________________
܀܀܀܀
܀܀܀܀܀
܀
नुमानस्य व्युत्पन्नमतिपतिपाद्यापेक्षयात्रोक्तमव्युत्पन्नमतिप्रतिपाद्यापेक्षया तु धूमोज दृश्यत इत्यादि हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्पयोगाभावात्तु नेतत्साक्षात्सूत्रे मूत्रितमुपलक्षितं तु द्रष्टव्यं । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवतीति । साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः यथा यत्र धूमस्तत्र धूमध्वजः। व्युत्पन्न प्रति हेतुप्रयोगस्तथोपपत्त्याऽन्यथानुपपत्यैव वा। तथैव साध्यसंभवप्रकारेणवोपपत्तिस्तथोपपत्तिः । अन्यथा साध्याभावप्रकारेणानुपपत्तिरवान्यथानुपपत्तिस्ताभ्यामिति । यथाग्निमानयं प्रदेशः, तथा धूमवत्त्वोपपत्तेधूमवच्चान्यथानुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणेव साध्यप्रतिपत्ती द्वितीयप्रयोगस्यैकत्रानुपयोगः । अन्तर्ध्यात्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च वहिप्प्तेरुद्भावनं व्यर्थ । मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबंधप्रतिपत्तेरास्पदं दृष्टान्तः। स द्वेधाऽन्वयव्यतिरेकभेदात् । साधनसत्तायां यत्रावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयदृष्टान्तो यथा यत्र धूमस्तत्र वहिर्यथा महानस इति। साध्याभावे साधनस्याभावो यत्र कथ्यते सव्यतिरेक-: |दृष्टान्तो यथा वह्नयभावे न भवत्येव धूमो यथा जलाशय इति । हेतोरुपसंहार उपनयो यथा धूमश्चात्र प्रदेशे इति । प्रतिज्ञायास्तुपसंहारो निगमनं । यथा तस्मादग्निरत्रेति । एते पक्षादयः पश्चाप्यवयवाः प्रकीर्त्यन्ते । स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् । उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च । तत्र विधिः सदंशः प्रतिषेधोऽसदंशः स चतुर्दा पागभावः ? प्रध्वंसाभावः २ इतरेतराभावो ३त्यन्ताभाव ४श्च। तत्र यन्निवृत्तावेव कार्यस्य समुत्पत्तिःसोऽस्य पागभावो यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति । यदुत्पत्तो कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावो यथा कपालकदंबकोत्पत्ती नियमतो विपद्यमानस्य घटस्य कपालमाला इति । स्वरूपा
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀ ܀
HALI Jain Education intonal
For Personal & Private Use Only
Alelbrary.org