SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥९९॥ “एगवए छब्भंगा निद्दिठा सावयाण जे सुत्ते । ते च्चिय पयवुड्डीए सत्तगुणा छज्जुया कमसो ॥१॥" त्ति गाथातो बोद्धव्यः, तथाहिप्राणातिपाताख्ये एकस्मिन् व्रते ये द्विविधत्रिविधादय: षड् भङ्गास्ते च सप्तकेन ताडिता: षड्युताश्चोक्तसङ्ख्यां पूरयन्ति, यत:-षट् सप्तगुणा: षड्युताश्चाष्टचत्वारिंशद्भवन्ति ४८, इयं च सप्तगुणा षड्युता त्रीणि शतानि द्विचत्वारिंशदधिकानि ३४२, एतानि च सप्तगुणानि षड्युतानि चतुर्विंशतिशतानि २४००, एतान्यपि सप्तगुणानि षडधिकानि षोडश सहस्राण्यष्टौ शतानि षडुत्तराणि १६८०६ । अथवा प्रकारान्तरं कथ्यते प्राणातिपातादीनां पञ्चानां पदानामेकसंयोगेन पञ्च ५ द्विकसंयोगेन दश १० त्रिकसंयोगेन दश १० चतुष्कसंयोगेन पञ्च ५ पञ्चकयोगेनैक: १, तथा चोक्तम्- "पंचण्हणुव्वयाणं एक्कगदुगतिगचउक्कपणगेहि। पंच य दस दस पणगेक्कगो य संयोग नायव्वा ॥१॥" संयोगानयनोपायश्चायम्"उभयमुहं रासिदुगं हेट्ठिल्लानंतरेण भय पढमं । लद्धहरासिविहत्ते, तस्सुवरि गुणं तु संजोगा ॥१॥' अस्या भावार्थ:-उभयमुखम्उपर्यधोभावेन राशिद्वयं, द्वितीयपक्तावित्थं स्थापयित्वाऽधस्त्यराशेर-११३३७ त्यानन्तरो योऽडो द्विकस्तेनोपरितनराशेरन्तस्य पञ्चकस्य भागे हते जातं सार्द्धद्वयं ॥२॥ लब्धं च पुनरुपरितनाङ्केन चतुष्केन गुणितं जातं दश १०, द्विकसंयोगसङ्ख्येयं, एवमन्येऽपि संयोगा आनेतव्याः, नवरमुपरितनराशावागतदशाद्यङ्कस्यैवाधस्त्यराशित्रिकादिना भागहारादि कर्तव्यं, अथवा पञ्चानां पदानामेकसंयोगे प्रत्येकं पञ्च ५, द्विकसंयोगे दश, ते चैवं-प्रथमद्वितीयप्रथमतृतीयप्रथमचतुर्थप्रथमपञ्चमचारणया चत्वारः ४ द्वितीयतृतीयद्वितीयचतुर्थद्वितीय-पञ्चमचारणया त्रय: ३ तृतीयचतुर्थतृतीयपञ्चमचारणया द्वौर चतुर्थपञ्चमचारणया त्वेकः, सर्वे दश १० । एवं त्रिकादिसंयोगचारणाऽपि कर्तव्या, तथा चोक्तम्-“अहवा पयाणि ठविउं, अक्खे घेत्तूण चारणं कुज्जा । एक्कगदुगाइजोगे, भंगाणं संख कायव्वा ॥१॥' ततश्च प्राणातिपातादिपदानि द्विविधत्रिविधादिभिः षड्भि: पदैर्यान् भङ्गान् । लभन्ते ते प्रत्येकं संयोगसंख्यया गुणिता मीलिताश्चोक्तसङ्ख्यां पूरयन्ति, तथाहि-यथा प्राणातिपात: षट् भङ्गानाप्नोति, तथा मृषावादादयोऽपि, इत्येकसंयोगसङ्ख्यया पञ्चलक्षणया षड् गुणितास्त्रिंशत् ३०, तथा प्राणातिपातमृषावादद्विकयोगे यथा षट्त्रिंशत् तथा शेषद्विकयोगेऽपि, अत: षट्त्रिंशत् द्विकसंयोगैर्दशभिर्गुणितास्त्रीणि शतानि षष्ट्यधिकानि ३६० तथा प्राणातिपातमृषावादादत्तादानत्रिकयोगे यथा द्वे शते षोडशोत्तरे २१६ तथा शेषत्रिकयोगेऽप्यतो द्वे शते षोडशोत्तरे त्रिकसंयोगैर्दशभिर्गुणिते एकविंशति: शतानि षष्ट्यधिकानि २१६०, तथा प्राणातिपातादिचतुष्कयोगे यथा द्वादश शतानि षण्णवत्यधिकानि १२९६ एवं शेषचतुष्कयोगेऽपि, अतो द्वादश शतानि षण्णवत्यधिकानि चतुष्कसंयोगैः पञ्चभिर्गुणितानि ॥१९॥ Jain EducatA nabonal For Personal & Private Use Only wwayamalbrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy