________________
ब
छविछेदोऽप्येव प्रथममेव भीतपर्षदा श्रावकेण भवितव्यदाः श्रावकेण संग्राहाती वा चौरो वा पाठादिप्रयत
कुर्यादित्यपवादः, अन्यथा करणे तु न प्रतिषेध इति भावः, अत्र चायमावश्यकचूायुक्तो विधि:-बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यर्थायानर्थायी नवपद
वा , तत्रानर्थाय तावदसावविधेय एव, अर्थाय त्वसौ द्विविध:- सापेक्षोऽनपेक्षश्च, तत्रानपेक्षो नाम यनिश्चलमतीव बध्यते, सापेक्षस्तु दामग्रन्थिना, यश्च त. यशो
प्रदीपनकादिषु विमोचयितुं छेत्तुं वा शक्यते, एवं तावच्चतुष्पदानां बन्धः, द्विपदानां तु दासो वा दासी वा चौरो वा पाठादिप्रमत्तपुत्रादिर्वा यदि बध्यते ॥९५॥
K तदाऽनागाढं बन्धनीयो, रक्षणीयश्च प्रदीपनादितः, तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्राह्या येऽबद्वा एवासत इति, वधोऽपि तथैव, नवरं
निरपेक्षवधो-निर्दयताडना, सापेक्ष: पुनरेवं-प्रथममेव भीतपर्षदा श्रावकेण भवितव्यं, यदि पुनर्न करोति कोऽप्याज्ञां तदा मर्म मुक्त्वा लतया दवरकेण वा
सकृविर्वा ताडयेदिति, छविछेदोऽप्येवं, नवरं निरपेक्षो हस्तपादकर्णादि यनिर्दयं छिनत्ति, सापेक्ष: पुनर्यद्गण्डादिकं छिन्द्याद्दहेद्वेति, तथाऽतिभारो KA | नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न स्यात्तदा द्विपदो यं भारं स्वयमुत्क्षिपति उत्तारयति च तं K वाह्यते, चतुष्पदस्य तु यथोचितभाराक्तिञ्चिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति, तथा भक्तपाननिरोधो इति, तथा &
भक्तपाननिरोधोऽप्यर्थानादिभेदो बन्धवदृष्टव्यः, निरपेक्षो निर्दयं भक्तपाननिरोधो न कस्यचिद्विधेयो, मा भूत्तीक्ष्णबुभुक्षितस्य मरणमिति, सापेक्षस्तु । रोगचिकित्सार्थं स्याद्, वाचा वा वदेद्-अद्य ते भोजनादि न दास्यामि, शान्तिनिमित्तं चोपवासं कारयेत्, किं बहुना ?, यथा स्थूलप्राणातिपातविरमणस्यातिचारो । न भवति तथा सर्वत्र यतनया प्रवर्तितव्यं, बन्धादीनां चोपलक्षणत्वान्मन्वतन्त्रप्रयोगादयोऽन्येऽप्यत्रातिचारा दृश्या इति गाथार्थः ।।२७।।
उक्तमतिचारद्वारमधुंना भङ्गद्वारमभिधीयते
बंधाईणि (उ) आउट्टियाइणा जइ करेज्ज तो भंगो। बीयकसायाणुदए तिव्वाणं होइ सङ्घस्स ॥२८॥
बन्ध आदियेषां वधादीनां तानि 'तुः' अवधारणे भिन्नक्रमश्च आकुट्टिका-उपेत्य करणमादिशब्दानिरपेक्षस्य दपदिग्रहस्तेन विरत्यनपेक्षप्रवृत्तिभावेनेतियावत् । यदि कुर्यात्' विदध्यात् तदा भङ्ग एव' विनाश एवेति वक्ष्यमाणेन सम्बन्धः, प्राणातिपातविरतेरिति शेषः, द्वितीया:-सूत्रोक्तक्रमापेक्षया अप्रत्याख्यानावरणास्ते से च ते कषायाश्च, कष्यते-हिस्यते येन यस्मिन् वा प्राणी स कष:-कर्म भवो वा तस्यायो-लाभो येभ्यस्ते कषायाः, तथा चोक्तम्-"कम्मं कसं भवो वा
कसमाओ सिं जओ कसाया ते ।" तेषामुदये-विपाके 'तीव्राणां' उक्तटानां 'भवति' जायते 'श्राद्धस्य' श्रावकस्य देशविरतिभाजः, ननु ॥९५॥ K बन्धादीनामप्रत्याख्यातत्वाक्तथं तक्तरणे भङ्गः?, अथ तेऽपि प्रत्याख्यातास्तर्हि सूत्रोक्तव्रतद्वादशसङ्ख्याविरोध:, एतेषामपि पृथक् प्रत्याख्यातत्वेन
Jain E
M
For Personas Private Use Only
www.jainelibrary.org