयते । तथा मन्येऽहमेषोऽत्र, कश्चित्सौख्यनिधिर्नृपः ।।८९।। किञ्चरूपलावण्यसौभाग्यभाग्यसम्पत्तिसङ्गतः । सदेह: कामदेवोऽयं, नूनं रत्या विवर्जितः ॥९०।। मदीयजीवितेनापि, यदयं जीवितेश्वरः । भूयाद्दीपालिकाकोटी, यावदक्षतजीवित: ।।९१।। एवं संचिन्त्य तं कूपं, प्रदानुपलक्षितम् । भावानुरक्तया शीघ्रं, पलायस्वेति संज्ञितः ॥९२।। तदभिप्रायमागम्य, ततस्तत्र पलायिते । भ्रातृविज्ञापनाहेतोश्चके कोलाहलस्तया ।।९३।। भ्रातर्धात: ! समागच्छ, गृहाणैतमसौ गतः । श्रुत्वैवं सोऽपि तद्रव्यमसंगोप्यैव निर्गत: ।।९४॥ करालकरवालं च, करे कृत्वाऽस्य पृष्ठतः । क्व यासि मदने, त्वं, वदन्नेवं च धावित: ।।९५।। मूलदेवोऽपि तं ज्ञात्वा, वेगानिकटमागतम् । आश्रित्य चत्वरस्तम्भमेकमन्तरित: स्थितः ।।९६।। सोऽपि कङ्ककृपाणेन, तमुद्देशमुपागतः । तमेव स्तम्भमाजघ्ने, तद्बुध्ध्या तीव्ररोषतः ॥९७।। यद्वा-अयथावस्थितं वस्तु, कोपाद्यन्तरितेक्षणः । पश्यति प्रायशो लोकस्तथा चोक्तं महात्मभिः ।।९८।।
"कामशोकभयोन्मादचौरस्वप्नायुपप्लुताः । अभूतानपि पश्यन्ति, पुरतोऽवस्थितानिव ॥९९॥" हतो मयाऽयमित्येवं, ज्ञातश्चौरो 2 मयेति च । प्रहृष्टौ चौरराजानौ, स्वं स्वं स्थानमथो गतौ ।।२००॥ विभातायां विभावर्यामुद्गते दिननायके । कुतप्रभातकर्त्तव्यो, राजा स्वल्पपरिच्छदः
॥२०१।। अश्ववाहनिकाव्याज, कृत्वा चौरदिक्षया । हट्टमार्गेण निर्यात:, क्षिपन् दृष्टिमितस्तत: ।।२०२।। अत्रान्तरे हट्टमेकं समाश्रित्य, विदधत्तूर्णनक्रियाम् । विलोचनव्यथाव्याजाद‘वच्छादिताननः ।।३।। विशीर्णवस्त्रखण्डैश्च, पिनद्धचरणद्वय: । राज्ञो दृष्टिपथं प्रापत्तस्करो मण्डकामिधः
॥४॥ साभिज्ञानेन केनापि, प्रत्यभिज्ञाय तं नृपः । विधाय कमपि व्याजं, चलित: स्वगृहं प्रति ।।५।। तस्य चाकारणाहेतोः, प्राहिणोदङ्गरक्षकम् । K आहूतस्तेन स त्रस्तोऽचिन्तयन्निजचेतसि ।।६।। न स व्यापादितो नूनं, विभावर्यां मया नरः । अकाण्ड एव तेनेदं, राज्ञ आकारणं मम ।।७।। भाव्यो Kह्यन्यायवृक्षस्य, तदिदानी फलोदय: । क्वचित्सर्पोऽपि यद्वा स्यान्न गोधैव बिले बिले ॥८॥ तद्भवतु किमप्यत्र, यामि तावन्नृपान्तिकम् ।
॥११७॥
Jain Education International
For Personal Private Use Only
www.jainelibrary.org