________________
नवपदवत्तिःम देव. व. यशो ॥११६॥
दोषद्वारे मण्डिककथा
॥६२।विभावरी याति, राजन पेजकांण ? । उद्वेजितं या च भ्रमण रात्रौ, पुरस्यातचीता देव
५५।। पुन: प्राह ततो राजा, श्रेष्ठिन्नैवमुदाहर । विशेषप्रत्यभिज्ञानं, यतस्त्वं गृह्यसे मया ।।५६।। एवमुक्तो न स श्रेष्ठी, यावत्प्रत्युत्तरं जगौ । स्वकेशकबरी तावत्प्रदोदाहरन्नृपः ।।५७।। स्वकीयचरितं तस्य, ततोऽसौ लज्जयान्वित: । भीतश्चोक्तो नरेन्द्रेण, लज्जसे किंनिमित्तकम्, ? ।।५८ /किं वा बिभेषि भो श्रेष्ठिस्त्वं मे यदुपकारकः । एवमाश्वास्य सन्मान्य, वस्त्रालङ्कारदानतः ।।५९॥ विसर्जितो गत: श्रेष्ठी, निजावासं क्रमेण च । पुरीमुज्जयिनी प्रापदमन्दानन्दनिर्भरः ।।६।।
इतश्च मूलदेवस्य, राज्यं पालयतोऽन्यदा । उल्ललास महारौद्रस्तस्करोपद्रवः पुरे ॥६१।। आर्त्यांगत्य कुर्वन्ति लोका: प्रचुरमारवम् । | अनाथमिव ते देव !, मुष्यते तस्करैः पुरम् ।।६२।। यत्र यत्र गृहे देव !, द्रव्यसंभावना क्वचित् । सुप्तोत्थितैस्तत्र तत्र, क्षत्रं पतितमीक्ष्यते ।।६३।। एकं द्वे त्रीणि वा यत्र, क्षत्राणि निपतन्ति नो । न सा विभावरी याति, राजन्नत्र पुरेऽधुना ॥६४॥ लोकानामेवमारावं; समाकर्ण्य महीपतिः । जातलज्जः समाहूय, दण्डपाशकमब्रवीत् ।।६५।। भो ! भो ! प्रमत्तता किं ते, वर्त्तते निजकर्मणि ? । उद्वेजितं पुरं सर्व, येनैवं क्षत्रपातकैः ।।६६।। स प्राहदेव ! रोष परित्यज्य, विज्ञप्तिः श्रूयतां मम । नोपलब्धो मया चौरो, गाढयत्नवताऽप्यलम् ।।६८।। तथा च भ्रमणं रात्रौ, पुरस्यान्तर्बहिस्तथा । समं पदातिवृन्देन, करोमि प्रतिवासरम् ॥६८॥ तण्डक: स्वामिनः (तण्डकांश्चाभितः) कृत्वा, स्थाने २ चतुष्किकाः । निविष्टाश्च तथा देव !, | नोपलब्धस्तथाऽप्यसौ ॥६९।। एवं तस्य वच: श्रुत्वा, चिन्तयामास भूपति: । नूनं धूर्ततमः कोऽपि, स यो नैवमपीक्ष्यते ॥७०।। तदद्य स्वयमेवाहं, | यतिष्ये तनिरीक्षणे । एवं संचिन्त्य संतस्थे, यावदस्तं गतो रविः ॥७१।। तमोभरनिरुद्धे च, सर्वतो मण्डले दिशाम् । नीलं पटमपावृत्य, प्रासादानिर्गतो नृपः ।।७२।। चतुष्कचत्वरारामशून्यदेवकुलादिषु । भ्रान्त्वा भ्रान्त्वा स निर्विण्णस्तस्करं न समैक्षत ।।७३।। ततो रात्रेरतिक्रान्ते, यामयुग्मे नराधिपः । सुप्तो हट्टकुणीकोणमुपश्रित्य श्रमान्वितः ।।७४।। अत्रान्तरे समायातस्तस्करो मण्डिकाभिध: । बभाण मूलदेवं सः, कस्त्वं ?, कार्पटिक: प्रभो ! ॥७५॥ यदि त्वं सत्यमेवेह, प्रभुं मामभिमन्यसे । तदुत्तिष्ठ समागच्छे:, करोमि त्वामपीश्वरम् ।।७६।। श्रुत्वैवं मूलदेवोऽपि, स्वचेतस्यकरोदिदम् सैष संभाव्यते नूनं, यन्निमित्तो मम श्रमः ।।७७।। तदुत्तिष्ठामि गच्छामि, पश्याम्येतस्य चेष्टितम् । किं करोति क्व वा याति ?, धृष्टोऽयं वीक्ष्यते यतः ॥७८॥ एवं संचिन्त्य चलितः, समं तेन गतश्च सः । एकं धनपतेर्गेह, क्षत्रद्वारेण तत्र च ।।७९।। प्रविश्य हेरितं पूर्व, द्रव्यमादाय निर्गत: । आरोप्य तच्छिरस्यसकृतोऽसावात्मनः पुनः ।।८०॥ स्वयं च खड्गमादाय, प्रस्थितः पृष्ठतस्तत: । गतो यावत्पुरद्वार
॥११६॥
Jain Educ
a
tional
For Personal & Private Use Only
w
s
brary.org