________________
नवपद
वृत्ति: मू. देव. वृ. यशो
।। ९४ ।।
पाणाइवाऍ जयणा दारुयधन्नाइउदगविसयाओ । तसजीवे रक्खंतो विहिणा गमणाइयं कुज्जा ॥ २६॥
‘पाणाइवाएँ’त्ति सप्तम्येकवचनान्तत्वेऽपि लघुत्वं 'एओयारा बिंदू पयनिणे हुन्ति लहुयाई' इति प्राकृतलक्षणेन, प्राणातिपातेवधनिवृत्तौ, तायामिति गम्यते, यतना- रागद्वेषरहितोऽशठव्यापारः, तदुक्तम्- "रागद्दोसविउत्तो जोगो असढस्स होइ जयणा उ । रागद्दोसाणुओ जो जोगो सा अजयणा उ || १|| " सा कर्त्तव्या भवतीति शेषः, किंविषया ? इत्याह- 'दारुये' त्यादि, दारूण्येव दारुकाणि-काष्ठानि धान्यंशाल्यादि आदिर्येषां त्रपुषादिफलशाकपत्रादीनां तानि धान्यादीनि उदकं जलमेषां द्वन्द्वे विषयशब्देन बहुव्रीहावेतद्विषयेत्यर्थः, तत्र दारुविषया तावदियमत्थंशुषिरादिकाष्ठपरिहारेण कुठारादिविपाटितस्य दारुणश्चक्षुषा निरीक्ष्य भूमौ प्रस्फोट्य च रन्धनादिनिमित्तमग्नौ प्रक्षेपणं, धान्यादिजलविषया तु कीटसंसक्तादित्यागतः परिमितवस्त्रपूतजलादानादितश्च यथाक्रममवगन्तव्या, एतदेवोपदेशद्वारेणाह 'तसे' त्यादि, त्रस्यन्तीति त्रसा:- त्रसनामकर्मोदयवर्तिनो द्वीन्द्रियादयस्ते च ते जीवास्त्रसजीवास्तान् 'रक्षन्' पालयन् 'विधिना' सिद्धान्तनिर्दिष्टविधानेन गमनं चङ्कमणं तदादिर्यस्यावस्थानादेः तत् 'कुर्यात् विदध्यात् उपलक्षणं चैतत्स्थावराणामपि यथासंभवं रक्षां कुर्वश्चरेद्, यतो यतनाफलम् - "जयणा उ धम्मजणणी, जयणा धम्मस्स | पालणी चेव । तव्वुड्डिकरी जयणा, एगंतसुहावहा जयणा ||१|| जयणाए वट्टमाणो जीवो सम्मत्तनाणचरणाणं । सद्धाबोहासेवणभावेणाराहगो भणिओ || २ ||" इति गाथार्थः ||२६|| व्याख्यातं यतनाद्वारमिदानीमतिचारद्वारमुच्यते
बंधवहछविच्छेयं अइभार णिरोह भत्तपाणेसु । पढमवयस्सऽइयारे, कोहाईहिं ण उ करेज्जा ॥२७॥
बन्धश्च-रज्जुदामकादिभिः संयमनं वधश्च कसादिभिर्हननं छविः - त्वक् तद्योगाच्छरीरमपि छविस्तस्याश्छेदः - असिपुत्रिकादिभिः पाटनं छविच्छेदश्च | बन्धवधच्छविच्छेदमिति समाहारद्वन्द्वः, तन्नैव कुर्यादिति सम्बन्धः, 'बह' त्ति बाधमित्यन्ये, तथा भरणं भारोऽतीव भारोऽतिभारः, अनुस्वारस्य पूर्वलक्षणेन लोपे तं गवादिपृष्ठादौ प्रभूतस्य पूगफलादेर्न कुर्यात्, तथा 'निरोह' त्ति प्राग्वदनुस्वाराभाव:, निरोधनं निरोधः - अदानं तं 'भत्तपाणेसु'त्ति 'बहुवयणेण दुवयण- 'मिति प्राकृतलक्षणेन द्विवचनं, ततो 'भक्तपानयो:' भोजनोदकयोर्विषये निरोधं न विदध्यादित्यर्थः एतान् पञ्च 'प्रथमव्रतस्य' स्थूलप्राणातिपातविरतिरूपस्यातिचारान् अतिक्रमान्-वधविरतिमालिन्यानि, प्राकृतत्वाद्विभक्तिव्यत्ययः, एवं बन्धादीनां सामान्येनाकरणीयत्वोपदेशे सति मा भूत् प्रियपुत्रादेर्विनयग्राहणरोगचिकित्साद्यर्थमप्येतेषामकरणं व्रतमालिन्यभयेनेत्याह-'क्रोधादिभिः क्रोधः- कोप: स आदिर्येषां लोभादीनां तैः क्रोधादिभिर्न
Jain Education Mternational
For Personal & Private Use Only
क्षेमकथा
॥ ९४ ॥
www.jaelibrary.org