________________
॥ अथ शास्त्रवार्तासमुच्चयः॥४॥ है प्रणम्य परमात्मानं वक्ष्यामि हितकाम्यया। सत्त्वानामल्पबुद्धीनां शास्त्रवार्तासमुच्चयम्
यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः। जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः है दुःखं पापात्सुखं धर्मात्सर्वशास्त्रेषु संस्थितिः। न कर्त्तव्यमतः पापं कर्तव्यो धर्मसञ्चयः ॥३
हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः विपरीतास्तु धर्मस्य एत एवोदिता बुधैः । एतेषु सततं यत्नः सम्यकार्यः सुखैषिणा साधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भावतः। आत्मीयग्रहमोक्षश्च धर्महेतुप्रसाधनम् उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफलं महत् मैत्री भावयतो नित्यं शुभो भावः प्रजायते । ततो भावोदकाजन्तोषाग्निरुपशाम्यति अशेषदोषजननी निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्तते
००G.
COM
NिKANAKANHAGRA
Jain Education in
For Personal & Private Use Only
I
naw.jainelibrary.org