________________
कथा
गाय शुचिर्भूत्वा, फलायत्वा स्वपुत्रिकाम् समातच, दण्डाघातैः
K नवपद
दोषद्वारे मे। तदेतद्दानतोऽप्यद्य, करोम्यात्मकृतार्थताम् ।।१०१।। एवं चिन्तयता तेन, भक्तिनिर्भरचेतसा । साधुराभाषितो नाथ !, कल्पन्ते यद्यमी तव ।।१०२।। वनिमदेव स्वीक्रियन्तामिमे तर्हि, ममानुग्रहकाम्यया । मुनिरप्येवमुक्तस्तानुपयुज्य गृहीतवान् ।।१०३।। युग्मम् ।। मुनिकुल्माषदानेन, मूलदेवोऽतितोषितः । श्रमण्डिकवृ. यशो
सपयःपयोदनादेन, गाथाऽर्द्धमथ गीतवान् ।।१०४|| "धन्नाणं खु नराणं कुम्मासा हुंति साहुपारणए ।' अत्रान्तरेऽसौ भणितो देवतया॥११४॥
यत्त्वमहिसे वत्स ! याचस्व निर्विशङ्ख तद्गाथापश्चिमार्द्धन, तेनोक्तं- "गणियं च देवदत्तं दंतिसहस्सं च रज्जं च" ॥१०५॥ ततो देवतयाऽभाणि, याचितं वत्स ! यत्त्वया । भविष्यति चिरात्तत्ते, मुनिदानानुभावतः ।।६।। ततो भिक्षाटनं कृत्वोपभुज्य चलित: पुन: । गच्छंश्चैकपुरं प्राप्तस्तत्र दैशिकमण्डपे ।।७।। प्रसुप्तो रात्रिशेषे च, स्वप्नेऽसौ रविमण्डलम् । मुखे विशन्तमालोक्य, प्रतिबुद्धस्तदैव च ।।८।। दृष्टस्तथाविध: स्वप्नो,
देशिकेनापरेण च । कथितश्चोत्सुकीभूय, तेन कार्पटिकाग्रतः ।।९।। तैरुक्तम्-आदित्यमण्डलाकारं, सर्पिर्गुडसमन्वितम् । स्वप्नानुभावतोऽद्य त्वं, | मण्डकं समवाप्स्यसि ।।१०॥ तत: प्रहृष्टाचित्त: सन्, भिक्षाकाले समागते । भ्राम्यंस्तल्लब्धवानेकं, मण्डकं स यथोदित्तम् ।।११।। मूलदेवोऽपि विज्ञाय, स्वप्ने तेषामकौशलम् । समुत्थाय शुचिर्भूत्वा, फलपुष्पसमन्वितः ।।१२।। गत: सुखासनस्थस्योपाध्यायस्य समीपकम् । कृतपूजोपचारश्च, स्वणं तस्य न्यवेदयत् ।।१३।। सोऽपि तस्य तदाकर्ण्य, ग्राहयित्वा स्वपुत्रिकाम् समादिदेश सप्ताहाभ्यन्तरे राज्यमुत्तमम् ।।१४।। बिन्नातटपुरं प्राप्तो, मूलदेवः क्रमेण च । नगरारक्षकै रात्रौ, क्षेत्रद्वारे च वीक्षित: ।।१५।। गृहीतो लोषहस्तश्च, दण्डाघातैः प्रताडितः । शरावमालिकां कण्ठे, कारितो बाहुबन्धनः ।।१६।। आरोप्य रासभं नेतुमारब्धो वध्यभूमिकाम् । एवं कष्टदशां प्राप्तश्चिन्तयामास चेतसि ।।१७।। किमन्यथा वचो देव्याः, उपाध्यायस्य चाधुना । मदीयापुण्यसंभारभाराक्रान्तं भविष्यति ।।१८।। अत्रान्तरे-अपुत्रो नृपतिस्तत्र, जगाम यममन्दिरम् । पञ्चदिव्याभिषेकोऽभूत्ततस्तानि भ्रमन्ति च ।।१९।। समायातानि तत्रैव, पथि यत्र स नीयते । वध्यभूमि ततो हस्ती, विधाय गलगर्जितम् ।।२०।। करेण तं समादाय, निजस्कन्धमरोपयत् । हेषारवं तुरङ्गश्च, चक्रे श्रवणसौख्यदम् ।।२१।। उद्दण्डपुण्डरीकं चोपरिष्टात् शिरसोऽभवत् । वीजितं तत्क्षणादेव, चञ्चच्चामरयोर्युगम् ।।२२।। अनाहतोऽपि
गम्भीरस्वरं दध्वान दुन्दुभिः । पतिता पुष्पवृष्टिश्च, वृष्टं गन्धोदकं तथा ।।२३।। सर्वतो बन्दिवृन्दस्योत्तस्थौ जयजयारवः । सान्निध्यतुष्टमनसो, ननृतुश्च K पुराङ्गनाः ।।२४।। एवं महाविभूत्या च, मूलदेवो नृपोऽजनि । सामन्तादिजन: सर्वस्तदाज्ञां प्रतिपन्नवान् ।।२५।। दिनेषु केषुचिद्राज्ये, क्रमेण स्थिरतां K"१ Kगतो चिन्तितं किं ममैतेन, राज्यलाभेन यस्य मे ।।२६।। वियोगो देवदत्तायाः, वर्त्तते दु:खहेतुक:? । संपत्ति: किं च मे श्लाघ्या, यस्यां न
Jain Educa
l ernational
For Personal & Private Use Only
wwmayanme ibrary.org