SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥७९॥ प्रधानगीतार्थः, कालान्तरेण चोत्पादितं सकलघातिकर्मविगममाधायातीतानागत-वर्त्तमाननिखिलपर्यायाध्या-सितलोकालोकाविर्भावकं केवलज्ञानं, महापद्मराजस्याप्यायुधशालायामुदपादि चक्ररत्नं कृतः सकलदिग्विजयः साधितं षट्खण्डं भरतक्षेत्रं जातो नवमश्चक्रवर्ती, यौ चैतावत्कालं स्थितौ रथौ तयोश्च प्रथमं जिनरथं नगर्यां पर्यटय विहिता समं जननीतोषेण जिनप्रवचनप्रभावना, तत्प्रभृति चानेको लोकः प्रपन्नो जिनशासनं, कारिता च तेन चक्रवर्त्तिनाऽनेकजिनभवनमण्डिता सकलभरतक्षेत्रभूमिः पद्मोत्तरमुनिस्तु केवलपर्यायेण विहृत्य कियन्तमपि कालं गतो निर्वाणं । विष्णुकुमारसाधोश्च विविधतपोविशेषविशोषितशरीरस्य ज्ञानदर्शनचारित्रपर्यायैः प्रवर्द्धमानस्योत्पन्ना नानाविधवैक्रियकरणगगनगमनादिलब्धयः, न चैतिच्चित्रं यदनुकलमविकलं सकलधर्ममाराधयतां साधूनां लब्धयः समुत्पद्यते, तथा चोक्तं- "चरणरजसा प्रशमनं सर्वरुजां साधवः क्षणात् कुर्युः । त्रिभुवनविस्मयजननान् दद्युः कामांस्तृणाद्वा ॥१॥ धर्माद्रत्नोन्मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । अद्भुतभीमोरुशिलासहस्रसम्पात - शक्तिश्च ॥ २॥ " इत्यादि । इतश्च सुव्रताचार्य: स्वशिष्यपरिकरितो मासकल्पेन विहरन् संप्राप्तो वर्षासन्नदिनेषु हस्तिनागपुरं, समवसृतो बाह्योद्याने, समागतां वन्दनार्थ नरेन्द्रादयः, प्रारब्धा धर्मकथा, निन्दिता मिथ्यात्वादयः पदार्थाः, प्रशंसिताः, सम्यक्त्वादयः, ततश्च केचिदवगतयथाऽवस्थिततीर्थकरवचनाः प्रव्रजिता, अपरे च श्रावका जाता:, अत्रान्तरे पूर्ववैरसस्मरणोपजातगाढकोपस्य नमुचिमन्त्रिणो मुनिच्छिद्रावलोकनपरस्य समागतो वर्षासमय:, यत्र - मार्गा दुर्गमतां गता विरहिणः शुष्यन्ति कामातुरा, निर्जित्येव निदाघमूर्जितरिपुं गर्जन्ति धाराधराः । आलोक्येव मलीमसोदयमितो हंसा गता मानसं जाता मासविहारिणोऽपि हि पुरा स्थानस्थिताः साधवः ||१|| एवंविधघनसमये, मुनिजनकोपेन याचितो राजा । पूर्वप्रतिपन्नवरो, दत्तश्च नृपेण भणितं च ॥ २ ॥ ब्रूहि तव यदभिलषितं स आह वेदोदितेन विधिनाऽहम् । इच्छामि यज्ञयजनं तन्मे तावन्ति दिवसानि ॥ ३॥ देहि स्वकीयराज्यं दत्तं राज्ञा च सत्यसन्धेन । अन्तःपुरं प्रविश्य स्वयं च तस्थौ मनुजनाथः ।।४।। राज्यस्थिते च तस्मिन् वर्द्धापनकार्थमागतास्तस्य । सर्वे पाखण्डस्थाः विमुच्य तं साधुजनमेकम् ||५|| अत्रान्तरे तदेव छिद्रं लब्ध्वा मुनीनाकार्योक्तवान्-भो ! भो ! समुत्सृजत मदीयं देशं विमुञ्चतेदानी मे नगरं, अद्रष्टव्यमुखा हि यूयं ये सकलजनसम्मतमपि समुचितं लौकिकाचारमुल्लङ्घयन्ति, नीतिशास्त्रप्रतिषिद्धश्च भवदाचारः, तथा चोक्तम्- " यद्यपि निपुणो योगी, छिद्रां पश्यति मेदिनीम् । तथाऽपि लौकिकाचारान्, मनसाऽपि न लङ्घयेत् ||१|| " किञ्च - "लोकवत्प्रतिपत्तव्यो, लौकिकोऽर्थः परीक्षकैः । लोकव्यवहारं प्रति, सदृशौ बालपण्डितौ ॥२॥" न चान्यदर्शनिभ्यो भवन्तः प्रधानतराः, ते च सर्वेऽप्यभिनवराज्यलाभेऽस्मद्वर्द्धापनाय समायाताः भवन्तस्तु गुरुदर्पाध्मातान्तःकरणा लोकव्यवहारबाह्या For Personal & Private Use Only Jain Educatenational DN ॥७९॥ brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy