________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥१०॥
शेषः, समाहारत्वादेकवचनमनुस्वारलोपस्तूभयत्रापि प्राकृतत्वात्, तत्र सचित्तं द्विपदं-जीवन्मनुष्यादि अचित्तम्-अर्हत्प्रतिमादि उभयं-हाराद्यलङ्कृतसीमन्तिन्यादिचतुष्पदं च सचित्तमश्वादि अचित्तमैरावतप्रकृत्यादि उभयं नक्षत्रमालाद्यलङ्कृतगजादि, एतच्च द्विपदादि सचित्तादिरूपं विषयोऽदत्ते ज्ञेय इति तुर्यपादेन सम्बन्ध:, किमेतावानेवादत्तविषय: ?, नेत्याह-अपदं च, कथं ?-'तथैव' तेनैव सचित्ताचित्तोभयप्रकारेण, तत्र सचित्तमपदंसजीवधान्यादि अचित्तं-स्वर्णादि मित्रं-कम्बलीबद्धमुद्गादि, अनेन च नवभेदमदत्तादानमुक्तम् अथवा बहुतरभेदत्वमस्याह-"जेण य चोरंकारो विसओऽदत्तमि सो नेओ' त्ति येन च चौरङ्कार:-चौरोऽयमिति शब्दप्रत्ययप्रवृत्ते: “विषयो' गोचर: ‘अदत्तस्य' अदत्तादानस्य स 'ज्ञेयः' ज्ञातव्यः, षष्ठीसप्तम्योरर्थं प्रत्यभेदाददत्तस्येति व्याख्यातं, भावार्थस्त्वयं-येन येन द्रव्यादिनाऽपहतेन चौरोऽयमिति व्यपदिश्यते तत्तद्र्व्यादिसम्बन्धेन स सोऽदत्तादानभेद इति गाथार्थः ॥४०॥ उक्तं भेदद्वारमधुना यथा जायत इत्युच्यते
गुणठाणगंमि तह परिणयंमि जीवस्स कुगइभीयस्स । वयगहपरिणामो च्चिय होइ दढं तिब्बसस्स ॥४॥
गुणा:-सम्यग्ज्ञानदर्शनचारित्ररूपास्तेषां स्थानं-तिष्ठन्त्यस्मिन्निति स्थानं-शुद्ध्यशुद्धिप्रकर्षापकर्षकृत: स्वरूपभेदो, यथाऽध्यवसायस्थानमिति, तस्मिन् 'तथापरिणते' तेन स्वरूपेण आगमोक्तेन परिणते, कोऽर्थः ?-मिथ्यादृष्टिगुणस्थानकादाराभ्य मोहनीयादिकर्मण: स्थितिघातादिक्रमेणोत्तरोत्तरगुणस्थानावाप्तौ, यद्यपि चात्र सामान्येन 'गुणठाणगम्मि' इत्युक्तं तथाऽपि देशविरतिगुणस्थानक इति गम्यते, यतोऽत्र तृतीयाणुव्रतं यथा जायत इति द्वारेण व्याख्यातुमुपक्रान्तम्, एतच्चात्रैव गुणस्थानके संभवि, न शेषेषु, अस्य च तथा परिणामोऽयं-सम्यक्त्वलाभानन्तरं पल्योपमपृथक्त्वप्रमाणस्थितिघाते एतद्भवनं, अस्मिंश्च जाते 'जीवस्य' आत्मन: 'कुगतिभीतस्य' दुर्गतिवस्तस्य अविरतिमूलकर्मबन्धभीरोरितियावत्, व्रतमिह प्रस्तावाददत्तादानविरतिरूपं तस्य ग्रहो-ग्रहणं तत्परिणाम:-तदध्यवसायः 'चिय' त्ति पूरणे 'भवति' जायते 'दृढम्' अत्यर्थं 'तीव्रश्रद्धस्य' उत्कटनिजाभिलाषस्य, कोऽर्थः ?-"परिमियमुवसेवंतो अपरिमियमणंतयं परिहरंतो । पावइ परम्मि लोए अपरिमियमणंतयं सोक्खं ॥१॥" इत्यभिप्रायवत इति गाथार्थः ॥४१।। गतं यथा जायत इति द्वारम्, अधुना चतुर्थं दोषद्वारमुच्यते
जे पुण करंति विरई अदिन्नदाणस्स नेह लोहिल्ला । ते मंडियविजया इव चोरा पावेंति दुक्खाइं ॥४२॥ ये पुनः, प्राणिन इति शेष:, 'कुर्वन्ति' विदधति 'विरति निवृत्तिं 'अदत्तादानस्य' अवितीर्णग्रहणस्य चौर्यस्येतियावत् 'ने' ति निषेधे
॥१०९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org