SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥११५॥ प्रियमेलकः? ॥२७॥ यत:-"निवासो यत्र तत्रास्तु, यत्तद्भवतु भोजनम् । य इष्टजनसंयोगस्तद्राज्यं बन्धनं परम् ॥२८॥" इष्टा च देवदत्ता मे, जीवितादपि वर्त्तते । तत्तामानाययाम्येवं, विचिन्त्योज्जयिनी प्रति ॥२९॥ प्रेषित: प्रयतो दूत:, प्रचुरप्राभृतान्वितः । गतोऽसौ दृष्टवांस्तत्र, | जितशत्रुमहीपतिम् ।।३०।। प्रणामपूर्वमेतस्य, ढौकनीयं समर्प्य स: । प्रोवाच मूलदेवाख्यो, बिन्नातटनराधिपः ॥३१।। प्रेषयामास मां देवपादान्तं | प्रीतमानस: । संग्रहे देवपादानां, देवदत्ता विलासिनी ।।३२।। तदर्थमनुमन्यध्वं, तत्र तद्गमनाय ताम् । एवं दूतवचः श्रुत्वा, हृष्टचित्तोऽवदन्नृपः ।।३३।। कियन्मात्रमियं दूत ! त्वत्प्रभोर्येन केनचित् कार्यमार्य ! समस्तीह, तदन्यदपि कथ्यताम् ।।३४।। एतद्राज्यमिमे लोका, इदं द्रव्यमिमे वयम्। स्वाधीनं सर्वमेवेह, त्वत्प्रभोरिति बुध्यताम् ।।३५।। एवमुक्त्वाऽथ सन्मान्य, दूतं वस्त्रादिदानत: । तूर्णं प्रस्थापयामास, समं तेनैव तां नृपः ।।३६।। मूलदेवोऽपि तल्लाभप्रीतचेतस्तया समम् । पराभिश्च वरस्त्रीभिभूपलक्षम्या विराजित: ।।३७।। मुनिदानतरो: पुष्पप्रायं वैषयिकं सुखम् । इच्छातीतभवत्प्राप्तिर्बुभुजे भुजविक्रमी ॥३८॥ इतश्च मूलदेवस्य ज्ञात्वाऽसौ राज्यसम्पदम् । आयात: सद्धटष्टक्को, पृष्टो राजोदितश्च सः ।।३९।। यत्र ग्रामे भवानास्ते, स तवैव परं पुन: । नागत्य दर्शनं कार्यमेवमुक्त्वा विसर्जितः ।।४०।। इतश्चोज्जयनीपुर्या, सार्थवाहोऽचलाभिध: । अन्यदा चिन्तयामास, यथा किल शरीरिषु ॥४१।। स एव श्लाघ्यते कीर्तिरासमुद्रान्तगामिनी । यस्य प्रह्लादयत्युर्वीमिन्दोः कान्तिरिवोज्जवला ।।४२।। सा च दानेन तपसा, पराक्रमबलेन वा । विज्ञानज्ञानसंपत्त्या, जायते यश:(ल)शालिन: ।।४३।। एतेषु च-तपोऽतिदुष्करं तावद्वणिज: (?) प्रायो न विक्रमः । विज्ञानज्ञानलाभश्चानुपासितगुरो: कुत:? ॥४४॥ तद्दानेनैव सत्कीर्तिमर्जयामि यथोचिति । तेनापि स्वभुजोपात्तवित्तस्यैषा प्रशस्यते ॥४५।। अतो देशान्तरं गत्वा, द्रव्यं तावदुपार्जये। ततो दीनादिदानेन, वर्द्धयिष्यामि तामहम् ॥४६॥ एवं च चिन्तयित्वाऽसौ, देशान्तरगमोचितम् । विविधं भाण्डमादाय, कारयित्वा च घोषणाम् ॥४७।। प्रशस्ततिथिनक्षत्रलग्नवारांशदर्शने । चचाल दीनकीनाशवणिग्वर्गादिभिः सह ।।४८॥ अपि च-अखण्डखण्डतातङ्कप्रणयार्थिशिखण्डिकः । लोकलोचनदात्यूहानन्दसन्दोहदायकः ।।४९।। लसद्दानजलोत्पीलनिर्वापितमहीतल: । अचलो गन्तुमारेभे, प्रावृषेण्य इवाम्बुदः ।।५०।। अखण्डितप्रयाणैश्च, व्रजन्नेष विविक्षितम् । नगरं संप्राप्तो धीमानाहितक्रयविक्रयः ।।५१।। समुपात्तमहालाभोऽचलन्नुज्जयनी प्रति । मध्ये बिन्नातटं गच्छंस्तत्र भाण्डं प्रवेशयन् ५२।। अदत्तशुल्कं किमपि, गृहीतः शौल्कशालिकैः । नीतो राजसभां दृष्टो, मूलदेवनृपेण सः ।।५३।। प्रत्यभिज्ञाय भणितो, भो ! भो ! भो ! KA सार्थनायक ! । किं मां प्रत्यभिजानासि, भीतभीतो बभाण स: ।।५४॥ को न प्रत्यभिजानाति, देव ! त्वां नरनायकम् ? । सुविशुद्धयशोराशिनिरुद्धभुवनोदरम् national K Jain Educa & For Personal Private Use Only ww. brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy