________________
भेदाः
नवपट वृत्ति:मू.देव. MEET
२४
सङ्कल्पज: सोऽपि द्विभेद इत्याह-सापराधो निरपराध:, ‘सवराह'त्ति सूत्रत्वाल्लुप्तविभक्तिकं पदं, तत: सहापराधेन वर्त्तत इति सापराध:-प्रतिकूलकारी हिंसाया | जीवस्तद्विषयो वधोऽपि सापराध:, पूर्वेक्तादेव हेतोर्निर्गतोऽपराधान्निरपराधः, शेषं प्राग्वत्, एष च सर्वोऽपि सापेक्षस्य कर्तुर्यदा भवति तदा सापेक्षो, निरपेक्षस्य तु निरपेक्षः, अत्र च श्रावकेण स्थूलप्राणातिपातस्य निवृत्ति कुर्वता संकल्पजान्निरपराधान्निवर्तितव्यं, सापराधे तु गुरलवालोचनया सापेक्षक्रियया | उत्पत्तिश्च प्रवर्त्तितव्यं, न तु निरपेक्षता कार्या, आरंभजे तु न नियमः, किन्तु तत्रापि यतनया प्रवर्त्तिव्यमिति गाथार्थः ।।२२।। गतं द्वितीयद्वारमिदानी यथा जायते | गा.२३/ स्थूलप्राणातिपातविरतिरित्येतद्दारमुच्यते
सम्मत्तमिवि पत्ते बीयकसायाण उवसमखएणं । तब्बिरईपरिणामो एवं सव्वाणवि वयाणं ॥२३॥ __'सम्यक्त्वे' सम्यग्दर्शने, अपिशब्दस्य भिन्नक्रम: सम्बन्धः, स च ‘प्राप्तेऽपि' लब्धेऽपि, अयमभिप्राय:-अप्राप्तसम्यग्दर्शनस्य विरतिपरिणामो & न जायत एव, अत: प्राप्तेऽपीत्युक्तं, 'द्वितीयकषायाणाम्' अप्रत्याख्यानाभिधेयानां 'उवसमखएणं' ति प्राकृतत्वात्परनिपात: तत: क्षयोपशमेनेत्यर्थः, 'तद्विरतिपरिणाम:' प्राणातिपातविरते: परिणामो, जायत इति शेष:, ‘एवं सव्वाणवि वयाणं ति एवं उक्तरूपेण द्वितीयंकषायक्षयोपशमलक्षणेन सर्वेषामपि-समस्तानामप्युक्तशेषाणां-मृषावादविरत्यादीनां, प्राप्तिरित्यध्याहृतपदेन सम्बन्ध इति गाथार्थ:, ।।२३।। उक्तं तृतीयद्वारमधुना चतुर्थमुच्यते
पाणाइवायअनियत्तणमि इहलोय परभवे दोसा। पइमारिया य इत्थं जत्तादमगो य दिटुंता ॥२४॥
प्राणातिपातो-हिंसा तस्या अनिवर्त्तनमनिवृत्तिस्तस्मिन् प्राणातिपातानिवर्त्तने, इहलोकश्च परभवश्च इहलोकपरभवं, समाहारत्वादेकवचनं, तस्मिन् इहलोकपरभवे, यद्वा प्राकुतत्वाद्वचनव्यत्यय:-इहलोकपरभवयो: 'दोषा' दूषणानि, भवन्तीति शेषः, अत्र च को दृष्टान्त: ? इति चेत् आहपतिमारिका च 'अत्र' प्राणातिपातनिवर्त्तने यात्राद्रमकश्च ‘दृष्टान्तौ' उदाहरणे, चशब्दौ परस्परापेक्षया समुच्चये, इति गाथार्थः ।।२४।। भावार्थ: कथानकगम्यः, तयोश्चाद्यं तावक्तथ्यते
लाटदेशे भृगुकच्छपत्तने गङ्गकाभिध एक उपाध्यायो बहुच्छात्रपाठको बभूव, मार्या तस्य नर्मदाभिधा तरुणी, सा चान्यदा तमुक्तवती, यथा-वैश्चदेवपूजाकाले बलिप्रक्षेपं कुर्वन्तीं मां काका उपद्रन्ति तत् मां तेभ्यो रक्षय, सोऽपि तस्याः कुटिलस्वभावतामजानान: छात्रान् अभाणीत्, ॥८६॥ यथा-प्रत्येकं भवद्भिर्भट्टिनी बलिविधानकाले काकेभ्यो वारकेण रक्षणीया येनैषा सुखेन तक्तरोति, तथेति प्रतिपन्ने तैस्तथा गच्छत्सु दिवसेष्वन्यदा |
Jain Educaberational
For Personal & Private Use Only
14
helibrary.org