________________
नवपदत्तिम.देव. वृ. यशो
॥
शिथिलोमो भवत्यनेन प्राणीति प्रमादः, किंविशिष्ट: ? 'अष्टविधः' अष्टप्रकारः, तथा चोक्तम्-“अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च । रागद्वेषावनास्थानं, स्मृतो धर्मेष्वनादरः ॥१॥ योगदुष्प्रणिधानं च, प्रमादोऽष्टविधः स्मृतः । तेन योगात्प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा ॥२॥" इति, अयमपि प्राणातिपाते स्वरूपमिति पूर्ववत्सम्बन्धः । ननु केऽमी प्राणा यदतिपातविषयमेतत्स्वरूपं प्ररूप्यते, ? उच्यते, 'पाणा चउराईय' ति 'प्राणा:' इन्द्रियादय: 'चतुरादयः' चतुःप्रभृतयः, आदिशब्दात्षडादिपरिग्रहो, यथोक्तम्- "इंदियबलऊसासा पाणा चउ छच्च सत्त अटेव। इगि विगलऽसण्णसण्णी नवदस (ग्रन्थानम् २५००) पाणा उ बोद्धव्वा ॥१॥” इति, परिणामे-चित्तादिपरिणतिविशेषे यदष्टोत्तरशतं, भङ्गकानामिति गम्यं, तच्च प्राणातिपाते & स्वरूपमिति प्राग्वद्योगः, उद्दिष्टसङ्ख्या चैवं-संरम्भसमारम्भारम्भैस्त्रिभिर्मनोवाक्कायकरणकारणानुमतिन-वकताडितैः सप्तविंशतिः २७, पुन: कषायगुणितैरष्टोत्तरं शतं, संरम्भादिस्वरूपं चैवं-प्राणातिपातादिसंकल्प: संरम्भः, तक्तरणजनितः परिताप: समारम्भः, तत्क्रियानिष्पत्तिश्चारम्भः, तदुक्तम्-"संकप्पो संरम्भो परितावकरो भवे समारंभो । आरम्भो उद्दवओ सुद्धनयाणं तु सव्वेसि ॥१॥" स्यादेतद्-व्रतान्यत्र यादृशादिद्वारैर्व्याख्यातुमुपक्रान्तानि, तेषु च | प्रथमव्रतं प्राणातिपातपरिहारः, ततो यादृशद्वारे तस्यैव स्वरूपं वक्तुमुचितं, न प्राणातिपातस्य, यत: प्राणातिपात: प्राणविनाशोऽभिधीयते, तत्परिहारस्तु तद्विरति:, यदाह वाचकमुख्य:-"हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रत-(तत्त्वा० ७-१)" मिति, सत्यं, विषयविषयिणोरभेदोपचारादेतद्विषया निवृत्तिरप्येतच्छब्देनोपात्तेति न दोषः, एतच्चानपेक्षिताणुस्थूलविशेषस्य प्राणातिपातस्य स्वरूपाभिधानं यतिश्रावकयो: सामान्येनैव स्वामित्वप्रदर्शनार्थ, निवृत्तिस्तु यथासम्भवं भाव्येति गाथार्थ: २१।। व्याख्यातं यादृशद्वारमधुना भेदद्वारस्यावसरस्तत्प्रतिपादनायाह
थूला सुहुमा जीवा संकप्पारंभजो य सो दुविहो । सवराह निरवराहो, साविक्खो तह य निरविक्खो ॥२२॥
थूला ___ 'स्थूला:' द्वीन्द्रियादयश्चक्षुरिन्द्रियग्राह्या: 'सुक्ष्माः' तद्विपरीता एकेंद्रिया: 'जीवा:' प्राणिनो, द्विविधा भवन्तीतिशेषः, सूक्ष्मत्वं च सूक्ष्मदृष्टिगम्यतया न तु सूक्ष्मनामकर्मोदयेन, तद्वतामतिपातनासम्भवात्, स्वायु:क्षयेणैव तन्मरणाभ्युपगमात्, अनेन जीववैविध्येनाश्रयायिणोरभेदोपचारात् प्राणातिपातो द्विविध: स्थूल: सूक्ष्मश्चैत्येतदुक्तं भवति, तेन प्राणातिपातभेदद्वारेऽपि जीवभेदाभिधानमदुष्टमेवेति सूत्रार्थः सूक्ष्मधिया भाव्यः, अन्यथापि प्राणातिपातद्वैविध्यमाह-'संकप्पारंभओ य सो दुविहो'त्ति सङ्कल्पश्च-मारयाम्येनं कुलिङ्गिनमित्येवं विकल्प: आरम्भश्च कृष्यादिरूप: सङ्कल्पारम्भौ ८५ ताभ्यां जातः सङ्कल्पारम्भजः, चशब्द: पूर्वापेक्षया समुच्चये, 'सः' पूर्वोक्त: स्थूलसूक्ष्मभेदेन द्विविधोऽपि प्रत्येकं द्विविध इति सम्बन्धः, य:
Jain Education international
For Persona 5 Private Lise Only
www.jainelibrary.org