________________
नवपदवृत्ति: मू.देव. वृ. यशो ॥१०३॥
परलोक इति गम्यते, तदुक्तम्-''मूका जडाश्च विकलाः, वाग्धीना वाग्जुगुप्सिताः । पूतिगन्धिमुखाश्चैव, जायन्तेऽनृतभाषकाः ॥१॥" नन्वयं परलोके दोषः, इहलोके तस्य किं भवति ? इत्याह-'जायते' भवति च तथा तस्येह लोक इति शेष: 'निधनं' क्षयः, वसुराजा 'अत्र' अनृते 'उदाहरणं' दृष्टान्त इति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्यस्तच्चेदम्
इहैव जम्बूद्वीपे भारतवर्षालङ्कारभूत: सूरसेनाभिधो देशः, तत्र मूर्त्तिमती नगरी, तस्यां हरिवंशगगनमण्डलमण्डनं सौम्यत्वकान्तिमत्त्वादिगुणसमुदयसमुपहसितचन्द्रोऽभिचन्द्रो राजा, तस्य पुत्रो वसुकुमारः, स चान्यदा विद्याग्रहणयोग्य इति मत्वा तन्नगरीवास्तव्यस्यैव क्षीरकदम्बकाभिधानोपाध्यायस्य सत्कारपूर्वकं समर्पितः, इतश्च तत्पुत्रः पर्वतको नारदश्च छात्रस्तदैव तत्पाद्यं पठितुमुपस्थितौ, ततस्तांस्त्रीनप्यसौ वेदमध्यापयितुं प्रवृत्तः, अन्यदा चाकाशचारिणौ साधू गच्छन्तौ तान् पठत: समालोक्यैकेन साधुना द्वितीयस्य कथितं-यथा य इमे वेदमधीयन्ते एतेषां द्वावधोगामिनावेक ऊर्ध्वगामीति, एतच्च क्षीरकदम्बकोपाध्यायेन श्रुतं, साधू च तद्वदन्तावेवादर्शनीभूतौ, उपाध्यायस्त्वधृत्या महत्या गृहीत:, चिन्तयति च-यथा मयैते वेदार्थज्ञाः कृता:, अन्यसकलशास्त्रविदश्च, अनेनाभिसन्धिना यथाऽमी अवगताशेषशास्त्ररहस्याः शास्त्रोदितानुष्ठानासेवनपूर्वकं परमपदमाराधयिष्यन्ति, यावदास्तां तत्, प्रत्युताधोगामिनौ द्वावेतेषां भविष्यतः, न च साधुवचनं मृषा, तदहो पश्यान्यथैव चिन्त्यन्ते पुरुषार्थाः पुरुषेण अन्यथा च भवन्ति, तदहमपि यावज्जराजर्जरितवपुः सकलपुरुषार्थनिर्वर्तनापटिष्टो न भवामि तावत्स्वहितमाचरामीति विचिन्त्य संसारविरक्तचित्तस्तथाविधाचार्यसमीपे प्रव्रज्यां प्रतिपेदे, उग्रतपश्चरणरतश्च कञ्चित्कालं भूत्वा लोकालोकप्रकाशनप्रत्यलं दिव्यं केवलज्ञानमुत्पाद्य नि:शेषकर्मकलङ्कविकलो मोक्ष प्राप्तः । वसुश्चाभिचन्द्रेण राज्ञा स्वराज्येऽभिषिक्तः, स्वयं च निष्क्रान्तः । ततो वसुराजा स्तोककालेनैवाप्रतिहतशासनो जातः । इतश्च अन्यदा मृगयागतेन लुब्धकेन केनचिन्नातिदूरवर्त्तिनं मृगमालोक्य कर्णान्ताकृष्टकोदण्डेन मुक्तो बाणो यावदसावग्रतः प्रतिस्खलिन: सम्मुखमेव समायातः, ततस्तेन चिन्तितं-किमेतदिति, यावदने गत्वाऽवलोकयति ताावदवगतं स्फाटिकशिलेति, ततोऽद्भुतं रत्नमेषा खलु शिला, एतदन्तरितमृगविप्रलब्धबुद्धिना हि मया बाणप्रेरणप्रयासो विहितः, इशरत्नानां च नृपतिरेव योग्य इत्यतो राज्ञो निवेदयामि येन विशिष्टरत्नदर्शनतुष्टो महाप्रसादं विदधातीति विचिन्त्याभिज्ञानं स किञ्चिद्विधाय गतो ॥१०३ वसुराजसमीपं, कथित: शिलावृत्तान्तः, ततोऽसौ तामानाय्यं प्रच्छन्नं प्रधानवैज्ञानिकै: सिंहासनं कारयित्वाऽऽस्थानमण्डपे न्यवीविशत्-तांश्च वैज्ञानिकान् .
Jain Educa M
ernational
For Personal & Private Use Only
www
brary.org