________________
नवपद
वृत्तिःमू.देव. व. यशो KA ॥१६॥
पाणतिपाते भावना मृषास्वरूपं गा.२८/ २९
भिन्नव्रतरूपतापत्तेः, सत्यं, प्राणातिपाते प्रत्याख्याते बन्धादयोऽपि प्रत्याख्याताः, तदुपायत्वात्तेषां, न हि कारणनिवृत्तिमन्तरेण कार्यनिरोध: कर्तुं शक्य:, अत आकुट्टिकया बन्धादिविधानेऽपि भङ्ग इति, यच्चोक्तम् 'अथ तेऽपि प्रत्याख्याता' इत्यादि, तच्चायुक्तमेव, विशुद्धहिंसाविरतिसद्भावे तत्संभवस्यैवाभावात्, यद्येवं कथं प्राक्तनद्वारेऽमीषामतिचारत्वमुक्तं?, सत्यमुक्तं, किन्तु विवक्षया, तथाहि-यदा मारयामीति सङ्कल्पाभावेऽपि कोपादिविवश: परप्राणप्रहाणमवगणयन् बन्धाधारभते तदा निष्करुणतया व्रतानपेक्षस्य देशेन विरतिभङ्गो, न सर्वात्मना, तथा प्रवृत्तस्याप्यग्रे प्राणातिपातासिद्धेस्तो भङ्गाभङ्गरूपविक्क्षयाऽतिचारत्वममीषामुक्तं, तदुक्तं-"न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन्, करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१॥ मृत्योरभावानियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥२॥” इति गाथार्थः ।।२८।। . उक्तं भङ्गद्वारमधुना भावनाद्वारं निगद्यते
पणमामि अहं निच्चं आरंभविवज्जिआण विमलाणं । सव्वजगजीवरक्खणसमुज्जयाणं मुणिगणाणं ॥२९॥
इह प्रतिपन्नप्रथमाणुव्रतेन श्रावकेण त्रिकालमप्येवं चिन्तनीयं, यथा 'प्रणमामि' प्रणिपतामि नमस्करोमीतियावत् अहमित्यात्मनिर्देशे 'नित्यं' सदा 'मुनिगणेभ्यः' साधुवृन्देभ्य इत्युत्तरेण सम्बन्धः, पष्ठ्याश्चतुर्थ्यर्थत्वाद्, यदुक्तं-'छट्ठी विभत्ती' भन्नइ चउत्थी' सा च प्रणमामीति क्रियायोगे, यथा-"तस्मै तत्त्वविदां वराय जगतः शास्त्रे प्रणम्ये 'ति, कीदृशेम्यः ? इत्याह-आरम्भविवर्जितेभ्यः, प्राकृतत्वात् क्तान्तस्य परनिपातः, विवर्जितः-त्यक्त आरम्भः-पृथिव्यायुपमर्दो यैस्ते तथा तेभ्यः, अत एव विगतो मलो-भावत: क्रोधादिरूपो येभ्यस्ते विमलास्तेभ्यः, विवर्जितारम्भत्वस्यैव विशेषणद्वारेण हेतुमाह- जगति' लोके 'जीवाः' सूक्ष्मबादरादिभेदभिन्ना एकेन्द्रियादिपञ्चेन्द्रियान्ताश्चतुर्दश, यदुक्तम्-“एगिदिय सुहुमियरा सन्नियर पणिदिया य सबितिचऊ । पज्जत्तापज्जत्ता भएणं चोद्दसग्गामा ॥१७॥" जगज्जीवा: सर्वे च ते जगज्जीवाश्च सर्वजगज्जीवास्तेषां रक्षणंपालनं तत्र सम्यक्-सिद्धान्तोक्तविधिना उद्यता-उद्युक्ताः सर्वजगज्जीवरक्षणसमुद्यतास्तेभ्यः, विशेषणसाफल्यं च हेतुहेतुमद्भावेन भावनीयं, तथाहिरक्षायामनुयुक्ता नारम्भं त्यजन्ति न चात्यक्तारम्भा निर्मला भवन्तीति गाथार्थः ।।२९।।
उक्तं नवभेदमपि प्रथमाणुव्रतमिदानी द्वितीयस्यावसरस्तदपि नवभेदमतः प्रथमभेदेन तावदाहa tional
॥१६॥
Jain Educ
For Personal Private Use Only
Alibrary.org