SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ नवपद अणभूयं उब्भावइ, हूयं निण्हवइ तह य विवरीयं । गरिहा सावज्जं वा अलियं एमाइरूवं तु ॥३०॥ वृत्तिःमू.देव. 'अणहूयं' ति प्राकृतत्वाद् ‘अभूतं' असत्यं तद् ‘उद्भावयति' प्रकाशयति यदिति गम्यं, यथा श्यामाकतन्दुलमात्र आत्मा ललाटस्थो वृ. यशो हृदयस्थ: सर्वव्यापी वेत्यादि, असत्यत्वं चैतद्वचसामनुभवबाधितत्वात्, तथाहि-एतावन्मात्रत्वे आत्मन: सकलशरीराधारसुखदुःखाद्यनुभवो न भवेदिति ॥९७॥ सूक्ष्मधिया भावनीयं, सर्वव्यापित्वे शरीराबहिरपि चैतन्यमनभूयेतेत्यादि दोषजातं ग्रन्थान्तरत: परिभाव्यम्, एवं-“एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" इत्याद्यप्यभूतम्, एकात्मत्वे ह्येकस्य सुखदुःखबन्धमोक्षादिसद्भावे सर्वस्य तत्प्रसङ्गादिति, तथा 'भूतं' सत्यं तन्निह्ववते यदिति दृश्यं, यथा नास्त्यात्मा नास्ति परलोक इत्यादि, तथा विपरीतम्-अन्यथा यद्बवीतीति शेष:, यथा बलीवर्दोऽश्चादिरिति, अथवा यथा बौद्धाः प्राहु:-क्षणक्षयि ज्ञानमेवात्मा, साङ्ख्या वा नित्यैकस्वरूप इति, 'गरिहं' ति गाँ-निन्दां यक्तरोतीति गम्यं, यथा काण: कुब्जो दासस्त्वमित्यादि, ‘सावा' सपापं यद्वदतीत्यध्याहारः, यथा दम्यन्तां गोरथका इत्यादि, वाशब्दः समुच्चये, ‘अलीकं' अनृतमेवमादिरूपं तद्भवतीत्यध्याहृतक्रियया सम्बन्धः, उक्तञ्च-"यद् भावदोषवद् वाक्यं, तत्त्वादन्यत्र वर्त्तते । सावधं वाऽपि यद्वाक्यं - तत्सर्वमनृतं विदुः ॥१॥" तथा आदिशब्दाद्यदात्मपरोभयेषां सङ्क्लेशोपघातादिहेतुस्तदनृतमिति गाथार्थः ॥३०॥ उक्तं यादृशद्वारं, भेदद्वारमधुनोच्यते कण्णागोभूमालियनासवहारं च कूडसक्खेज्जं । भेया य तस्स पंच उ हवंति एए जिणुद्दिट्ठा ॥३१॥ कन्या च-कुमारी गौश्च-बहुला भुमिश्च-भूरिति द्वन्द्वस्तासु विषयेऽलीकम्-अनृतं कन्यागोभूम्यलीकं, इहालीकशब्दस्य ह्रस्वत्वश्रुति: प्राकृतशैल्या, तच्च तथा न्यस्यते-निक्षिप्यते रक्षणायान्यपार्थे ध्रियत इति न्यासो-निक्षेपकस्तस्यापहरणमपहारश्च-अपलपनमिति पुन: समाहारद्वन्द्वः, एते चत्वारो भेदाः, K'च:' समुच्चये भिन्नक्रम: तेन 'कूटसाक्ष्य' च व्यंसकसभ्यत्वमिति पञ्चमः, अत एवाह-'भेदाः' प्रकाश: च: पूरणे 'तस्य' मृषावादस्य ‘पञ्च' ति पञ्चसङ्ख्या: तुशब्दैवकारार्थत्वात्पञ्चैव भवन्ति' स्युः ‘एते' कन्यालीकादय: 'जिनोद्दिष्टाः' जिनै:-वीतरागैरुद्दिष्टा:-कथिता इति । तत्र कन्यालीकमभिन्नकन्यां भिन्नकन्यां वक्ति विपर्ययं वा, इदं च सर्वकुमारादिद्विपदविषयालीकोपलक्षणं, गवालीकं त्वल्पक्षीरां गां बहुक्षीरां विपर्ययं वा वदति, इदमपि सर्वचतुष्पदविषयालीकोपलक्षणं, भूम्यलीकं परसक्तामप्यात्मादिसक्तां भुवं व्रते विपर्ययं वा, एतच्च शेषापदद्रव्यविषयालीकोपलक्षणं, यद्येवं द्विपदचतुष्पदापदग्रहणमेव पानाप्यत ॥९७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy