________________
नवपद
वृत्ति: मू. देव. वृ. यशो
॥१०५॥
बालिशो लोकः । क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥१॥" ततो हृष्टा पर्वतकमाता, समं पुत्रेण निर्गता भवनात्, जातः सर्वनगर्यां जनप्रवादो यथा नारदपर्वतकयोर्महावादो राज्ञोऽग्रे प्रातर्भविष्यति, ततो राजा द्वितीयदिवसे संपूर्णमास्थानं दत्त्वा नारदपर्वतकावाकारितवान् तावपि सपरिवारौ समायातौ, उपविष्टौ च दत्तोपवेशनको उचितस्थाने, मिलिताश्च मन्त्रिमहामन्त्रिसामन्तप्रमुखा राजलोकाः, आयाताश्चानेके वेदविचक्षणाः, ततस्तेषु निजनिजस्थानोपविष्टेषु दिक्पालानां देवतानां चाघोषणां कृत्वा भणितं मध्यस्थपुरुषैर्नृपसम्मुखं देव ! नारदपर्वतकाभ्यां व्यवहारे त्वं प्रमाणीकृतस्तदिदानीं भवद्भिस्तत्सत्यं वक्तव्यं येन न प्रभवन्ति नदीवेगाः न छलन्ति शाकिनीभूतादयः वशीभवन्ति देवाः न दहति वैश्वानरः, सर्वथा यथा क्षीरकदम्बोपाध्यायेन व्याख्यातं तथा कथयन्तु भवन्तः, वसुराजेन भणितं नाहमलीकं भणामि, यतः सत्यवादित्वेनैवास्थानावसरमाकाशे करोमि, तस्मान्माऽत्र शङ्का कदाचित्कृथाः, यदुत वसुराजोऽसत्यवादीत्यभिधाय अजाः छागा यागविधाने क्षीरकदम्बोपाध्यायेन व्याख्याता इत्येवं मम स्मृतिः, ततोऽत्रान्तरे तस्य कुलदेवता कोपमुपगता सती चिन्तयामास अहह ! कथमनेन पापेन असत्यसन्धिना व्यलीकप्रतिपादनकलङ्केन कलङ्कितो निर्मलोऽपि निजवंशः, तद्दर्शयाम्येतस्येदानीं पापफलमिति विचिन्त्य तथा हतो यथा सिंहासनान्निपतितमात्र एव निधनमुपगतः, ततो लोकेन वसुराजस्य तथाविधामवस्थामवलोक्य पर्वतकोऽपि धिक्कारितः, नारदश्च सुरासुरगन्धर्वादिभिः संपूजितो, लोकसकाशात्परां श्लाघां प्राप्त इत्येवमनृतभाषणे दोष:, सत्यप्रतिपादने गुण:, . इत्येकेनाप्याख्यानकेन दोषगुणलक्षणद्वारद्वयं व्याख्यातमवगन्तव्यं, तथाहि गुणद्वारेऽपि सूत्रकृता नारद एव दृष्टान्तीकृतः, तथा
च सूत्रम्
जे मिउ सच्चं जंपंति निउणयं सव्वसत्तहियजणयं । ते इह पुज्जा रिसिनारयव्व सुगडं पुणो जंति ॥ ३४ ॥ 'ये' प्राणिनः 'मृदु' कोमलं 'सत्यं' अवितथं जनपदादिभेदवत् 'जल्पन्ति' भाषन्ते 'निपुणं' सुपर्यालोचितं 'सर्वसत्त्वहितजनकं ' समस्तप्राणिसुखप्रापकं 'ते' प्राणिनः 'इह' मनुष्यजन्मनि 'पूज्याः' अर्ध्या ऋषिनारदवत् 'सुगतिं' स्वर्गादिलक्षणां, पुनः शब्दो विशेषणार्थ:, स च परलोक इति विशिनष्टि, 'यान्ति' गच्छन्तीत्यक्षरार्थः ॥ भावार्थस्तु कथानकेनैवोक्त इति ।। अधुना षष्ठं यतनाद्वारमुच्यते
बुद्धिं पुव्वं काऊण भासए अंधगोविव सचक्खुं । अप्पाणम्मि परम्मि य वज्जंतो पीडमुभओवि ॥ ३५॥ 'बुद्धि' मति 'पूर्वं' अग्रे 'कुत्वा' विधाय 'भाषते' वक्ति, गृहीतस्थूलमृषावादविरतिः श्रावक इति गम्यते, 'अन्धक इव'
For Personal & Private Use Only
Jain Education International
॥ १०५ ॥
www.jainelibrary.org