________________
विदग्धच्छात्रस्य वारको जातः, तेन चिन्तितं-नेयमतिमुग्धा, किन्तु वैशिकमेतदस्याः, तदहमद्यतनमहोरात्रमस्या गत्यागती विलोकयामीति विचिन्त्य नवपदवृत्ति: मू.देव.
तयाऽलक्षित एव तद्व्यापारं निरीक्षितुमारेभे, यावद्विकालवेलायां घटं गृहीत्वोदकानयनाय नर्मदा प्रति प्रस्थिता, सोऽपि पृष्ठतो लग्नस्तच्चेष्टां व. यशो
विलोकायतुं, साऽपि तत्तीरमासाद्य कक्षाबन्धं विधाय घटमवाङ्मुखं गृहीत्वा तरीतुमारब्धा, सोऽपि तयाऽविज्ञात एव तीक़ परं तीरमापत् क्षणमात्रेण, ॥८७॥
साऽपि परतीरमागत्य तद्देशवर्त्तिन एकस्य तरुणगोपालस्य समीपिं गत्वा चिरं रत्वा तथैवाऽऽयातुमारब्धा, अत्रान्तरे चौरा: कुतोऽपि कुतीर्थादिविभागमनवगच्छन्तो नदीमवतीर्णाः संसुमारेण गृहीताः, ततस्तं नानाविधताडनाभिस्ताडयतोऽपि तेन तानविमुच्यमानानावलोक्य तयोक्तं-यथा भो भद्रा: ! भवन्त: कुतीर्थावतीर्णा: सुंसुमारेण गृहीताः, न चायमेवंविधपृष्ठहननादिभिर्दूरमवसर्पति, किं न श्रुत: सुंसमारग्रहो युष्माभिः ?, तदनमक्ष्णोः कुञ्चत, ततस्तैस्तथा कृते दूरं पलायितोऽसौ, तच्च छात्रेण रात्रिविलसितं सर्वं विज्ञाय काकरक्षणवेलायां विजने जाते-दिवा बिभेषि काकेभ्यो, रात्रौ तरसि नर्मदाम् । कुतीर्थानि च जानासि, नेत्रकुञ्चनकानि च ॥१॥ इति पठता ज्ञावितं तस्याः, ततस्तया विज्ञाताऽहमनेनेति विचिन्त्योक्तं भवादृशविदग्धाप्राप्त्येदमनुष्ठीयते, किं करोमि ? यथा तथा कालयापनां विदधामि, इत: प्रभृति तु त्वमेव मम प्राणनाथ इति गदितः, तेनोदितंआ: ! पापे ! किमुपाध्यायस्यापि न लज्जसे ?, तया चिन्तितं-अस्यैवं वदतोऽयमाशय:- उपाध्याय: कण्टकप्राय आवयोस्तदेनं व्यापादयेति स्वमत्या परिभाव्य रात्रौ सुखप्रसुप्तो व्यापादित: क्षुरिकया, बहूनि खण्डानि कृत्वा क्षिप्तो जरपिटिकायां, परिस्थापनार्थं च विभातप्रायायां रजन्यां पिटिकां मस्तके कृत्वा गताऽटव्यां, परिस्थापनवेलायां च कुलदेवतया मस्तक एव स्तम्भिता पिटिका, ततो लज्जावशानगरमागन्तुमशक्नुवती कतिचिद्दिनानि तत्रैव निनाय, अन्यदा तु बाढं गाढबुभुक्षया दोदूयमाना लज्जां विहाय पत्तनं प्रविष्टा, भिक्षार्थं च गृहे २ ददत भिक्षां पतिमरिकाया । इति प्रलपन्ती रुदती च पीटतुमारब्धा, लज्जादयश्च गुणास्तावदेव प्राणिनां, प्रसन्ति यावबुभुक्षा पिशाचीव नोच्छलति, तथा चोक्तम्-“रूवं । सिरि सोहग्गं, नाणं माणं परक्कमं सत्तं । लज्जा इंदियविसओ, नवरि य एक्का छुहा हणइ ॥१॥" कियताऽपि च कालेन तस्मिन्
कर्मणि क्षयोपशमं गते साध्वी: संमुखीदृष्ट्वा चिन्तितमनया-धन्या: खल्वेता विरक्तकामभोगा या: सर्वसावधनिवृत्तिं गृहीत्वा प्रकृष्टसन्तोषसुखतृप्तास्तिष्ठन्ति, K मया पुनः पापिष्ठया इहपरलोकविरुद्धमीदृशमनुष्ठितं यन्न त्यक्तुं न वा ग्रहीतुं शक्यते, पादयोः पतितुकामायाश्च पिटिका भूमौ निपतितेति ॥ ॥८७॥
द्वितीयकथानकम्-राजगृहनगरे कश्चिद्रमक: प्रतिवसति स्म, अन्यदा च तत्र कस्मिंश्चदुत्सवे लोको वैभारगिरिवरनितम्बवतिनि
Jain Educlu lernational
For Personal Private Use Only
SORTibrary.org