SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कथा नवपदवृत्तिःमू.देव. त. यशो ॥११०॥ 'इह' मनुष्यलोके 'लोहिल्ल'त्ति, प्राकृतेऽस्त्यर्थे इल्लं, तथा चोक्तम्- 'आलं इल्लं चास्त्यर्थे' ततो लोभवन्त इत्यर्थः, 'ते मंडियविजया इव मण्डिक चोर'त्ति 'बहुवयणेण दुवयण' मिति वचनात् मण्डिकविजयाविव 'चौरौ' तस्करौ ‘प्राप्नुवन्ति' लभन्ते 'दुःखानि' शूलारोपणोद्वन्धनादीनीति गाथार्थ: ॥४२।। भावार्थ: कथानकगम्यस्तच्चेदम् विश्चविश्वम्भराभोगचूडालङ्कारसन्निभा । अवन्तीदेशप्रसरा, श्रीमदुज्जयनी पुरी ।।१।। यस्यां विपणिवीथीषु, वीक्ष्य रत्नादिसन्तती: IKE पानीयमात्रसंशेषं, मन्यन्ते सागरं जनाः ।।२।। यस्यां च विततोत्तुङ्गरम्यहावलीश्रियः । स्वर्गिणामपि चेतांसि, हरन्ति विप्रलोकिता: ।।३।। औदार्यदाक्ष्यदाक्षिण्यशौर्यवीर्यादिसद्गुणैः । यन्निवासी जनो भाति, धर्मकर्मनिषण्णधीः ।।४।। तस्यामरातिसामन्तमत्तमातङ्गकेशरी । अनीतिकौमुदीभानुर्जितशत्रुर्महीपतिः ।।५।। सिक्तोऽप्यरिपुरन्ध्रीणां, सन्ततं नेत्रवारिभिः । प्रतापदहनो यस्य, जाज्वलीति स्म कौतुकम् ।।६।। यस्य से च-रागः सन्नीतिशास्त्रेषु, विचित्तत्वं कुकर्मसु । नि:स्पृहत्वं परस्त्रीषु, लाम्पट्यं गुणसङ्ग्रहे ।।७।। तस्य भूमीपतेर्मान्यो, बन्धुकैरवचन्द्रमाः । अचल: सार्थवाहोऽभूदुदग्रनवयौवनः ।।८।। अपि च-रूपेण पुष्पधन्वानं, धनेन नरवाहनम् । जिगाय यो महासत्त्वः, सत्त्वेन च युधिष्ठिरम् ।।९।। इतश्चनिःशेषकलाकुशला निरुपमलावण्यरूपसौभाग्या । तस्यामभून्नगर्या विलासनी देवदत्ताख्या ।।१०।। या च-कन्दर्पसर्पदष्टानां, संजीवनमहौषधी । सम्भोगसुखरत्नानां, रोहणाचलकाश्यपी ।।११।। अपिच-अस्पृश्यतैव यद्देहो, मन्ये धात्रा विनिर्मित: । अन्यथा कथमम्लानि, सौकुमार्य भवेत्तनो:? ।।१२।। द्यूतकरचक्रवर्ती तवैव बभूव मूलदेवाख्यः । नि:शेषकलाकुशलो धूर्तपतिर्धीमतां धुर्यः ।।१३।। तत्र भावानुरक्ता सा, तमेव परिपश्यति । अग्रत: पृष्ठतो द्वारि, मध्ये हट्टे गृहेषु च ।।१४।। मूलदेवोऽपि तद्रागात्तद्वियोगे न कुत्रचित् । लेभे रतिं दिवा रात्रावासने शयनेऽपि वा ।।१५।। ततश्च-जीवलोकं सुखं सारमन्योऽन्यमनुरक्तयोः । आसेवमानयोर्जातस्तयोः काल: कियानपि ।।१६।। अन्यदा च समायातः, स वसन्तमहोत्सवः । यत्रोद्यानगता: पौरा, नानाक्रीडा: प्रचक्रिरे ।।१७।। अचल: सार्थवाहस्तु, तदोद्यानमुपागतः । ददर्श देवदत्तां तां, मूलदेवसमन्विताम् ।।१८।। ततोऽसौ चिन्तयामास, धन्यः कोऽप्येष सधुवा । योऽनया मृगलक्ष्मेव, पौर्णमास्या विराजते ।।१९।। अहो सौभाग्यसम्पत्तिरहो लावण्यमुत्तमम् । अहो यौवनमेतस्या, यूनामुन्मादहेतुकम् ।।२०।। अहो नव्यो विषग्रन्थिरियं धात्रा विनिर्मिता । यत्संभोगे जन: सौख्यं, संत्यागे दुःखमश्नते ।।२१।। ॥११०।। तत:-तत्संजाताभिलाषेण, चिन्तयित्वैवमादिकम् । समीपे प्रेषितस्तस्यास्तेन सङ्गमको नरः ।।२२।। तेनोदिता च सा गन्तुं, गृहं तेऽद्य समेष्यति । Jain Educa& ernational For Personal & Private Use Only ww b rary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy