________________
दोषद्वारे
नवपद- 68
सविषादं विलम्ब्य सा । मूलदेवस्य विज्ञानं, स्मरन्ती समभाषत ।।५०॥ मत्ता करेणुकाऽहं किं ?, क्षिप्तो येनैवमग्रतः । ममायमिक्षुसंभारः, वत्तिम.देव. संस्कारपरिवर्जितः ॥५१।। इदानीं गच्छ मातस्त्वं, मूलदेवमिदं वद । येन तस्यापि विज्ञानसारासारत्वमीक्ष्यते ।।५२।। तत: सा मूलदेवस्य,
पा मलदेवस्य मण्डिकवृ. यशो समीपमागमद् द्रुतम् । संदेशं देवदत्तायाः, अवादीच्च सविस्तरम् ।।५३।। सोऽपि तत्कथनस्यान्ते, जगाम द्यूतमण्डपम् । जित्वा द्यूतकरांस्तत्र, ललौ कथा ॥११॥ दश कपर्दकान् ॥५४॥ शराव, संपुटं द्वाभ्यां, सारेक्षुयष्टिके । चतुर्जातादिकं शेषैः, क्रीत्वा गेहमुपागतः ।।५५।। ततोऽसाविक्षुयष्टी ते, घटित्वा
व्यङ्गलान्यथ । चक्रे लघूनि खण्डानि, शूलाग्रैः स बबन्ध च ।।५६।। चतुर्जातकसंस्कारं, तेषां कृत्वाऽतिपेशलम् । शरावसंपुटे पश्चात्, स्थापयामास
धूपिते ॥५७।। आहूय देवदत्तायाः, दासचेटी ततोऽर्पयत् । शरावसंपुटं साऽपि, गत्वा तस्या न्यवेदयत् ।।५८।। तदेतन्मूलदेवेन, स्वामिनि ! प्रेषितं शतव । अम्बामुखेन संदिष्टं, यत्त्वया तस्य धीमतः ।।५९।। ततः स सादरं पाणी, प्रसार्य प्रतिगृह्य तत् । प्रोवाच जननीमम्ब !, पश्य पश्यान्तरं नृणाम्
॥६०॥ यतः- व्ययित्वाऽपि बहुद्रव्यमिक्षूणां भक्षणार्हताम् । अचलो न तथा चक्रे, मूलदेवो यथा सुधीः ।।६।। गाढमन्युभरावेगवशवर्तिन्यसावपि । न ददावुत्तरं किञ्चित्तत्प्रभृत्येव केवलम् ।।६३।। छिद्राणि मूलदेवस्य, वीक्षितुं सा प्रचक्रमे । दुष्पापाणि न चैतानि, विषयासक्तचेतसाम् ।।६३|| यदुक्तम्-"कोऽर्थान् प्राप्य न गर्वितो? विषयिणः कस्यापदोऽस्तं गता: ?, स्त्रीभिः कस्य न खण्डितं भुवि मन: ? को नाम राज्ञां । प्रियः ? । कः कालस्य न गोचरान्तरगतः ? कोऽर्थी गतो गौरवं ?, को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥६४॥" ततोऽन्येधुस्तयाऽभाणि सार्थनाथोऽचलो यथा । त्वमद्य देवदत्ताऽग्रे, स्वस्य ग्रामगमं वद ॥६५॥ मूलदेवं गृहे येन, सा प्रवेशयति द्रुतम् । । ततः प्रदोषवेलायामागत्य निगृहाण तम् ।।६६।। एवमुक्तेन तेनापि, सर्वमेतदनुष्ठितम् । देवदत्ता ततो हष्टा, मूलदेवमथाह्वयत् ।।६७।। विज्ञाय तं समायातमचलस्तज्जिघृक्षया । पुरुषैर्वेष्टयामास, सर्वतस्तनिकेतनम् ।।६८।। मूलदेवो भयत्रस्तः, पर्यङ्काधो व्यवस्थितः, । खड्गव्यग्रकरस्तस्मिनचलोऽपि समागतः ॥६९।। उपविष्टश्च पल्यलेऽवगम्य तमध: स्थितम् । देवदत्ता समादिष्टा, स्नानहेतुप्रसिद्धये ॥७०॥ आदेशानन्तरं सर्वं, तस्य निष्पाद्य शासनम् । समस्तस्नानपोतं च, बभाणैतदसावमुम् ।।७१।। एतत्त्वद्वचनान्नाथ !, स्नानाय प्रगुणीकृतम् । आसनादि तदुत्तिष्ठ, स प्राहात्रैव मज्ज्यताम् ॥७२।। पल्यङ्कारूढ एवाह, यत: स्नास्यामि सुन्दरि ! तयोदितं भवत्वेवं, किन्तु शय्या विनश्यति ।।७३।। सोऽवदच्छोभनामन्यां, कारयिष्याम्यहं ॥११२॥ प्रिये ! । तस्मादानीयतामेतच्चिन्तया किं तवैतया ? ।।७४।। तत: सोद्वेगचित्ताऽसौ, तं तत्रैव व्यवस्थितम् । स्नपयितुं समारेभे, शनैर्नात्युष्णवारिणा
सार्थनाथोऽचलो यथावतेन तेनापि, सर्वमेतटा भयत्रस्तः, पर्यङ्का
Jain Educ
a
tional
For Personal Private Use Only
wi
brary.org