SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 98 ॥४॥ श्री का शास्त्रवार्ता समुच्चयः॥ ॥प्रथमः स्तबकः॥ सामान्यो पदेशविचारः॥ ॥४९॥ एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः । तत्त्वविद्भिः समाख्यातः सम्यग्धर्मस्य साधकः॥१०॥ उपादेयश्च संसारे धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्वं यतोऽन्यद्दःखकारणम् ॥ ११ ॥ अनित्यः प्रियसंयोग इहाशोकवत्सलः । अनित्यं यौवनं चापि कुत्सिताचरणास्पदम् ॥ १२ ॥ अनित्याः सम्पदस्तीव्रक्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह सर्वभावनिबन्धनम् ॥ १३॥ पुनर्जन्म पुनर्मृत्युहीनादिस्थानसंश्रयः। पुनः पुनश्च यदतः सुखमत्र न विद्यते। प्रकृत्यसुन्दरं ह्येवं संसारे सर्वमेव यत् । अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् ॥ १५॥ मुक्त्वा धर्म जगद्वन्यमकलकं सनातनम्। परार्थसाधकं धीरैः सेवितं शीलशालिभिः॥ युग्मम्॥१६॥ आह तत्रापि नो युक्ता यदि सम्यनिरूप्यते। धर्मस्यापि शुभो यस्माद्बन्ध एव फलं मतम् ॥ १७ ॥ न चाऽऽयसस्य बन्धस्य तथा हेममयस्य च। फले कश्चिद्विशेषोऽस्ति पारतन्त्र्याविशेषतः ॥१८॥ तस्मादधर्मवत्त्याज्यो धर्मोऽप्येवं मुमुक्षुभिः । धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वर्णिता यतः ॥ १९ ॥ | उच्यत एवमेवैतत् किन्तु धर्मो द्विधा मतः । संज्ञानयोग एवैकस्तथान्यः पुण्यलक्षणः ॥२०॥ ॥४९॥ Jain Education For Persons & Private Use Only R ow.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy