SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥९८॥ कस्मान्न कृतम् ?, अत्रोच्यते, कन्यालीकादीनामतिगर्हितत्वेन रूढत्वात्, न्यासापहारस्य च स्तेयस्वरूपस्याप्यपलापरूपतया मृषावादत्वादिहोपादानं पूर्वादिकेभ्यो भेदश्च कूटसाक्ष्यं तत् क्रोधमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति-यथाऽस्याहमत्र साक्षी, अस्य चान्यपाप-समर्थकत्वलक्षणं विशेषमाश्रित्य पूर्वेभ्यो भेद इति गाथार्थः ||३१|| व्याख्यातं भेदद्वारमधुना यथा जायत इत्येतदुच्यते दुगतिग दुग दुग दुग एक्कगेण एगेण होइ तिविहं तु । इग दुग इग एक्केणं वयाण एसेव गहणविही ॥ ३२ ॥ अस्या भावार्थ:-इह व्रतं प्रतिपित्सुः कोऽपि किञ्चित्प्रतिपद्यते, श्रावकव्रतप्रतिपत्तेर्बहुभङ्गत्वात्, तत् तदुल्लेखदर्शनार्थमियं गाथा, तत्र 'दुगतिग'त्ति द्विविधत्रिविधेन-करणकारणमनोवाक्कायस्वरूपेणैको भङ्गः सूचितः, श्रावकस्य सर्वत्रानुमतेरप्रतिषेधात्, यश्च भगवत्यां त्रिविधंत्रिविधेनेत्ययमपि भङ्गो भणितः स विषयविभागेन कस्यचिच्छ्रावकस्य कस्याञ्चिदवस्थायां क्वचिद्वस्तुनि कस्मिंश्चित्क्षेत्रादौ विज्ञेयो न सर्वत्र, भङ्गाभिलापश्चैवं न करोमि न | कारयामि मनसा वाचा कायेनेति, 'दुगदुग' ति द्विविधं द्विविधेन भङ्गत्रयं सूचितं पूर्वोक्तादेव हेतो:, एवमुत्तरत्रापि हेतुभाव्यः, उच्चारणं चेत्थं न करोमि न कारयामि मनसा वाचा १ मनसा कायेन २ वाचा कायेन ३ । 'दुगएक्कगेणं' ति अनेनापि त्रयो भङ्गाः, तदुक्तिश्चैवं न करोमि न कारयामि मनसा १ वाचा २ कायेन ३। 'एक्केण होइ तिविहं' तीत्यनेन द्वौ तौ चेमौ न करोमि मनोवाक्कायैः १ न कारयामि मनोवाक्कायैः २ । 'इगदुगे' त्यनेन तु षड् भङ्गाः, ते चेमे-न करोमि मनसा वाचा १ न करोमि मनसा कायेन २ न करोमि वाचा कायेन त्रयः ३, एवं न कारयामीत्यनेनापि त्रयः ३, सर्वे षट् 'एग इक्केणमित्यनेनापि षट्, ते च न करोमि मनसा १ वाचा २ कायेन ३, एवं न कारयामीत्यनेनापि त्रयः सर्वे षट्, षण्णामपि पदानां सर्वसङ्ख्या २१, तथा चोक्तं- “दुविहतिविहाइ छच्च उ तेसि भेया कमेणिमे हुति । पढमेक्के दुन्नि तिया दुगेग दो छच्च इगवीसा || १ || ” एषां च स्थापनाइते चोत्तरगुणाविरतसहिता अष्ट, तथा च निर्युक्तिकार : - "दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविणं, एगविहं चेव तिविहेणं ॥ १ ॥ एगविहं दुविहेणं एक्केक्कविहेण छट्टओ होइ । उत्तरगुण सत्तमओ अविरओ चेव अट्ठमओ || २ ||" अस्यैव च षट्कस्याणुव्रतपञ्चकैकादिसंयोगापेक्षया षोडश सहस्राणि अष्टौ शतानि षडुत्तराणि भङ्गानां भवन्ति, तदानयनोपायश्च 550000 For Personal & Private Use Only Jain Educaernational विधान द्वारम् गा. ३२ ॥ ९८ ॥ library.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy