________________
अतिचारा
नवपट- वत्तिमदेव वृ. यशो ॥१०६॥
चक्षुर्विकल इव ‘सचक्षुषं' विद्यमाननेत्रं, सशब्दस्य विद्यमानार्थस्य ग्रहणं, यथा सलोमको, विद्यमानलोमक इत्यर्थः, ततोऽप्ययमत्र भावार्थ:- यथाऽन्धश्चक्षुष्मन्तं पुरतो विधाय गमनादि करोति, एवं श्राद्धो बुद्धि पूर्व कृत्वा भाषते, कोऽर्थः ? -प्रेक्षापूर्वकारी मत्या पर्यालोच्य भाषत इत्यर्थः, किं कुर्वन् भाषते ? इत्याह-'आत्मनि' स्वस्मिन् 'परस्मिन्' अन्यत्र, चशब्द: पूर्वापेक्षया समुच्चये, 'वर्जयन्' परिहरन् ‘पीडां' बाधां, न केवलं स्वपरयोः प्रत्येकं, किन्तु 'उभओऽवि'त्ति उभयोरपि समुदितयोरितियावत्, तत्र स्वपीडाजनकं यथा पिङ्गलस्थपते: खानितसर:सलिलस्थैर्यार्थिनृपतिप्रश्नानन्तरकथितात्म-सदृशपुरुषबलिदानप्रतिवचनं, तद्धि तथाविधान्यपुरुषाप्राप्तौ स्ववधाय तस्य जातमिति स्वपीडाजनकं, परपीडाजनकं कस्यचिच्चौरोऽयं यातीति वचनं, तद्धि नगरारक्षकादिना श्रुतं तद्वधाय भवतीति परपीडाहेतुः उभयपीडाजनकमप्येतदेव, यतस्तद्वचनश्रवणसमुपजातकोपात् कदाचित्तं हन्यादपि, नगरारक्षकादिश्च चौरादिकमित्युभयपीडाजनकमिति गाथार्थः ।। उक्तं यतनाद्वारमधुनाऽतीचारद्वारमभिधीयते
सहसा अभक्खाणं रहसं च सदारमंतभेयं च । मोसुवएसं तह कूडलेहकरणं च वज्जेज्जा ॥३६॥
इह गृहीतस्थूलमृषावादविरतिः श्रर्वक सहसा' अनालोच्य अभ्याख्यानं' असद्दोषाध्यारोपणं, यथा चौरस्तवं पारदारिको वेत्यादि, सहसाऽभ्याख्यानं, तद्वर्जयेदिति तुर्यपादान्तेन संबन्धः, तथा 'रहसं च' त्ति चशब्देन अभ्याख्यानशब्दस्य सम्बन्धाद्रहोऽभ्याख्यानं च, तत्र रह:एकान्तस्तत्र तेन वा अभ्याख्यानं रहोऽभ्याख्यानं, एतदुक्तं भवति-रहसि मन्त्रयमाणानभिधत्ते-एते हीदं चेदं च राजविरुद्धादिकं मन्त्रयन्ते, तथा 'स्वदारमन्त्रभेदं च' स्वकलत्रविश्रब्धभाषितान्यकथनं, दारग्रहणं चेह मित्रायुपलक्षणार्थ, 'च:' समुच्चये, तथा 'मोसुवएसं' ति मृषा-अलीकं तद्विषय उपदेशो मृषोपदेशः, त्वमिदमेवं च ब्रूहीत्याद्यसत्याभिधानशिक्षणं, तथा कूटलेखानां' असद्भूतार्थसूचकाक्षरलेखनानां करणं-विधानं कूटलेखकरणं तच्च ‘वर्जयेत्' परिहरेद्, यत एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति । नन्वाद्यातिचार एवैक आस्तां द्वितीयाभिधानमनर्थकम्, अभ्याख्यानस्यो भयत्राप्यविशेषात्, सत्यं किन्तु रहोऽभ्याख्यानमेकान्तनिमित्तवितर्कमात्रपूर्वकं संभाव्यमानाभ्याख्येयार्थाभिधानम्, इतरत्त्ववितर्कपूर्वमेवेति विशेषः, नन्वभ्याख्यानमसदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव, न त्वतिचार: इति, सत्यं, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सङ्क्लेशाभावेन व्रतानपेक्षत्वाभावान व्रतभङ्गः, परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपतयाऽतिचारः, यदा पुनस्तीव्रसङ्क्लेशादभ्याख्याति |
For Persona 5 Private Use Only
१०६।।
JainEDIA
bnational
walpamorary.org