________________
नवपद
वृत्ति: मू. देव. वृ. यशो
॥ १०४ ॥
सह तेन लुब्धकेन जनप्रसिद्धिपरिहारेच्छया प्रच्छन्नमेव व्यापादितवान्, तस्मिंश्च प्रदेशे न केचन प्रवेशं लभन्ते, ततो राजा सिंहासनोपविष्ट आकाशस्थ इव ज्ञायते, ततो राज्यान्तरेष्वप्येवं प्रसिद्धिरभूद्, यथा वसुराज आस्थानमाकाशगतो विदधाति सत्यप्रभावेन, नारदोऽपि तस्य सहाध्यायी स्वगृहं गतोऽनेकेषां छात्राणां व्याख्यानं करोति श्रावकधर्मं चानुपालयति, पर्वतकस्तु तत्रैव स्वशिष्येभ्योऽनेकेभ्यो वेदान् व्याख्यानयति, अन्यदा च नारदः स्वशिष्यपरिवारो गुरुभ्रातृस्नेहेन पर्वतकं द्रष्टुं तत्रैव समायातः, हर्षवशोद्भिन्नबहुलरोमाञ्चश्च प्रविष्टस्तद्गृहं दृष्टः पर्वतकेन कृता आसनदानादिका प्रतिपत्तिः, पृष्टा परस्परं सुखदुःखवार्त्ता, स्थित्वा च कियन्तमपि कालमुक्तं नारदेन भ्रातः ! क्रियतां व्याख्यानं, मा विमुखीक्रियन्तामिमे शिष्याः, न ह्यनध्यायायाहमायातः, तत: पर्वतको यद् वेदेषु यागविधानेऽर्द्धव्याख्यानमुक्तवान् तद्व्याख्यातुमारब्धः, तत्र चेदं सूत्रम् - "अजैर्यष्टव्यं" अस्य व्याख्याअजाः - छागास्तैर्यष्टव्यं यागः करणीय इति, अत्रान्तरे नारदेन भणितं मैवं वोचः, यागविधाने हि वर्षत्रयपर्युषिता व्रीह्मादयो न जायन्ते न रोहन्तीतिकृत्वाऽजा भण्यन्ते, तैर्यष्टव्यं, न तु छागैः, ततश्च तयोरुत्तरप्रत्युत्तरेण महान् विवादो जातः, तस्मिंश्च सति ताभ्यामुक्तं यथाऽस्माकं वसुराजस्तृतीयः सहाध्यायी बभूव सोऽत्रार्थे प्रमाणं, केवलं यो जेतव्यस्तस्य जिह्वाछेदो विधातव्यः, एवं प्रतिज्ञायां विहितायां नारदः समुत्थाय स्वच्छात्रपरिवारः स्वावासं गतः, पर्वतकोऽपि स्वकीयश्रोतॄन् विसृज्य मातृसमीपं गत्वा नारदवृत्तान्तं निवेदितवान्, ततस्तयाऽवादि - यथा नारदेन व्याख्यातं तथा तव पित्राऽपि एवं मम स्मृतिः, ततस्तेनोदितं यद्येवं भवतु मम जिह्वाच्छेदः, तयोक्तं वत्स ! मोत्सुको भूः, त्वया हि राजा प्रमाणमादृत आस्ते, अतस्तमेवोपसर्पामः, मा कदाचिदुपरोधवशीकृतो नृपतिस्त्वत्पक्षमपि पूरयति, एवमुक्त्वा गता सा सपुत्रा नृपसमीपं प्राप्ता दौवारिकभूमि, निवेदितं द्वारपालेन राज्ञः, यथा -देव ! उपाध्यायी पर्वतकश्च त्वां द्रष्टुमिच्छतः राज्ञोक्तं-प्रवेशय शीघ्रं असावपि यथाऽऽज्ञापयति देव इत्यभिधाय प्रवेशितवान्, ततो राज्ञा उपाध्यायीं पर्वतकं च प्रति कृतमभिवादनं, ताभ्यामप्युक्त आशीर्वादः, राज्ञाऽपि दापिते उपवेशनके भणितं प्रभूतकालादस्माकं स्मृतं किमम्बायाः प्रयोजनं मया ?, दीयतामादेशः, ततस्तयोक्तं व्याक्षेपबहुलतयैतावन्ति दिनानि भवद्भिः सह दर्शनं न कृतं यच्च कार्यं पुष्टं वत्सेन तत्पुनरेकान्ते भणनीयं ततो राज्ञा तद्वचनानन्तरमेव शीघ्रमुत्सारितः सकलो लोकः साऽपि पर्वतकं समीप एवं विधाय कथितवती नारदवृत्तान्तं जिह्वाच्छेदप्रतिज्ञावसानं, तदिदानीं कृत्यमकृत्यं च यदहं भणामि तदवश्यं त्वयाऽभ्युपगन्तव्यमिति, किं बहुना ?, यथा मम पुत्रो न जीयते तथा कर्त्तव्यं, ततस्तदुपरोधेन प्रतिपन्नं राज्ञा, अथवा कर्णविषं महाविषमेतत्, अपरिणतसत्तत्त्वामृतस्य कां न विडम्बनामुपजनयति ?, तदुक्तम्- "कर्णविषेण च भग्नः किं किं न करोति
For Personal & Private Use Only
Jain Educaernational
वसुराज कथा
।। १०४ ।।
1 [brary.org