________________
नवपदवृत्ति: मू. देव. वृ. यशो
।। ११३ ॥
॥ ७५ ॥ तद्भावं स तु विज्ञाय तथा क्षुद्रतया जलम् । चिक्षेपोष्णं यथाऽधःस्थो, दह्यमानः स निर्गतः ॥ ७६ ॥ तं निर्यातं स वीक्ष्याह, गृहीत्वा केशसञ्चये । किं करोमि तवेदानी, प्राप्तक्षुण्णस्य कथ्यताम् ? ॥७७॥ सोऽब्रवीद्रोचते तुभ्यं, यत्तदेव विधीयताम् । ततोऽसौ चिन्तयामास, महात्माऽसावहो ! अयम् ।। ७८ ॥ मनागपि न दीनत्वमापन्नव्यसनोऽपि यः । प्रकाशयति यद्वाऽत्र, सतामेतत्कुलव्रतम् ।। ७९ ।। यदुक्तम्- “विपदि न यस्य विषादः सम्पदि हर्षो रणे च धीरत्वम् । तं भुवनतिलककल्पं जनयति जननी सुतं विरलम् ॥ ८० ॥ किञ्च विरला एव संसारेऽनवाप्तव्यसना जनाः । अनुपायजीविनः स्थायिसौख्या वाच्यविवर्जिताः ॥ ८१ ॥ उक्तञ्च "कस्य वक्तव्यता नास्ति ? सोपायं को न जीवति ? । व्यसनं केन न प्राप्तं ?, कस्य सौख्यं निरन्तरम् ? ॥८२॥ विचिन्त्यैवं ततस्तेन, मामप्येवंविधापदि । विमुञ्चेस्त्वं महाभाग !, गदित्वैवं विसर्जितः ||८३ || पराभवपदापन्नो मूलदेवो व्यचिन्तयत् । स्वमुखं दर्शयिष्यामि कथं लोकस्य साम्प्रतम् ? ॥ ८४ ॥ यतः - "धनमानविहीनेन, नरेणापुण्यभोगिना । सवासा यत्र नेष्यन्ते, गन्तव्यं तत्र कुत्रचित् ॥ ८५ ॥ इत्येवं चिन्तयित्वाऽसौ, बिनातटपुरं प्रति । प्रवृत्तो गन्तुमेकाकी, स्वल्पपाथेयसंयुतः ॥ ८६ ॥ गच्छंश्च दिवसैः कैश्चित् संप्राप्तोऽसौ महाटवीम् । क्षीणसंबलकस्यास्य, सद्घटः मिलितस्ततः ।। ८७।। सक्तुपोट्टालिकाहस्तस्तं वीक्ष्यैष व्यचिन्तयत् । पाथेयेनाहमप्यस्य, लङ्घयिष्ये महाटवीम् ॥८८॥ ततस्तेन समनुं प्रवृत्तो यावदागतः । मध्याह्नसमयस्तीव्रस्ततो वीक्ष्य सरोवरम् ॥ ८९ ॥ मार्गासन्नतरं सारं, तथा न्यग्रोधपादपम् । छायायां तस्य विश्रान्तौ तौ क्षणं सद्धस्ततः ॥ ९० ॥ उत्थाय नीरतीरे च भूत्वा सक्तूनभक्षयत् । दास्यत्येष ममाप्येवं मूलदेवस्त्वचिन्तयत् ॥ ९१॥ आलापमप्यकुर्वाणस्तेन सार्द्ध च सद्घटः । सक्तुपोट्टलिकां बद्ध्वो, चचाल कृपणाशयः ।। ९२ ।। मूलदेवोऽपि मे चिन्तामग्रे क्वापि करिष्यति । एवमालोचयंश्चित्ते, तत्पृष्ठे व्यलगत्पुनः ।।९३।। दिनत्रयं व्यतिक्रान्तमेवं तस्य तदाशया । महाटवीं व्यवच्छिद्य, ग्रामनैकट्यमागतौ ।।९४।। मूलदेवस्ततश्चित्ते, व्यवस्थापितवानिदम् । एतदाशानुभावेन, लङ्घितेयं महाटवी ||१५|| उपकर्तुं तदेतस्य शक्यते न मयाऽधुना । संकल्प्यैवमवादीत्तं, भो भो भद्र ! यदा मम ॥ ९६ ॥ राज्यलाभं विजानीयास्तदाऽऽगच्छेर्ममान्तिकम् । येन प्रत्युपकारं ते, यथाशक्ति करोम्यहम् ॥ ९७ ॥ युग्मम् । इत्येवमुक्त्वा तं स्वयं ग्रामं विवेश सः। भिक्षार्थं तत्र लब्धाच, कुल्माषाः पूरिता पुटी ।। ९८ ।। व्यावृत्तः संप्रवृत्तश्च, तडागाभिमुखं ततः । भिक्षार्थं ग्राममायान्तं साधुं मासोपवासिनम् ।।९९।। दृष्ट्वा संकल्पयामास, धन्य एष महामुनिः । अहो ! पुण्यैर्ममात्रैवं दृष्टिमार्गमुपागतः ॥ १०० ॥ कुल्माषांश्च विमुच्येमान्, नापरं देयमस्ति
For Personal & Private Use Only
Jain Education International
॥११३॥
www.jainelibrary.org